विषय सूची पर जायें

04. प्रभाषणीय - सूत्र - सु.

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

चतुर्थोऽध्याय: ।

 अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ||३||

भवति चात्र-

यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य |

एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ||४||

तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च; कस्मात्? सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसम्भवद्रव्यसमूहविभागास्तथा प्रनष्टशल्योद्धरणव्रणविनिश्चयभग्नविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः, तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ||५||

अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्विद्येभ्य एव

व्याख्यानमनुश्रोतव्यं, कस्मात्? न ह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ||६||

भवन्ति चात्र-

एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् |

तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ||७||

शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् |

यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ||८||

औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् |

शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ||९||

इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः ||४||

Last updated on May 24th, 2021 at 05:55 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi