विषय सूची पर जायें

21. कर्णगतरोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

एकविंशतितमोऽध्याय: ।

अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

सामान्यं कर्णरोधेषु घृतपानं रसायनम् |
अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ||३||

कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि |
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ||४||

स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम् |
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ||५||

बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः |
बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ||६||

आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः |
कफवातसमुत्थानं कर्णशूलं निरस्यति ||७||

मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा |
पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ||८||

अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् |
तदङ्गारैः सुसम्पूर्णं निदध्याच्छ्रवणोपरि ||९||

यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात् |
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ||१०||

क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम् |
भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम् ||११||

निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः |
मूर्धबस्तिषु नस्ये च मस्तिष्के परिषेचने ||१२||

शतपाकं बलातैलं प्रशस्तं चापि भोजने |
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ||१३||

विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम् |
तण्डुलीयकमूलानि फलमङ्कोलजं तथा ||१४||

अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च |
लशुनं शृङ्गवेरं च तथा वंशावलेखनम् ||१५||

कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम् |
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् ||१६||

लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च |
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ||१७||

शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च |
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ||१८||

वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक् |
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः ||१९||

महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् |
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ||२०||

यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि |
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् ||२१||

कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले |
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् ||२२||

अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् |
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ||२३||

पुटपाकक्रमास्विन्नान् पीडयेदारसागमात् |
सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ||२४||

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः |
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ||२५||

कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः |
समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् ||२६||

अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु |
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये ||२७||

मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् |
पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः ||२८||

एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते |
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः ||२९||

क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा |
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ||३०||

इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ |
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ||३१||

सुरसादौ कृतं तैलं पञ्चमूले महत्यपि |
मातुलुङ्गरसः शुक्तं लशुनार्द्रकयो रसः ||३२||

एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम् |
तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ||३३||

कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते |
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ||३४||

सामान्यतो, विशेषेण बाधिर्ये पूरणं शृणु |
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ||३५||

सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम् |
सितामधुकबिम्बीभिः सिद्धं वाऽऽजे पयस्यपि ||३६||

बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम् |
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ||३७||

बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम् |
वक्ष्यते यःप्रतिश्याये विधिः सोऽप्यत्र पूजितः ||३८||

वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् |
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ||३९||

समानं कर्म कुर्वीत योगान् वैशेषिकानपि |
शिरोविरेचनं चैव धूपनं पूरणं तथा ||४०||

प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत् |
राजवृक्षादितोयेन सुरसादिगणेन वा ||४१||

कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम् |
क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ||४२||

कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह |
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ||४३||

योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते |
लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ||४४||

सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम् |
कुलीरक्षौद्रमण्डूकीसिद्धं तैलं च पूजितम् ||४५||

तिन्दुकान्यभया रोध्रं समङ्गाऽऽमलकं मधु |
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ||४६||

रसमाम्रकपित्थानां मधूकधवशालजम् |
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ||४७||

प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः |
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ||४८||

पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् |
घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ||४९||

तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके |
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ||५०||

पूरणः पूतिकर्णस्य शमनो मधुसंयुतः |
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ||५१||

वार्ताकुधूमश्च हितः सार्षपस्नेह एव च |
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ||५२||

गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते |
छर्दनं धूमपानं च कवलस्य च धारणम् ||५३||

कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम् |
विद्रधौ चापि कुर्वीत विद्रध्युक्तं चिकित्सितम् ||५४||

प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च |
शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ||५५||

नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम् |
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ||५६||

अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् |
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ||५७||

कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत् |
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ||५८||

शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया |
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ||५९||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशोऽध्यायः ||२१||

Last updated on July 8th, 2021 at 11:47 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi