विषय सूची पर जायें

03. अंग विभाग शारीर - शारीर - अ.हृ."

अष्टाङ्गहृदयस्य(शारीरस्थानम्‌)अङ्गविभाग

तृतीयोऽध्यायः।

अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

शिरोऽन्तराधिर्द्वौ बाहू सक्थिनीति समासतः।

षडङ्गमङ्गं प्रत्यङ्गं तस्याक्षिहृदयादिकम्‌॥१॥

शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाद्गुणाः।

खानिलाग्न्यब्भुवाम्‌ एकगुणवृद्ध्यन्वयः परे॥२॥

तत्र खात्‌ खानि देहेऽस्मिन्‌ श्रोत्रं शब्दो विविक्तता।

वातात्स्पर्शत्वगुच्छ्वासा वह्नेर्दृग्रूपपक्तयः॥३॥

आप्या जिह्वारसक्लेदा घ्राणगन्धास्थि पार्थिवम्‌।

मृद्वत्र मातृजं रक्तमांसमज्जगुदादिकम्‌॥४॥

पैतृकं तु स्थिरं शुक्रधमन्यस्थिकचादिकम्‌।

चैतनं चित्तमक्षाणि नानायोनिषु जन्म च॥५॥

सात्म्यजं त्वायुरारोग्यमनालस्यं प्रभा बलम्‌।

रसजं वपुषो जन्म वृत्तिर्वृद्धिरलोलता॥६॥

सात्विकं शौचमास्तिक्यं शुक्लधर्मरुचिर्मतिः।

राजसं बहुभाषित्वं मानक्रुद्दम्भमत्सरम्‌॥७॥

तामसं भयमज्ञानं निद्राऽऽलस्यं विषादिता।

इति भूतमयो देहः तत्र सप्त त्वचोऽसृजः॥८॥

पच्यमानात्प्रजायन्ते क्षीरात्सन्तानिका इव।

धात्वाशयान्तरक्लेदो विपक्वः स्वंस्वमूष्मणा॥९॥

श्लेष्मस्नाय्वपराच्छन्नः कलाख्यः काष्ठसारवत्‌।

ताः सप्त सप्त चाधारा रक्तस्याद्यः क्रमात्‌ परे॥१०॥

कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृताः।

गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे॥११॥

कोष्ठाङ्गानि स्थितान्येषु हृदयं क्लोम फुफ्फुसम्‌।

यकृत्प्लीहोन्दुकं वृक्कौ नाभिडिम्भान्त्रबस्तयः॥१२॥

दश जीवितधामानि शिरोरसनबन्धनम्‌।

कण्ठोऽस्रं हृदयं नाभिर्बस्तिः शुक्रौजसी गुदम्‌॥१३॥

जालानि कण्डराश्चाङ्गे पृथक्‌ षोडश निर्दिशेत्‌।

षट्‌ कूर्चाः सप्त सीवन्यो मेढ्रजिह्वाशिरोगताः॥१४॥

शस्त्रेण ताः परिहरेच्चतस्रो मांसरज्जवः।

चतुर्दशास्थिसङ्घाताः, सीमन्ता द्विगुणा नव॥१५॥

अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनखैः सह।

धन्वन्तरिस्तु त्रीण्याह, सन्धीनां च शतद्वयम्‌॥१६॥

दशोत्तरं सहस्रे द्वे निजगादात्रिनन्दनः।

स्नाव्नां नवशती पञ्च पुंसां पेशीशतानि तु॥१७॥

अधिका विंशतिः स्रीणां योनिस्तनसमाश्रिताः।

दशमूलसिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः॥१८॥

रसात्मकं वहन्त्योजस्तन्निबद्धं हि चेष्टितम्‌।

स्थूलमूलाः सुसूक्ष्माग्राः पत्ररेखाप्रतानवत्‌॥१९॥

भिद्यन्ते तास्ततः सप्तशतान्यासां भवन्ति तु।

तत्रैकैकं च शाखायां शतं, तस्मिन्न वेधयेत्‌॥२०॥

सिरां जालन्धरां नाम तिस्रश्चाभ्यन्तराश्रिताः।

षोडशद्विगुणाः श्रोण्यां, तासां द्वे द्वे तु वङ्‌क्षणे॥२१॥

द्वे द्वे कटिकतरुणे शस्त्रेणाष्टौ स्पृशेन्न ताः।

पार्श्वयोः षोडशैकैकामूर्ध्वगां वर्जयेत्तयोः॥२२॥

द्वादशद्विगुणाः पृष्ठे पृष्ठवंशस्य पार्श्वयोः।

द्वे द्वे तत्रोर्ध्वगामिन्यौ न शस्त्रेण परामृशेत्‌॥२३॥

पृष्ठवज्जठरे तासां मेहनस्योपरि स्थिते।

रोमराजीमुभयतो द्वे द्वे शस्त्रेण न स्पृशेत्‌॥२४॥

चत्वारिंशदुरस्यासां चतुर्दश न वेधयेत्‌।

स्तनरोहिततन्मूलहृदये तु पृथग्द्वयम्‌॥२५॥

अपस्तम्भाख्ययोरेकां तथाऽपालापयोरपि।

ग्रीवायां पृष्ठवत्तासां नीले मन्ये कृकाटिके॥२६॥

विधुरे मातृकाश्चाष्टौ षोडशेति परित्यजेत्‌।

हन्वोः षोडश, तासां द्वे सन्धिबन्धनकर्मणी॥२७॥

जिह्वायां हनुवत्तासामधो द्वे रसबोधने।

द्वे च वाचःप्रवर्तिन्यौ नासायां चतुरुत्तरा॥२८॥

विंशतिर्गन्धवेदिन्यौ तासामेकां च तालुगाम्‌।

षट्‌पञ्चाशन्नयनयोर्निमेषोन्मेषकर्मणी॥२९॥

द्वे द्वे, अपाङ्गयोर्द्वे च तासां षडिति वर्जयेत्‌।

नासानेत्राश्रिताः षष्टिर्ललाटे, स्थपनीश्रिताम्‌॥३०॥

तत्रैकां, द्वे तथाऽऽवर्तौ, चतस्रश्च कचान्तगाः।

सप्तैवं वर्जयेत्तासाम्‌ कर्णयोः षोडशात्र तु॥३१॥

द्वे शब्दबोधने शङ्खौ सिरास्ता एव चाश्रिताः।

द्वे शङ्खसन्धिगे तासाम्‌ मूर्ध्नि  द्वादश तत्र तु॥३२॥

एकैकां पृथगुत्क्षेपसीमन्ताधिपतिस्थिताम्‌।

इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः॥३३॥

अवेध्यास्तत्र कार्‌त्स्न्येन देहेऽष्टानवतिस्तथा।

सङ्कीर्णा ग्रथिताः क्षुद्रा वक्राः सन्धिषु चाश्रिताः॥३४॥

तासां शतानां सप्तानां पादोऽस्रं वहते पृथक्‌।

वातपित्तकफैर्जुष्टं शुद्धं चैवं स्थिता मलाः॥३५॥

शरीरमनुगृह्णन्ति पीडयन्त्यन्यथा पुनः।

तत्र श्यावारुणाः सूक्ष्माः पूर्णरिक्ताः क्षणात्सिराः॥३६॥

प्रस्पन्दिन्यश्च वातास्रं वहन्ते पित्तशोणितम्‌।

स्पर्शोष्णाः शीघ्रवाहिन्यो नीलपीताः कफं पुनः॥३७॥

गौर्यः स्निग्धाः स्थिराः शीताः संसृष्टं लिङ्गसङ्करे।

गूढाः समस्थिताः स्निग्धा रोहिण्यः शुद्धशोणितम्‌॥३८॥

धमन्यो नाभिसम्बद्धा विंशतिश्चतुरुत्तरा।

ताभिः परिवृता नाभिश्चक्रनाभिरिवारकैः॥३९॥

ताभिश्चोर्ध्वमधस्तिर्यग्देहोऽयमनुगृह्यते।

स्रोतांसि नासिके कर्णौ नेत्रे पाय्वास्यमेहनम्‌॥४०॥

स्तनौ रक्तपथश्चेति नारीणामधिकं त्रयम्‌।

जीवितायतनान्यन्तः स्रोतांस्याहुस्त्रयोदश॥४१॥

प्राणधातुमलाम्भोन्नवाहीनि अहितसेवनात्‌।

तानि दुष्टानि रोगाय, विशुद्धानि सुखाय च॥४२॥

स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च।

स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च॥४३॥

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः।

धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः॥४४॥

अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा।

विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्‌॥४५॥

बिसानामिव सूक्ष्माणि दूरं प्रविसृतानि च।

द्वाराणि स्रोतसां देहे रसो यैरुपचीयते॥४६॥

व्यधे तु स्रोतसां मोहकम्पाध्मानवमिज्वराः।

प्रलापशूलविण्मूत्ररोधाे मरणमेव वा॥४७॥

स्रोतोविद्धमतो वैद्यः प्रत्याख्याय प्रसाधयेत्‌।

उद्धृत्य शल्यं यत्नेन सद्यःक्षतविधानतः॥४८॥

अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम्‌ ।

दोषधातुमलादीनामूष्मेत्यात्रेयशासनम्‌ ॥४९॥

तदधिष्ठानमन्नस्य ग्रहणाद्‌ग्रहणी मता।

सैव धन्वन्तरिमते कला पित्तधराह्वया॥५०॥

आयुरारोग्यवीर्यौजोभूतधात्वग्निपुष्टये।

स्थिता पक्वाशयद्वारि भुक्तमार्गार्गलेव सा॥५१॥

भुक्तमामाशये रुध्वा सा विपाच्य नयत्यधः।

बलवत्यबला त्वन्नमाममेव विमुञ्चति॥५२॥

ग्रहण्या बलमग्निर्हि  स चापि ग्रहणीबलः।

दूषितेऽग्नावतो दुष्टा ग्रहणी रोगकारिणी॥५३॥

यदन्नं देहधात्वोजोबलवर्णादिपोषणम्‌।

तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः॥५४॥

अन्नं कालेऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम्‌।

द्रवैर्विभिन्नसङ्घातं नीतं स्नेहेन मार्दवम्‌॥५५॥

सन्धुक्षितः समानेन पचत्यामाशयस्थितम्‌।

औदर्योऽग्निर्यथा बाह्यः स्थालीस्थं तोयतण्डुलम्‌॥५६॥

आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्‌।

फेनीभूतं कफं, यातं विदाहादम्लतां ततः॥५७॥

पित्तमामाशयात्कुर्याच्च्यवमानं, च्युतं पुनः।

अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम्‌॥५८॥

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः।

पञ्चाहारगुणान्स्वान्‌ स्वान्‌ पार्थिवादीन्‌ पचन्त्यनु॥५९॥

यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान्‌ पृथक्‌।

पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान्‌॥६०॥

किट्टं सारश्च तत्पक्वमन्नं सम्भवति द्विधा।

तत्राच्छं किट्टमन्नस्य मूत्रं विद्याद्धनं शकृत्‌॥६१॥

सारस्तु सप्तभिर्भूयो यथास्वं पच्यतेऽग्निभिः।

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च॥६२॥

अस्थ्नाे मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते।

कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च॥६३॥

स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः।

प्रसादकिट्टौ धातूनां पाकादेवं द्विधर्छतः॥६४॥

परस्परोपसंस्तम्भाद्धातुस्नेहपरम्परा।

केचिदाहुरहोरात्रात्षडहादपरे, परे॥६५॥

मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः।

सन्तता भोज्यधातूनां परिवृत्तिस्तु चक्रवत्‌॥६६॥

वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते।

प्रायः करोत्यहोरात्रात्कर्मान्यदपि भेषजम्‌॥६७॥

व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा।

युगपत्सर्वतोऽजस्रं देहे विक्षिप्यते सदा॥६८॥

क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः।

तस्मिन्विकारं कुरुते खे वर्षमिव तोयदः॥६९॥

दोषाणामपि चैवं स्यादेकदेशप्रकोपणम्‌।

अन्नभौतिकधात्वग्निकर्मेति परिभाषितम्‌॥७०॥

अन्नस्य पक्ता सर्वेषां पक्तृणामधिको मतः।

तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः॥७१॥

तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः।

पालयेत्प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः॥७२॥

समः समाने स्थानस्थे विषमोऽग्निर्विमार्गगे।

पित्ताभिमूर्च्छिते तीक्ष्णो मन्दोऽस्मिन्कफपीडिते॥७३॥

समोऽग्निर्विषमस्तीक्ष्णो मन्दश्चैवं चतुर्विधः।

यः पचेत्सम्यगेवान्नं भुक्तं सम्यक्‌ समस्त्वसौ॥७४॥

विषमोऽसम्यगप्याशु सम्यग्वाऽपि चिरात्पचेत्‌।

तीक्ष्णो वह्निः पचेच्छीघ्रमसम्यगपि भोजनम्‌॥७५॥

मन्दस्तु सम्यगप्यन्नमुपयुक्तं चिरात्पचेत्‌।

कृत्वाऽऽस्यशोषाटोपान्त्रकूजनाध्मानगौरवम्‌॥७६॥

सहजं कालजं युक्तिकृतं देहबलं त्रिधा।

तत्र सत्त्वशरीरोत्थं प्राकृतं सहजं बलम्‌॥७७॥

वयस्कृतमृतूत्थं च कालजं, युक्तिजं पुनः।

विहाराहारजनितं तथोर्जस्करयोगजम्‌॥७८॥

देशोऽल्पवारिद्रुनगो जाङ्गलः स्वल्परोगदः।

आनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः॥७९॥

मज्जमेदोवसामूत्रपित्तश्लेष्मशकृन्त्यसृक्‌।

रसो जलं च देहेऽस्मिन्नेकैकाञ्जलिवर्द्धितम्‌॥८०॥

पृथक्‌ स्वप्रसृतं प्रोक्तमोजोमस्तिष्करेतसाम्‌।

द्वावञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः ॥८१॥

समधातोरिदं मानं विद्याद्वृद्धिक्षयावतः॥८२॥

शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयर्तुषु।

यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता॥८३॥

विभुत्वादाशुकारित्वाद्बलित्वादन्यकोपनात्‌।

स्वातन्त्र्याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः॥८४॥

प्रायोऽत एव पवनाध्युषिता मनुष्या

दोषात्मकाः स्फुटितधूसरकेशगात्राः।

शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टा-

सौहार्ददृष्टिगतयोऽतिबहुप्रलापाः॥८५॥

अल्पवित्तबलजीवितनिद्राः

सन्नसक्तचलजर्जरवाचः।

नास्तिका बहुभुजः सविलासा

गीतहासमृगयाकलिलोलाः॥८६॥

मधुराम्लपटूष्णसात्म्यकाङ्‌क्षाः

कृशदीर्घाकृतयः सशब्दयाताः।

न दृढा न जितेन्द्रिया न चार्या

न च कान्तादयिता बहुप्रजा वा॥८७॥

नेत्राणि चैषां खरधूसराणि

वृत्तान्यचारूणि मृतोपमानि।

उन्मीलितानीव भवन्ति सुप्ते

शैलद्रुमांस्ते गगनं च यान्ति॥८८॥

अधन्या मत्सराध्माताः स्तेनाः प्रोद्बद्धपिण्डिकाः।

श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः॥८९॥

पित्तं वह्निर्वह्निजं वा यदस्मा-

त्पित्तोद्रिक्तस्तीक्ष्णतृष्णाबुभुक्षः।

गौरोष्णाङ्गस्ताम्रहस्ताङि्‌घ्रवक्त्रः

शूरो मानी पिङ्गकेशोऽल्परोमा॥९०॥

दयितमाल्यविलेपनमण्डनः

सुचरितः शुचिराश्रितवत्सलः।

विभवसाहसबुद्धिबलान्वितो

भवति भीषु गतिर्द्विषतामपि॥९१॥

मेधावी प्रशिथिलसन्धिबन्धमांसो

नारीणामनभिमतोऽल्पशुक्रकामः।

आवासः पलिततरङ्गनीलिकानां

भुङ्क्तेऽन्नं मधुरकषायतिक्तशीतम्‌॥९२॥

घर्मद्वेषी स्वेदनः पूतिगन्धि-

र्भूर्युच्चारक्रोधपानाशनेर्ष्यः।

सुप्तः पश्येत्कर्णिकारान्पलाशान्‌

दिग्दाहोल्काविद्युदर्कानलांश्च॥९३॥

तनूनि पिङ्गानि चलानि चैषां

तन्वल्पपक्ष्माणि हिमप्रियाणि।

क्रोधेन मद्येन रवेश्च भासा

रागं व्रजन्त्याशु विलोचनानि॥९४॥

मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः।

व्याघ्रर्क्षकपिमार्जारयक्षानूकाश्च पैत्तिकाः॥९५॥

श्लेष्मा सोमः श्लेष्मलस्तेन सौम्यो

गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः।

क्षुत्तृड्‌दुःखक्लेशघर्मैरतप्तो

बुद्ध्या युक्तः सात्विकः सत्यसन्धः॥९६॥

प्रियङ्गुदूर्वाशरकाण्डशस्त्र-

गोरोचनापद्मसुवर्णवर्णः।

प्रलम्बबाहुः पृथुपीनवक्षा

महाललाटो घननीलकेशः॥९७॥

मृद्वङ्गः समसुविभक्तचारुदेहो

बह्वोजोरतिरसशुक्रपुत्रभृत्यः।

धर्मात्मा वदति न निष्ठुरं च जातु

प्रच्छन्नं वहति दृढं चिरं च वैरम्‌॥९८॥

समदद्विरदेन्द्रतुल्ययातो

जलदाम्भोधिमृदङ्गसिंहघोषः।

स्मृतिमानभियोगवान्‌ विनीतो

न च बाल्येऽप्यतिरोदनो न लोलः॥९९॥

तिक्तं कषायं कटुकोष्णरूक्ष-

मल्पं स भुङ्क्ते बलवांस्तथाऽपि।

रक्तान्तसुस्निग्धविशालदीर्घ-

सुव्यक्तशुक्लासितपक्ष्मलाक्षः॥१००॥

अल्पव्याहारक्रोधपानाशनेहः

प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः।

श्राद्धो गम्भीरः स्थूललक्षः क्षमावा-

नार्यो निद्रालुर्दीर्घसूत्रः कृतज्ञः॥१०१॥

ऋजुर्विपिश्चत्सुभगः सुलज्जो

भक्तो गुरूणां स्थिरसौहृदश्च।

स्वप्ने सपद्मान्सविहङ्गमालां-

स्तोयाशयान्‌ पश्यति तोयदांश्च॥१०२॥

ब्रह्मरुद्रेन्द्रवरुणतार्क्ष्यहंसगजाधिपैः।

श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः॥१०३॥

प्रकृतीर्द्वयसर्वोत्था द्वन्द्वसर्वगुणोदये।

शौचास्तिक्यादिभिश्चैवं गुणैर्गुणमयीर्वदेत्‌॥१०४॥

वयस्त्वाषोडशाद्बालं तत्र धात्विन्द्रियौजसाम्‌।

वृद्धिरासप्ततेर्मध्यं तत्रावृद्धिः परं क्षयः॥१०५॥

स्वं स्वं  हस्तत्रयं सार्द्धं वपुः पात्रं सुखायुषोः।

न च यद्युक्तमुद्रिक्तैरष्टाभिर्निन्दितैर्निजैः॥१०६॥

अरोमशासितस्थूलदीर्घत्वैः सविपर्ययैः।

सुस्निग्धा मृदवः सूक्ष्मा नैकमूलाः स्थिराः कचाः॥१०७॥

ललाटमुन्नतं श्लिष्टशङ्खमर्धेन्दुसन्निभम्‌।

कर्णौ नीचोन्नतौ पश्चान्महान्तौ श्लिष्टमांसलौ॥१०८॥

नेत्रे व्यक्तासितसिते सुबद्धघनपक्ष्मणी।

उन्नताग्रा महोच्छ्वासा पीनर्जुर्नासिका समा॥१०९॥

ओष्ठौ रक्तावनुद्वृत्तौ, महत्यौ नोल्बणे हनू।

महदास्यं, घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताः समाः॥११०॥

जिह्वा रक्ताऽऽयता तन्वी, मांसलं चिबुकं महत्‌।

ग्रीवा ह्रस्वा घना वृत्ता, स्कन्धावुन्नतपीवरौ॥१११॥

उदरं दक्षिणावर्तगूढनाभि समुन्नतम्‌।

तनुरक्तोन्नतनखं स्निग्धमाताम्रमांसलम्‌॥११२॥

दीर्घाच्छिद्राङ्गुलि महत्पाणिपादं प्रतिष्ठितम्‌।

गूढवंशं बृहत्पृष्ठं, निगूढाः सन्धयो दृढाः॥११३॥

धीरः स्वरोऽनुनादी च, वर्णः स्निग्धः स्थिरप्रभः।

स्वभावजं स्थिरं सत्त्वमविकारि विपत्स्वपि॥११४॥

उत्तरोत्तरसुक्षेत्रं वपुर्गर्भादिनीरुजम्‌।

आयामज्ञानविज्ञानैर्वर्द्धमानं शनैः शुभम्‌॥११५॥

इति सर्वगुणोपेते शरीरे शरदां शतम्‌।

आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः॥११६॥

त्वग्रक्तादीनि सत्त्वान्तान्यग्र्याण्यष्टौ यथोत्तरम्‌।

बलप्रमाणज्ञानार्थं साराण्युक्तानि देहिनाम्‌॥११७॥

सारैरुपेतः सर्वैः स्यात्परं गौरवसंयुतः।

सर्वारम्भेषु चाशावान्सहिष्णुः सन्मतिः स्थिरः॥११८॥

अनुत्सेकमदैन्यं च सुखं दुःखं  च सेवते।

सत्ववांस्तप्यमानस्तु राजसो नैव तामसः॥११९॥

दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः।

रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः॥१२०॥

इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थानेऽङ्गविभागो नाम तृतीयोऽध्यायः॥३॥

Last updated on August 12th, 2021 at 09:47 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi