सप्तमोऽध्यायः ।
अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः ।
न रेतसो न वातस्य न च्छर्द्याः क्षवथोर्न च ॥३॥
नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः ।
न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च ॥४॥
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये ।
पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु ॥५॥
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा ।
विनामो वंक्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ॥६॥
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् ।
मूत्रे प्रतिहते कुर्यात् त्रिविधं बस्तिकर्म च ॥७॥
पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् ।
पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते ॥८॥
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च ।
हितं प्रतिहिते वर्चस्यन्नपानं प्रमाथि च ॥९॥
मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा ।
भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च ॥१०॥
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः ।
शालिः पयो निरुहश्च शस्तं मैथुनमेव च ॥११॥
सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः ।
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ॥१२॥
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च ।
पानानि बस्तयश्चैव शस्तं वातानुलोमनम् ॥१३॥
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः ।
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः ॥१४॥
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम् ।
रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते ॥१५॥
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ ।
इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ॥१६॥
तत्रोर्ध्वजत्रुकेऽभ्यङगः स्वेदो धूमः सनावनः ।
हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम् ॥१७॥
हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः ।
उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम् ॥१८॥
विनामाक्षेपसंकोचाः सुप्तिः कम्पः प्रवेपनम् ।
जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम् ॥१९॥
कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः ।
क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम् ॥२०॥
कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा ।
पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते ॥२१॥
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः ।
बाष्पनिग्रहणात्तत्र स्वप्नोः मद्यं प्रियाः कथाः ॥२२॥
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम् ।
निद्राविधारणात्तत्र स्वप्नः संवाहनानि च ॥२३॥
गुल्महृद्रोगसंमोहाः श्रमनिःश्वासधारणात् ।
जायन्ते तत्र विश्रामो वातघ्नयश्च क्रिया हिताः ॥२४॥
वेगनिग्रहजा रोगा य एते परिकीर्तिताः ।
इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत् ॥२५॥
इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह च ।
साहसानामशस्तानां मनोवाक्कायकर्मणाम् ॥२६॥
लोभशोकभयक्रोधमानवेगान् विधारयेत् ।
नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाँश्च बुद्धिमान् ॥२७॥
परुषस्यातिमात्रस्य सूचकस्यानृतस्य च ।
वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम् ॥२८॥
देहप्रवृत्तिर्या काचिद्विद्यते परपीडया ।
स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत् ॥२९॥
पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम् ।
धर्मार्थकामान् पुरुषः सुखी भुङ्कते चिनोति च ॥३०॥
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी ।
देहव्यायामसंख्याता मात्रया तां समाचरेत् ॥३१॥
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता ।
दोषक्षयोऽगिन्वृध्दिश्च व्यायामादुपजायते ॥३२॥
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः ।
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते ॥३३॥
(स्वेदागमः श्वासवृध्दिर्गात्राणां लाघवं तथा ।
हृदयाद्युपरोधश्च इति व्यायामलक्षणम् ॥१॥ )
व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान् ।
नोचितानपि सेवेत बुद्धिमानतिमात्रया ॥३४॥
एतानेवंविधाश्चान्यान् योऽतिमात्रं निषेवते ।
गजं सिंह इवाकर्षन् सहसा स विनश्यति ॥३५॥
(अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः।
क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः ॥१॥
बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः ।
ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये ॥२॥)
उचितादहिताद्धीमान् क्रमशो विरमेन्नरः ।
हितं क्रमेण सेवेत क्रमाश्चत्रोपदिश्यते ॥३६॥
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत् ।
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा ॥३७॥
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः ।
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ॥३८॥
समपित्तानिलकफाः केचिद्गर्भादि मानवाः ।
दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा ॥३९॥
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः ।
दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते ॥४०॥
विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः ।
समसर्वरसं सात्म्यं समधातोः प्रशस्यते ॥४१॥
द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च ।
मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः ॥४२॥
मलवृध्दिं गुरुतया लाघवान्मलसंक्षयम् ।
मलायनानां बुध्येत सङ्गोत्सर्गादतीव च ॥४३॥
तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत् ।
व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन् ॥४४॥
विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे ।
जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत् ॥४५॥
माधवप्रथमे मासि नभस्यप्रथमे पुनः ।
सहस्यप्रथमे चैव हारयेद्दोषसंचयम् ॥४६॥
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः ।
बस्तिकर्म ततः कुर्यान्नस्यकर्म च बुध्दिमान् ॥४७॥
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत् ।
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् ॥४८॥
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु ।
धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च ॥४९॥
विधिरेष विकाराणामनुत्पत्तौ निदर्शितः ।
निजानामितरेषां तु पृथगेवोपदेक्ष्यते ॥५०॥
ये भूतविषवाय्वगिन्संप्रहारादिसंभवाः ।
नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति ॥५१॥
ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये ।
मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः ॥५२॥
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः ।
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम् ॥५३॥
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः ।
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः ॥५४॥
आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम् ।
विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये ॥५५॥
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः ।
मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः ॥५६॥
परापवादरतयश्चपला रिपुसेविनः ।
निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः ॥५७॥
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः ।
वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः ॥५८॥
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः ।
सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ॥५९॥
आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च ।
परं प्रयत्नमातिष्ठेद् बुध्दिमान् हितसेवने ॥६०॥
न नक्तं दधि भुञजीत न चाप्यघृतशर्करम् ।
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ॥६१॥
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान् ।
प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः ॥६२॥
तत्र श्लोकाः –
वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम् ।
येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम् ॥६३॥
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः ।
यथाप्रकृति चाहारो मलायनगदौषधम् ॥६४॥
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत् ।
वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना ॥६५॥
विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः ।
नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः ॥६६॥
इत्यगिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः ॥७॥
Last updated on May 27th, 2021 at 11:51 am