चरकसंहिता
कल्पस्थानम् ।
प्रथमोऽध्याय: ।
अथातो मदनकल्पं व्याख्यास्याम:॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमै: सहान्यैर्द्रव्यैर्विविधै: कल्पनार्थं-भेदार्थं विभागार्थं चेत्यर्थ:, तद्योगानां च क्रियाविधे: सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश !॥३॥
तत्र दोषहरणमूर्ध्वभागं वमनसंज्ञकम्, अधोभागं विरेचनसंज्ञकम्, उभयं वा शरीरमलविरेचनाद्विरेचनसंज्ञां लभते ॥४॥
तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्य: केवलं शरीरगतं दोषसंघातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्न: परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते, सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याध: प्रवर्तते, उभयतश्चोभयगुणत्वात् । इति लक्षणोद्देश: ॥५॥
तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष- सप्तला-शङ्खिनी- दन्ती-द्रवन्तीनां च, नानाविधदेशकालसंभवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो- बलाग्नि-भक्ति- सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च, विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसंख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्याम: ॥६॥
तानि तु द्रव्याणि देश-काल-गुण-भाजन-संपद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति ॥७॥
त्रिविध: खलु देश:-जाङ्गल:, आनूप:, साधारणश्चेति । तत्र जाङ्गल:, पर्याकाशभूयिष्ठ:, तरुभिरपि च कदर- खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीव-नगहन:, अनेकशमी-ककुभ- शिंशपाप्राय:, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटप:, प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुल:, लावतित्तिरि- चकोरानुचरितभूमिभाग:, वातपित्तबहुल:, स्थिरकठिनमनुष्यप्रायो ज्ञेय:, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहन:, सरित्समुद्र पर्यन्तप्राय:, शिशिरपवनबहुल:, वञ्जुलवानीरोपशोभिततीराभि: सरिद्भिरुपगतभूमिभाग:, क्षितिधरनिकुञ्जोपशोभित: मन्दपवना- नुवीजितक्षितिरुहगहन:, अनेकवनराजीपुष्पितवनगहनभूमिभाग:, स्निग्धतरुप्रतानोपगूढ:, हंस-चक्रवाक-बलाका- नन्दीमुख- पुण्डरीक-कादम्ब-मद्गु-भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटप:,सुकुमारपुरुष:, पवनकफप्रायो ज्ञेय:, अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुत: स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुष: साधारणो ज्ञेय: ॥८॥
तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य- देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमधुरमृत्तिके वा मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते ॥९॥
तत्र यानि कालजातान्युपागतसंपूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस- स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि, तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पलमिति मङ्गलाचार: कल्याणवृत्त: शुचि: शुक्लवासा: संपूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवास: प्राङ्मुख उदङ्मुखो वा गृह्णीयात् ॥१०॥
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषु प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि- सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत् ॥११॥
तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल-फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक- मधु-मधुक-परूषक-फाणितक्षीरादिभि: पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च, इत्युद्देश: । तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्याम: ॥१२॥
वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात् । तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते । यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि, तानि प्रमृज्य, कुशपुटे बद्ध्वा, गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम् । अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत् । सुशुष्काणां फलपिप्पलीरुद्धरेत् । तासां घृतदधिमधुपललविमृदितानां पुन: शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं शिक्येष्वासज्य सम्यक् स्थापयेत् ॥१३॥
अथ च्छर्दनीयमातुरं व्द्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरसक्षीर-दधि-माष- तिल-शाकादिभि: समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गल- प्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पी-कषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत् –
`ॐब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानला: ।
ऋषय: सौषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥
रसायनमिवर्षीणां देवानाममृतं यथा ।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥’
इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुन: पुनरापित्तागमनात्, तेन साधु वमति, हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकै: पुन: पुन: प्रवर्तयेदापित्तदर्शनात् । इत्येष सर्वश्छर्दनयोगविधि: ॥१४॥
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात् । न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च ॥१५॥
फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रि:सप्तकृत्व: स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्म- प्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण ॥१६॥
फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु; तस्य वा पयस: शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उर:कण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण ॥१७॥
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं च मात्रया पाययेदिति समानं पूर्वेण ॥१८॥
फलपिप्पलीनां फलादिकषायेण त्रि:सप्तकृत्व: सुपरिभावितेन पुष्परज:प्रकाशेन चूर्णेन सरसि संजातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत् तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण ॥१९॥
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण ॥२०॥
फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रिया: फलादिकषायोपसर्जना: पेया इति समानं पूर्वेण ॥२१॥
फलपिप्पलीनामारग्वध-वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण नक्तमाल-पिचुमर्द-पटोल-सुषवी- गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण ॥२२॥
फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन, मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण ॥२३॥
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्य:, पूपकल्पेन वा पूपा:, इति समानं पूर्वेण ॥२४॥
एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानां पोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत् ॥२५॥
तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात्; तै: साधु वमतीति ॥२६॥
मदन: करहाटश्च राठ: पिण्डीतक: फलम् ।
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना ॥२७॥
तत्र श्लोका:–
नव योगा: कषायेषु, मात्रास्वष्टौ, पयोघृते ।
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट् ॥२८॥
विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च ।
शष्कुलीपूपयोश्चोक्ता योगा: षोडश षोडश ॥२९॥
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम् ।
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा ॥३०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्याय
Last updated on July 2nd, 2021 at 06:50 am