चरकसंहिता
इन्द्रियस्थानम् ।
चतुर्थोऽध्याय: ।
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
इन्द्रियाणि यथा जन्तो: परीक्षेत विशेषवित् ।
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत ॥३॥
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वत: ।
अद्धा हि विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम् ॥४॥
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम् ।
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत् ॥५॥
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम् ।
तदेव तु पुनर्भूयो विस्तरेण निबोधत ॥६॥
घनीभूतमिवाकाशमाकाशमिव मेदिनीम् ।
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति ॥७॥
यस्य दर्शनमायाति मारुतोऽम्बरगोचर: ।
अग्निर्नायाति चादीप्तस्तस्यायु: क्षयमादिशेत् ॥८॥
जले सुविमले जालमजालावतते नर: ।
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते ॥९॥
जाग्रत् पश्यति य: प्रेतान् रक्षांसि विविधानि च ।
अन्यद्वाऽप्यद्भुतं किञ्चिन्न स जीवितुमर्हति ॥१०॥
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् ।
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम् ॥११॥
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे ।
विद्युतो वा विना मेघै: पश्यन् मरणमृच्छति ॥१२॥
मृन्मयीमिव य: पात्रीं कृष्णाम्बरसमावृताम् ।
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति ॥१३॥
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम् ।
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम् ॥१४॥
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति ॥१५॥
प्रभावत: प्रभाहीनान्निष्प्रभांश्च प्रभावत: ।
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासव: ॥१६॥
व्याकृतीनि विवर्णानि विसंख्योपगतानि च ।
विनिमित्तानि पश्यन्ति रूपाण्यायु:क्षये नरा: ॥१७॥
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति ।
तावुभौ पश्यत: क्षिप्रं यमक्षयमसंशयम् ॥१८॥
अशब्दस्य च य: श्रोता शब्दान् यश्च न बुध्यते ।
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥१९॥
संवृत्याङ्गुलिभि: कर्णौ ज्वालाशब्दं य आतुर: ।
न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत् ॥२०॥
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम् ।
न वा तान् सर्वशो विद्यात्तं विद्याद्विगतायुषम् ॥२१॥
यो रसान्न विजानाति न वा जानाति तत्त्वत: ।
मुखपाकादृते पक्वं तमाहु: कुशला नरम् ॥२२॥
उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान् ।
स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते ॥२३॥
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ।
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति ॥२४॥
इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान् ।
नर: पश्यति य: कश्चिदिन्द्रियैर्न स जीवति ॥२५॥
स्वस्था: प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम् ।
पश्यन्ति येऽसद्बहुशस्तेषां मरणमादिशेत् ॥२६॥
तत्र श्लोक:–
एतदिन्द्रियविज्ञानं य: पश्यति यथातथम् ।
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति ॥२७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं नाम
चतुर्थोऽध्याय: ॥४॥
Last updated on June 11th, 2021 at 08:51 am