सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
एकोनचत्वारिंशत्तमोऽध्यायः।
अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः |
निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ||३||
सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति |
अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ||४||
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते |
काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ||५||
हृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः |
त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम् ||६||
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे |
प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ||७||
द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते |
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ||८||
दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम् |
अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ||९||
अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम् |
ततस्तु कृतसञ्ज्ञेन हृद्येनेन्द्रियबोधिना ||१०||
त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु |
ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ||११||
लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः |
हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः ||१२||
एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम् |
कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् ||१३||
पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः |
वेदनालाभनियमशोकवैचित्त्यहेतुभिः ||१४||
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् |
आढकार्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने ||१५||
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः |
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन ||१६||
बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा |
तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् ||१७||
द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा |
केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु ||१८||
संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् |
प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः ||१९||
स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम् |
स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः ||२०||
केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् |
स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् ||२१||
कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् |
स ना परिहरेन्मासं यावद्वा बलवान् भवेत् ||२२||
त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः |
तृतीये तु परीहारे यथायोगं समाचरेत् ||२३||
तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः |
स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये ||२४||
क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान् |
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति ||२५||
मैथुनोपगमाद्धोरान् व्याधीनाप्नोति दुर्मतिः |
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च ||२६||
गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ |
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते ||२७||
लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् |
प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् ||२८||
मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् |
तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति ||२९||
उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम् |
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ||३०||
हनुमोक्षमधीमन्थमर्दितं च सुदारुणम् |
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ||३१||
लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान् |
यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ||३२||
तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम् |
चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ||३३||
अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः |
सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ||३४||
शीतसम्भोगतोयानां सेवा मारुतवृद्धये |
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ||३५||
वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात् |
विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ||३६||
असात्म्यभोजनं हन्याद्बलवर्णमसंशयम् |
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः |
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||३७||
व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् |
प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ||३८||
विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरीः |
सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ||३९||
इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ||३९||
Last updated on July 8th, 2021 at 10:16 am