विषय सूची पर जायें

10. विसर्प नाडी स्तनरोग निदानम् - निदान - सु.

सुश्रुतसंहिता ।

अथ निदानस्थानम्‌ ।

दशमोऽध्यायः ।

अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम् |

कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः ||३||

वातात्मकोऽसितमृदुः परुषोऽङ्गमर्दसम्भेदतोदपवनज्वरलिङ्गयुक्तः |

गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः ||४||

पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः |

दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ||५||

श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः |

सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः पक्वो न सिध्यति च मांससिराप्रशातात् ||६||

सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोफम् |

श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ||७||

सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति |

पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ||८||

शोफं न पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः |

अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः ||९||

तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी |

दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ||१०||

तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम् |

तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात् ||११||

ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः |

दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ||१२||

दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि |

तामादिशेत् पवनपित्तकफप्रकोपाद्धोरामसुक्षयकरीमिव कालरात्रिम् ||१३||

नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति |

सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम् ||१४||

यावत्यो गतयो यैश्च कारणैः सम्भवन्ति हि |

तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः ||१५||

धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः |

दोषाविसरणात्तासां न भवन्ति स्तनामयाः ||१६||

तासामेव प्रजातानां गर्भिणीनां च ताः पुनः |

स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ||१७||

रसप्रसादो मधुरः पक्वाहारनिमित्तजः |

कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ||१८||

विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते |

सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ||१९||

तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि |

शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते ||२०||

सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते |

आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ||२१||

तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि |

ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्तते ||२२||

स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते |

तत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि ||२३||

पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः |

कफाद्घनं पिच्छिलं च जले चाप्यवसीदति |

सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति ||२४||

यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम् |

मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् ||२५||

सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः |

रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते ||२६||

पञ्चानामपि तेषां तु हित्वा शोणितविद्रधिम् |

लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ||२७|| इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्त

Last updated on May 31st, 2021 at 05:36 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi