विषय सूची पर जायें

49. छर्दिप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

एकोनपञ्चाशत्तमोऽध्यायः ।

अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति |
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ||३||

श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः |
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ||४||

अत्यन्तामपरीतस्य छर्देर्वै सम्भवो ध्रुवम् |
(बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात्) ||५||

छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः |
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ||६||

दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः |
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ||७||

प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम् |
पूर्वरूपं मतं छर्द्यायथास्वं च विभावयेत् ||८||

प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः |
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ||९||

योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा |
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा ||१०||

यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम् |
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ||११||

सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु |
बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि |
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ ||१२||

शूलहृल्लासबहुला कृमिजा च विशेषतः |
कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ||१३||

क्षीणस्योपद्रवैर्युक्तां सासृक्पूयां सचन्द्रिकाम् |
छर्दि प्रसक्तां कुशलो नारभेत चिकित्सितुम् ||१४||

आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु ||१५||

वमीषु बहुदोषासु छर्दनं हितमुच्यते |
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् ||१६||

संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः |
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् ||१७||

यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत् |
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसम्भवाम् ||१८||

ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम् |
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः |
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् ||१९||

पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् |
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् ||२०||

पित्तोपशमनीयानि पाक्यानि शिशिराणि च |
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् ||२१||

शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः |
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च ||२२||

आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा |
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः ||२३||

कृतं गुडूच्या विधिवत् कषायं हिमसञ्ज्ञितम् |
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् ||२४||

बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः |
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् ||२५||

कृमिहृद्रोगवच्चापि कृमिजां साधयेद्वमीम् |
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् ||२६||

दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम् |
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रवि(ति)मुच्यते ||२७||

समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना |
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् ||२८||

स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम् |
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः ||२९||

युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः |
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा ||३०||

सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् |
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ||३१||

सर्पिःक्षौद्रयुतान् वाऽपि लाजशक्तून् पिबेत्तथा |
सर्पिःक्षौद्रसितोपेतां मागधीं वा लिहेत्तथा ||३२||

धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना |
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ||३३||

सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः |
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ||३४||

जाङ्गलानि च मांसानि शुभानि पानकानि च |
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः ||३५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (एकादशोऽध्यायः, आदितः) एकोनपञ्चाशत्तमोऽध्यायः ||४९||

Last updated on July 8th, 2021 at 12:10 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi