विषय सूची पर जायें

37. कीटलूतादिविषप्रतिषेध - उत्तर - अ.हृ"

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

कीटलूतादिविषप्रतिषेधं सप्तत्रिंशोऽध्यायः।

अथातः कीटलूतादिविषप्रतिषेधं व्याख्यास्यामः।

इति स्माहुरात्रेयादयो महर्षयः।

सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः।

दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः॥१॥

दष्टस्य कीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः।

आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान्‌॥२॥

पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथवा।

कफाधिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः॥३॥

स्रावाढ्यः सर्वलिङ्गस्तु विवर्ज्यः सान्निपातिकैः।

वेगाश्च सर्पवच्छोफो वर्धिष्णुर्विस्ररक्तता॥४॥

शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदना।

सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः॥५॥

वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्‌।

ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति॥६॥

दंशः सद्योऽतिरुक्‌ श्यावस्तुद्यते स्फुटतीव च।

ते गवादिशकृत्कोथाद्दिग्धदष्टादिकोथतः॥७॥

सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः।

मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुरमेचकाः॥८॥

रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः।

धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः॥९॥

पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः॥

अग्न्याभा व्धेकपर्वाणो रक्तासितसितोदराः।१०॥

तैर्दष्टः शूनरसनः स्तब्धगात्रो ज्वरार्दितः।

खैर्वमन्‌ शोणितं कृष्णमिन्द्रियार्थानसंविदन्‌॥११॥

स्विद्यन्‌ मूर्च्छन्‌ विशुष्कास्यो विह्वलो वेदनातुरः।

विशीर्यमाणमांसश्च प्रायशो विजहात्यसून्‌॥१२॥

उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः।

साध्यतो वृश्चिकात्‌ स्तम्भं शेफसो हृष्टरोमताम्‌॥१३॥

करोति सेकमङ्गानां दंशः शीताम्बुनेव च।

उष्ट्रधूमः स एवोक्तो रात्रिचाराच्च रात्रिकः॥१४॥

वातपित्तोत्तराः कीटाः, श्लैष्मिकाः कणभोन्दुराः।

प्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः॥१५॥

यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्‌।

तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्‌॥१६॥

हृत्पीडोर्ध्वानिलस्तम्भः शिरायामोऽस्थिपर्वरुक्‌।

घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥१७॥

संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता।

मांसावदरणं शोफो रक्तपीतश्च पैत्तिके॥१८॥

छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः।

सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्‌॥१९॥

पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके।

स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः॥२०॥

पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैः।

लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्‌॥२१॥

कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता।

स्वेदालेपनसेकांस्तु कोष्णान्‌ प्रायोऽवचारयेत्‌॥२२॥

अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोऽथवा।

नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम्‌॥२३॥

विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्‌।

विषघ्नं च विधिं सर्वं कुर्यात्संशोधनानि च॥२४॥

साधयेत्सर्पवद्दष्टान्‌ विषोग्रैः कीटवृश्चिकैः।

तन्दुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेत्‌॥२५॥

याति कीटविषैः कम्पं न कैलास इवानिलैः।

क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः॥२६॥

मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्‌।

वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली॥२७॥

पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्‌।

दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्‌॥२८॥

सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्‌।

विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा॥२९॥

लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः।

सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा॥३०॥

उपनाहो घृते भृष्टः कल्कोऽजाज्याः ससैन्धवः।

आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्‌॥३१॥

रजनीसैन्धवव्योषशिरीषफलपुष्पजैः।

मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्‌॥३२॥

लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा।

पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम्‌॥३३॥

पारावतशकृत्‌ पथ्या तगरं विश्वभेषजम्‌।

बीजपूररसोन्मिश्रः परमो वृश्चिकागदः॥३४॥

सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्‌।

हिङ्गुना हरितालेन मातुलुङ्गरसेन च॥३५॥

लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा।

करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च॥३६॥

शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्‌।

यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः॥३७॥

तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्‌।

सालाबुवृन्तं वार्ताकरसपिष्ट प्रलेपनम्‌॥३८॥

सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिषी।

विध्येत्सिरां विदद्याच्च वमनाञ्जननावनम्‌।

उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम्‌॥३९॥

नागरं गृहकपोतपुरीषं

बीजपूररसो हरितालम्‌।

सैन्धवं च विनिहन्त्यगदोऽयं

लेपतोऽलिकुलजं विषमाशु॥४०॥

अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे।

विषेणालेपयेद्दंशमुच्चिटिङ्गेऽप्ययं विधिः॥४१॥

नागपुरीषच्छत्रं रोहिषमूलं च शेलुतोयेन।

कुर्याद्गुटिकां लेपादियमलिविषनाशनी श्रेष्ठा॥४२॥

अर्कस्य दुग्धेन शिरीषबीजं

त्रिर्भावितं पिप्पलिचूर्णमिश्रम्‌।

एषोऽगदो हन्ति विषाणि कीट-

भुजङ्गलूतोन्दुरवृश्चिकानाम्‌॥४३॥

शिरीषपुष्पं सकरञ्जबीजं

काश्मीरजं कुष्ठमनःशिले च।

एषोऽगदो रात्रिकवृश्चिकानां

संक्रान्तिकारी कथितो जिनेन॥४४॥

कीटेभ्यो दारुणतरा लूताः षोडश ता जगुः।

अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः॥४५॥

सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः।

बहूपद्रवरूपा तु लूतैकैव विषात्मिका॥४६॥

रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात्‌।

नास्ति स्थानव्यवस्था च दोषतोऽतः प्रचक्षते॥४७॥

कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा।

तद्दंशः पैत्तिको दाहतृट्‌स्फोटज्वरमोहवान्‌॥४८॥

भृशोष्मा रक्तपीताभः क्लेदी द्राक्षाफलोपमः।

श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः॥४९॥

निद्रां शीतज्वरं कासं कण्डूं च कुरुते भृशम्‌।

वातिकः परुषः श्यावः पर्वभेदज्वरप्रदः॥५०॥

तद्विभागं यतास्वं च दोषलिङ्गैर्विभावयेत्‌।

असाध्यायां तु हृन्मोहश्वासहिध्माशिरोग्रहाः॥५१॥

श्वेतपीतासितारक्ताः पिटिकाः श्वयथूद्भवः।

वेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता॥५२॥

श्यावौष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्‌।

पक्वजम्बूसवर्णं च दंशात्स्रवति शोणितम्‌॥५३॥

सर्वाऽपि सर्वजा प्रायो व्यपदेशस्तु भूयसा।

तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिता॥५४॥

सप्ताहेन दशाहेन पक्षेण च परं क्रमात्‌।

लूतादंशश्च सर्वोऽपि दद्रुमण्डलसन्निभः॥५५॥

सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः।

मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः॥५६॥

विसर्पवांश्छोफयुतस्तप्यते बहुवेदनः।

ज्वराशुपाकविक्लेदकोथावदरणान्वितः॥५७॥

क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्‌।

श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः॥५८॥

अष्टाभिरुद्वमत्येषा विषं वक्त्राद्विशेषतः।

लूता नाभेर्दशत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः॥५९॥

तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्‌।

दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः॥६०॥

सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि।

अव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः॥६१॥

द्वितीयेऽभ्युन्नतोऽन्तेषु पिटिकैरिव वाऽऽचितः।

व्यक्तवर्णो नतो मध्ये कण्डूमान्‌ ग्रन्थिसन्निभः॥६२॥

तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः।

शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः॥६३॥

महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः।

विकारान्‌ कुरुते तांस्तान्‌ पञ्चमे विषकोपजान्‌॥६४॥

षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम्‌।

इति तीक्ष्णं विषं, मध्यं हीनं च विभजेदतः॥६५॥

एकविंशतिरात्रेण विषं शाम्यति सर्वथा।

अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत्‌॥६६॥

दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत्‌।

कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसंश्रितम्‌॥६७॥

प्रसृतं सर्वतो दंशं न छिन्दीत दहेन्न च।

लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः॥।६८॥

सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः।

सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयाऽपि वा॥६९॥

सेकलेपास्ततः शीता बोधिश्लेष्मातकाक्षकैः।

फलिनीद्विनिशाक्षौद्रसर्पिभिः पद्मकाह्वयः॥७०॥

अशेषलूताकीटानामगदः सार्वकार्मिकः।

हरिद्राद्वयपत्तङ्गमञ्जिष्ठानतकेसरैः॥७१॥

सक्षौद्रसर्पिः पूर्वस्मादधिकश्चम्पकाह्वयः।

तद्वोमयनिष्पीडशर्कराघृतमाक्षिकैः॥७२॥

अपामार्गमनोह्वालदार्वीध्यामकगैरिकैः।

नतैलाकुष्ठमरिचयष्ट्याह्वघृतमाक्षिकैः॥७३॥

अगदो मन्दरो नाम तथाऽन्यो गन्धमादनः।

नतरोध्रवचाकट्वीपाठैलापत्रकुङ्कुमैः॥७४॥

विषघ्नं बहुदोषेषु प्रयुञ्जीत विशोधनम्‌।

यष्ट्याह्वामदनाङ्कोल्लजालिनीसिन्दुवारिकाः॥७५॥

कफे ज्येष्ठाम्बुना पीत्वा विषमाशु समुद्वमेत्‌।

शिरीषपत्रत्वङ्‌मूलफलं वाऽङ्कोल्लमूलवत्‌॥७६॥

विरेचयेच्च त्रिफलानीलिनीत्रिवृतादिभिः।

निवृत्ते दाहशोफादौकर्णिकां पातयेद्‌ व्रणात्‌॥७७॥

कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्‌।

त्रिवृता सैन्धवं दन्ती कर्णिकापातनं, तथा॥७८॥

मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम्‌।

तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम्‌॥७९॥

राजकोशातकीमूलं, किण्वो वा मथितोद्भवः।

कर्णिकापातसमये बृंहयेच्च विषापहैः॥८०॥

स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्‌।

विषस्य वृद्धये तैलमग्नेरिव तृणोलुपम्‌॥८१॥

ह्रीबेरवैकङ्कतगोपकन्या-

मुस्ताशमीचन्दनटिण्टुकानि।

शैवालनीलोत्पलवक्त्रयष्टी-

त्वङ्‌नाकुलीपद्मकराठमध्यम्‌॥८२॥

रजनीघ्नासर्पलोचना-

कणशुण्ठीकणमूलचित्रकाः।

वरुणागुरुबिल्वपाटली-

पिचुमन्दामयशेलुकेसरम्‌॥८३॥

बिल्वचन्दननतोत्पलशुण्ठी-

पिप्पलीनिचुलवेतसकुष्ठम्‌।

शुक्तिशाकवरपाटलिभार्गी-

सिन्दुवारकरघाटवराङ्गम्‌॥८४॥

पित्तकफानिललूताः पानाञ्जननस्यलेपसेकेन।

अगदवरा वृत्तस्थाः कुगतीरिव वारयन्त्येते॥८५॥

रोध्रं सेव्यं पद्मकं पद्मरेणुः

कालीयाख्यं चन्दनं यच्च रक्तम्‌।

कान्तापुष्पं दुग्धिनीका मृणालं

लूताः सर्वा घ्नन्ति सर्वक्रियाभिः॥८६॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कीटलूतादिविषप्रतिषेधो

नाम सप्तत्रिंशोऽध्यायः॥३७॥

Last updated on July 6th, 2021 at 11:58 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi