विषय सूची पर जायें

01. ज्वर चिकित्सा - चिकित्सा - अ.हृ"

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

ज्वरचिकित्सितं प्रथमोऽध्यायः।

अथातो ज्वरचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

आमाशयस्थो हत्वाऽग्निं सामो मार्गान्‌ पिधाय यत्‌।

विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम्‌॥१॥

प्राग्रूपेषु ज्वरादौ वा, बलं यत्नेन पालयन्‌।

बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः॥२॥

लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति।

स्वास्थ्यं क्षुत्तृड्‌ रुचिः पक्तिर्बलमोजश्च जायते॥३॥

तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले।

सहृल्लासप्रसेकान्नद्वेषकासविषूचिके॥४॥

सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः।

वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा॥५॥

श्वासातीसारसम्मोहहृद्रोगविषमज्वरान्‌।

पिप्पलीभिर्युतान्‌ गालान्‌ कलिङ्गैर्मधुकेन वा॥६॥

उष्णाम्भसा समधुना पिबेत्सलवणेन वा।

पटोलनिम्बकर्कोटवेत्रपत्रोदकेन वा॥७॥

 तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि वा।

वमनानि प्रयुञ्जीत बलकालविभागवित्‌॥८॥

कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्‌।

दोषाणां समुदीर्णानां पाचनाय शमाय च॥९॥

दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते।

तस्मादादोषपचनाज्ज्वरितानुपवासयेत्‌॥१०॥

तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे।

तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्‌॥११॥

उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्‌।

लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्‌॥१२॥

निद्राजाड्यारुचिहरं प्राणानामवलम्बनम्‌।

विपरीतमतः शीतं दोषसङ्घातवर्द्धनम्‌॥१३॥

उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले।

उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि॥१४॥

विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि।

घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्‌॥१५॥

शीतं तेभ्यो हितं तोयं पाचनं तृड्‌ज्वरापहम्‌।

उष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना॥१६॥

तस्मात्पित्तविरुद्धानि त्यजेत्‌ पित्ताधिकेऽधिकम्‌।

स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्‌॥१७॥

अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे।

न पिबेदौषधं तद्धि भूय एवाममावहेत्‌॥१८॥

आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव।

सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि॥१९॥

वातश्लेष्मात्मके स्वेदः प्रशस्तः, स प्रवर्तयेत्‌।

स्वेदमूत्रशकृद्वातान्‌ कुर्यादग्नेश्च पाटवम्‌॥२०॥

स्नेहोक्तमाचारविधिं सर्वशश्चानुपालयेत्‌।

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः॥२१॥

मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा।

शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम्‌॥२२॥

नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्‌।

तत्र सामज्वराकृत्या जानीयादविशोषितम्‌॥२३॥

द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने।

युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत्‌॥२४॥

यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः।

षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्‌॥२५॥

तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः।

प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्‌॥२६॥

ससैन्धवां, तथाऽम्लार्थी तां पिबेत्सहदाडिमाम्‌।

सृष्टविड्‌ बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्‌॥२७॥

बस्तिपार्श्वशिरः शूली व्याघ्रीगोक्षुरसाधिताम्‌।

पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः॥२८॥

सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्‌।

ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान्‌॥२९॥

पञ्चमूलेन महता कफार्तो यवसाधिताम्‌।

विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम्‌॥३०॥

यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्‌।

चविकापिप्पलीमूलद्राक्षामलकनागरैः॥३१॥

कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि।

कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्‌॥३२॥

अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः।

सिताबदरमृद्वीकासारिवामुस्तचन्दनैः॥३३॥

तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्‌।

कुर्यात्पेयौषधैरेव रसयूषादिकानपि॥३४॥

मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे।

ग्रीष्मे तयोर्वाऽधिकयोस्तृट्‌छर्दिर्दाहपीडिते॥३५॥

ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु।

ज्वरापहैः फलरसैरद्भिर्वा लाजतर्पणान्‌॥३६॥

पिबेत्सशर्कराक्षौद्रान्‌ ततो जीर्णे तु तर्पणे।

यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्‌॥३७॥

दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः।

इत्ययं षडहो नेयो बलं दोषं च रक्षता॥३८॥

ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते।

कषायो दोषशेषस्य पाचनः शमनोऽथवा॥३९॥

तिक्तः पित्ते विशेषेण प्रयोज्यः, कटुकः कफे।

पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते॥४०॥

नवज्वरे, मलस्तम्भात्कषायो विषमज्वरम्‌।

कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि॥४१॥

सप्ताहादौषधं केचिदाहुरन्ये दशाहतः।

केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु॥४२॥

तीव्रज्वरपरीतस्य दोषवेगोदये यतः।

दोषेऽथवाऽतिनिचिते तन्द्रास्तैमित्यकारिणि॥४३॥

अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्‌।

मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा॥४४॥

अचिरज्वरितस्यापि भेषजं योजयेत्तदा।

मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयाऽपि वा॥४५॥

पाक्यं शीतकषायं वा पाठोशीरं सवालकम्‌।

पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम्‌॥४६॥

यथायोगमिमे योज्याः कषाया दोषपाचनाः।

ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः॥४७॥

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी॥४८॥

पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी।

पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः॥४९॥

किराततिक्तममृता चन्दनं विश्वभेषजम्‌।

धात्रीमुस्तामृताक्षौद्रमर्धश्लोकसमापनाः॥५०॥

पञ्चैते सन्ततादीनां पञ्चानां शमना मताः।

दुरालभामृतामुस्तानागरं वातजे ज्वरे॥५१॥

अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्‌।

कनीयः पञ्चमूलं च पित्ते शक्रयवाघनम्‌॥५२॥

कटुका चेति सक्षौद्रं मुस्तापर्पटकं तथा।

सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे॥५३॥

अथवा वृषगाङ्गेयीशृङ्गबेरदुरालभाः।

रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्‌॥५४॥

अभयापिप्पलीमूलशम्याककटुकाघनम्‌।

द्राक्षामधूकमधुकरोध्रकाश्मर्यसारिवाः॥५५॥

मुस्तामलकह्रीबेरपद्मकेसरपद्मकम्‌।

मृणालचन्दनोशीरनीलोत्पलपरूषकम्‌॥५६॥

फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः।

युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्‌॥५७॥

ज्वरं मदात्ययं छर्दिं मूर्च्छां दाहं श्रमं भ्रमम्‌।

ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि॥५८॥

पाचयेत्कटुकां पिष्ट्वा कर्परेऽभिनवे शुचौ।

निष्पीडितो घृतयुतस्तद्रसो ज्वरदाहजित्‌॥५९॥

कफवाते वचातिक्तापाठारग्वधवत्सकाः।

पिप्पलीचूर्णयुक्तो वा क्वाथछिन्नोद्भवोद्भवः॥६०॥

व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः।

वातश्लेष्मज्वरश्वासकासपीनसशूलजीत्‌॥६१॥

पथ्याकुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम्‌।

सकट्‌फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्‌॥६२॥

कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः।

कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति॥६३॥

आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्‌।

तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः॥६४॥

पटोलातिविषानिम्बमूर्वाधन्वयवासकाः।

सन्निपातज्वरे व्याघ्रीदेवदारुनिशाघनम्‌॥६५॥

पटोलपत्रनिम्बत्वक्त्रिफलाकटुकायुतम्‌।

नागरं पौष्करं मूलं गुडूची कण्टकारिका॥६६॥

सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे।

मधूकपुष्पमृद्वीकात्रायमाणापरूषकम्‌॥६७॥

सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्‌।

कषायं तं पिबन्‌ काले ज्वरान्‌ सर्वानपोहति॥६८॥

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्‌।

बद्धविट्‌ कटुकाद्राक्षात्रायन्तीत्रिफलागुडम्‌॥६९॥

जीर्णौषधोऽन्नं पेयाद्यमाचरेत्‌ श्लेष्मवान्न तु।

पेया कफं वर्धयति प्रुं पांसुषु वृष्टिवत्‌॥७०॥

श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्‌।

यूषान्‌ कुलत्थचणककलायादिकृतान्‌ लघून्‌॥७१॥

रूक्षांस्तिक्तरसोपेतान्‌ हृद्यान्‌ रुचिकरान्‌ पटून्‌।

रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः॥७२॥

श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः।

ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्‌॥७३॥

दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः।

मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः॥७४॥

कारवेल्लककर्कोटबालमूलकपर्पटैः।

वार्ताकनिम्बकुसुमपटोलफलपल्लवैः॥७५॥

अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः।

व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः॥७६॥

संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः।

सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥७७॥

अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च।

अच्छान्यनलसम्पन्नानि अनुपानेऽपि योजयेत्‌॥७८॥

तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः।

सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु॥७९॥

श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा।

यथोचितेऽथवा काले देशसात्म्यानुरोधतः॥८०॥

प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते।

कषायपानपथ्यान्नैर्दशाह इति लङ्घिते॥८१॥

सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे।

पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा॥८२॥

दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्‌।

लङ्घनादिक्रमं तत्र कुर्यादाकफसङ्‌क्षयात्‌॥८३॥

देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते।

रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च॥८४॥

वमनस्वेदकालाम्बुकषायलघुभोजनैः।

यः स्यादतिबलो धातुः सहचारी सदागतिः॥८५॥

तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः।

वातपित्तजितामग्र्यं संस्कारं चानुरुध्यते॥८६॥

सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्‌।

विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः॥८७॥

स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्‌।

पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्‌॥८८॥

त्रिफलापिचुमन्दत्वङ्‌मधुकं बृहतीद्वयम्‌।

समसूरदलं क्वाथः सघृतो ज्वरकासहा॥८९॥

पिप्पलीन्द्रयवधावनितिक्ता-

सारिवामलकतामलकीभिः।

बिल्वमुस्तहिमपालनिसेव्यै-

र्द्राक्षयाऽतिविषया स्थिरया च॥९०॥

घृतमाशु निहन्ति साधितं

ज्वरमग्निं विषमं हलीमकम्‌।

अरुचिं भृशतापमंसयो-

र्वमथुं पार्श्वशिरोरुजं क्षयम्‌॥९१॥

तैल्वकं पवनजन्मनि ज्वरे

योजयेत्‌ त्रिवृतया वियोजितम्‌।

तिक्तकं वृषघृतं च पैत्तिके

यच्च पालनिकया श्रुतं हविः॥९२॥

विडङ्गसौवर्चलचव्यपाठा-

व्योषाग्निसिन्धूद्भवयावशूकैः।

पलांशकैः क्षीरसमं घृतस्य

प्रस्थं पचेज्जीर्णकफज्वरघ्नम् ॥९३॥

गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च।

मृद्वीकाया बलायाश्च स्नेहाः सिद्धा ज्वरच्छिदः॥९४॥

 जीर्णे घृते च भुञ्जीत मृदुमांसरसौदनम्‌।

बलं ह्यलं दोषहरं परं तच्च बलप्रदम्‌॥९५॥

कफपित्तहरा मुद्गकारवेल्लादिजा रसाः।

प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे॥९६॥

शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः।

न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्‌॥९७॥

शोधनार्हस्य, वमनं प्रागुक्तं तस्य योजयेत्‌।

आमाशयगते दोषे बलिनः पालयन्बलम्‌॥९८॥

पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे।

मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः॥९९॥

ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्‌।

(लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा।)

द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्‌॥१००॥

आरग्वधं वा पयसा मृद्वीकानां रसेन वा।

त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्‌॥१०१॥

विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्‌।

च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा॥१०२॥

पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः।

अतिप्रवर्तमानं वा पाचयन्‌ सङ्‌ग्रहं नयेत्‌॥१०३॥

आमसङ्‌ग्रहणे दोषा दोषोपक्रम ईरिताः।

पाययेद्दोषहरणं मोहादामज्वरे तु यः॥१०४॥

प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्‌।

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्‌॥१०५॥

कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्‌।

क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृड्‌वतः॥१०६॥

क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः।

तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना ॥१०७॥

दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति।

संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा॥१०८॥

विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा।

पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्‌॥१०९॥

शृतशीतं मधुयुतं तृड्‌दाहज्वरनाशनम्‌।

तद्वद्‌ द्राक्षाबलायष्टीसारिवाकणचन्दनैः॥११०॥

चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्‌।

कासाच्छ्‌वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्‌॥१११॥

मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः।

शृतमेरण्डमूलेन बालबिल्वेन वा ज्वरात्‌॥११२॥

धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः।

सरक्तपिच्छातिसृतेः सतृट्‌शूलप्रवाहिकात्‌॥११३॥

सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः।

शोफमूत्रशकृद्वातविबन्धज्वरकासजित्‌॥११४॥

वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्‌।

शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्‌॥११५॥

निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्‌।

दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते॥११६॥

पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्‌।

स्रंसनं त्रीनपि मलान्‌ बस्तिः पक्वाशयाश्रयान्‌॥११७॥

प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटिग्रहे।

दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्‌॥११८॥

पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः।

स्थिराबलागोक्षुरकमदनोशीरवालकैः॥११९॥

पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्‌।

कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः॥१२०॥

बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम्‌।

चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्‌॥१२१॥

क्वाथयेत्कल्कयेद्यष्टीशताह्वाफलिनीफलम्‌।

मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः॥१२२॥

जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम्‌।

ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम्‌॥१२३॥

पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्‌।

ज्वरेऽनुवासनं दद्याद्यथास्नेहं यथामलम्‌॥१२४॥

ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः।

शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्‌॥१२५॥

जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्‌।

स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्‌॥१२६॥

धूमगण्डूषकवलान्‌ यथादोषं च कल्पयेत्‌।

प्रतिश्यायास्यवैरस्यशिरःकण्ठामयापहान्‌॥१२७॥

अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्‌।

धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्‌॥१२८॥

यथोपशयसंस्पर्शान्‌ शीतोष्णद्रव्यकल्पितान्‌।

अभ्यङ्गालेपसेकादीन्‌ ज्वरे जीर्णे त्वगाश्रिते॥१२९॥

 कुर्यादञ्जनधूमांश्च तथैवागन्तुजेऽपि तान्‌।

दाहे सहस्रधौतेन सर्पिषाऽभ्यङ्गमाचरेत्‌॥१३०॥

सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः।

दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः॥१३१॥

शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्‌।

तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्‌॥१३२॥

शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्‌।

तत्क्वाथेन परीषेकमवगाहं च योजयेत्‌॥१३३॥

तथाऽऽरनालसलिलक्षीरशुक्तघृतादिभिः।

कपित्थमातुलुङ्गाम्लविदारीरोध्रदाडिमैः॥१३४॥

बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा।

लिप्तेऽङ्गे दाहरुङ्‌मोहाश्छर्दिस्तृष्णा च शाम्यति॥१३५॥

यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः।

तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः॥१३६॥

वीर्यौष्णैरुष्णसंस्पर्शैस्तगरागुरुकुङ्कुमैः।

कुष्ठस्थौणेयशैलेयसरलामरदारुभिः॥१३७॥

नखरास्नापुरवचाचण्डैलाद्वयचोरकैः।

पृथ्वीकाशिग्रुसुरसाहिंस्राध्यामकसर्षपैः॥१३८॥

दशमूलामृतैरण्डद्वयपत्तूररोहिषैः।

तमालपत्रभूतीकशल्लकीधान्यदीप्यकैः॥२३९॥

मिशिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः।

अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्‌॥१४०॥

क्वथितैः कल्कितैर्युक्तैः सुरासौवीरकादिभिः।

तेनाभ्यञ्ज्यात्सुखोष्णेन, तैः सुपिष्टैश्च लेपयेत्‌॥१४१॥

कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत्‌।

केवलैरपि तद्वच्च सुक्तगोमूत्रमस्तुभिः॥१४२॥

आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने।

धूपानगरुजान्‌ यांश्च वक्ष्यन्ते विषमज्वरे॥१४३॥

अग्नयनग्निकृतान्‌ स्वेदान्‌ स्वेदि भेषजभोजनम्‌।

गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्‌॥१४४॥

निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः।

मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान्‌॥१४५॥

संशीलयेद्वेपथुमान्‌ यच्चान्यदपि पित्तलम्‌।

दयिताः स्तनशालिन्याः पीना विभ्रमभूषणाः॥१४६॥

यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः।

वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः॥१४७॥

वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा।

कफस्थानानुपूर्व्या वा तुल्यकक्षाञ्जयेन्मलान्‌॥१४८॥

सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः।

शोफः सञ्जायते येन कश्चिदेव विमुच्यते॥१४९॥

रक्तावसेचनैः शीघ्रं सर्पिः पानैश्च तं जयेत्‌।

प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः॥१५०॥

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति।

शाखानुसारी तस्याशु मुञ्चेद्बाह्वोः क्रमाच्छिराम्‌॥१५१॥

अयमेव विधिः कार्यो विषमेऽपि यथायथम्‌।

ज्वरे विभज्य वातादीन्‌ यश्चानन्तरमुच्यते॥१५२॥

पटोलकटुकामुस्ताप्राणदामधुकैः कृताः।

त्रिचतुःपञ्चशः क्वाथा विषमज्वरनाशनाः॥१५३॥

योजयेत्‌ त्रिफलां पथ्यां गुडूचीं पिप्पलीं पृथक्‌।

तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा॥१५४॥

लङ्घनं बृंहणं वाऽऽदौ ज्वरागमनवासरे।

प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम्‌॥१५५॥

जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्‌पलम्‌।

कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम्‌॥१५६॥

त्रिफलाकोलतर्कारीक्वाथे दध्ना शृतं घृतम्‌।

तिल्वकत्वक्कृतावापं विषमज्वरजित्परम्‌॥१५७॥

सुरां तीक्ष्णं च यन्मद्यं शिखितित्तिरिदक्षजम्‌।

मांसं मेद्योष्णवीर्यं च सहान्नेन प्रकामतः॥१५८॥

सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्‌।

सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत्पुनः॥१५९॥

नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्‌।

पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः॥१६०॥

मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्‌।

योज्यं हिङ्गुसमा व्याघ्रीवसा नस्यं ससैन्धवम्‌॥१६१॥

पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा।

पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी॥१६२॥

सर्षपाः सयवाः सर्पिर्धूपो वड्‌वा बिडालजा।

पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः॥१६३॥

धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः।

धूपनस्याञ्जनोत्‌ त्रासा ये चोक्ताश्चित्तवैकृते॥१६४॥

दैवाश्रयं च भैषज्यं ज्वरान्‌ सर्वान्‌ व्यपोहति।

विशेषाद्विषमान्‌ प्रायस्ते ह्यागन्त्वनुबन्धजाः॥१६५॥

यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे।

केवलानिलवीसर्पविस्फोटाभिहतज्वरे॥१६६॥

सर्पिःपानहिमालेपसेकमांसरसाशनम्‌।

कुर्याद्यथास्वमुक्तं च रक्तमोक्षादि साधनम्‌॥१६७॥

ग्रहोत्थे भूतविद्योक्तं बलिमन्त्रादि साधनम्‌।

ओषधीगन्धजे पित्तशमनं विषजिद्विषे॥१६८॥

इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च।

हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्‌॥१६९॥

क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः।

भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ॥१७०॥

शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः।

ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः॥१७१॥

तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्‌।

न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः॥१७२॥

ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्‌।

करुणार्द्रं मनः शुद्धं सर्वज्वरविनाशनम्‌॥१७३॥

त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्‌।

गुर्वसात्म्यविदाह्यन्नं यच्चान्यज्ज्वरकारणम्‌॥१७४॥

न विज्वरोऽपि सहसा सर्वान्नीनो भवेत्तथा।

निवृत्तोऽपि ज्वरः शीघ्रं व्यापादयति दुर्बलम्‌॥१७५॥

सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः।

तस्यां तस्यामवस्थायां तत्तत्कुर्याद्भिषग्जितम्‌॥१७६॥

ओषधयो मणयश्च सुमन्त्राः

साधुगुरुद्विजदैवतपूजाः।

प्रीतिकरा मनसो विषयाश्च

घ्नन्त्यपि विष्णुकृतं ज्वरमुग्रम्‌॥१७७॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने ज्वरचिकित्सितं

नाम प्रथमोऽध्यायः॥१॥

Last updated on August 18th, 2021 at 05:39 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi