विषय सूची पर जायें

04. सर्पदष्टविषविज्ञानीयकल्पः – कल्प – सु.”

सुश्रुतसंहिता ।

अथ कल्पस्थानम्‌ ।

चतुर्थोऽध्यायः।

अथातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम् |

पादयोरुपसङ्गृह्य सुश्रुतः परिपृच्छति ||३||

सर्पसङ्ख्यां विभागं च दष्टलक्षणमेव च |

ज्ञानं च विषवेगानां भगवन् ! वक्तुमर्हसि ||४||

तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः |

असङ्ख्या वासुकिश्रेष्ठा विख्यातास्तक्षकादयः ||५||

महीधराश्च नागेन्द्रा हुताग्निसमतेजसः |

ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च ||६||

ससागरगिरिद्वीपा यैरियं धार्यते मही |

क्रुद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ||७||

नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया |

ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् ||८||

तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः |

अशीतिस्त्वेव सर्पाणां भिद्यते पञ्चधा तु सा ||९||

दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च |

निर्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः ||१०||

दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः |

तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ||११||

द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश |

निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा ||१२||

वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः |

पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा ||१३||

ते दशन्ति महाक्रोधास्त्रिविधं भीमदर्शनाः |

सर्पितं रदितं चापि तृतीयमथ निर्विषम् |

सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः ||१४||

पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा |

निमग्नान्यल्परक्तानि यान्युद्वृत्य करोति हि ||१५||

चञ्चुमालकयुक्तानि वैकृत्यकरणानि च |

सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक् ||१६||

राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा |

विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषं च तत् ||१७||

अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः |

पदं पदानि वा विद्यादविषं तच्चिकित्सकः ||१८||

सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः |

कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् ||१९||

व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु |

तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् ||२०||

सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते |

विषघ्नौषधियुक्ते च देशे न क्रमते विषम् ||२१||

रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः |

ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ||२२||

मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः |

ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः ||२३||

स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वं च राजिभिः |

चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः ||२४||

मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः |

सुगन्धयः सुवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः ||२५||

क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः |

सूर्यचन्द्राकृतिच्छत्रलक्ष्म तेषां तथाऽम्बुजम् ||२६||

कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा |

धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः ||२७||

महिषद्वीपिवर्णाभास्तथैव परुषत्वचः |

भिन्नवर्णाश्च ये केचिच्छूद्रास्ते परिकीर्तिताः ||२८||

कोपयन्त्यनिलं जन्तोः फणिनः सर्व एव तु |

पित्तं मण्डलिनश्चापि कफं चानेकराजयः ||२९||

अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम् |

ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ||३०||

रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि |

शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ||३१||

दर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा |

राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ||३२||

नकुलाकुलिता बाला वारिविप्रहताः कृशाः |

वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ||३३||

तत्र, दर्वीकराः- कृष्णसर्पो, महाकृष्णः, कृष्णोदरः श्वेतकपोतो, महाकपोतो, बलाहको, महासर्पः, शङ्खकपालो, लोहिताक्षो, गवेधुकः, परिसर्पः, खण्डफणः, ककुदः, पद्मो, महापद्मो, दर्भपुष्पो, दधिमुखः, पुण्डरीको, भ्रूकुटीमुखो, विष्किरः, पुष्पाभिकीर्णो, गिरिसर्पः, ऋजुसर्पः, श्वेतोदरो, महाशिरा, अलगर्द, आशीविष इति;

मण्डलिनस्तु- आदर्शमण्डलः, श्वेतमण्डलो, रक्तमण्डलः, चित्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको, गोनसो, वृद्धगोनसः, पनसो, महापनसो, वेणुपत्रकः, शिशुको मदनः, पालिन्दिरः, पिङ्गलः, तन्तुकः पुष्पपाण्डुः, षडङ्गो, अग्निको बभ्रुः, कषायः, कलुषः पारावतो, हस्ताभरणः, चित्रकः, एणीपद इति;

राजिमन्तस्तु- पुण्डरीको राजिचित्रो, अङ्गुलराजिः, बिन्दुराजिः, कर्दमकः, तृणशोषकः, सर्षपकः श्वेतहनुः, दर्भपुष्पश्चक्रको, गोधूमकः, किक्किसाद इति;

निर्विषास्तु- गलगोली, शूकपत्रो, अजगरो, दिव्यको, वर्षाहिकः, पुष्पशकली, ज्योतीरथः, क्षीरिकापुष्पको, अहिपताको, अन्धाहिको, गौराहिको, वृक्षेशय इति;

वैकरञ्जास्तु त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः, तद्यथा- माकुलिः, पोटगलः, स्निग्धराजिरिति |

तत्र, कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः; राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः; कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति |

तेषामाद्यस्य पितृवद्विषोत्कर्षो, द्वयोर्मातृवदित्येके |३४|

त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकपोटगलपुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः सप्त; तेषामाद्यास्त्रयो राजिलवत्, शेषा मण्डलिवत्, एवमेतेषां सर्पाणामशीतिर्व्याख्याता ||३४||

तत्र महानेत्रजिह्वास्यशिरसः पुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः, उभयलक्षणा मन्दविषा अक्रोधा नपुंसका इति ||३५||

तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः |

किं कारणं? विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि मुहर्तमप्युपेक्षितमातुरमतिपातयति, न चावकाशोऽस्ति वाक्समूहमुपसर्तुं प्रत्येकमपि दष्टलक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति, तस्मात् त्रैविध्यमेव वक्ष्यामः; एतद्ध्यातुरहितमसम्मोहकरं च, अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ||३६||

तत्र, दर्वीकरविषेण त्वङ्नयननखदशनवदनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति; मण्डलिविषेण त्वगादीनां पीतत्वं शीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति; राजिमद्विषेण शुक्लत्वं त्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणामादंशशोफः सान्द्रकफप्रसेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छ्वासनिरोधस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति ||३७||

पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षते, अधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे, नपुंसकाभिदष्टस्तिर्यक्प्रेक्षी भवति, गर्भिण्या पाण्डुमुखोध्मातश्च, सूतिकया कुक्षिशूलार्तः सरुधिरं मेहत्युपजिह्विका चास्य भवति, ग्रासार्थिनाऽन्नं काङ्क्षति, वृद्धेन चिरान्मन्दाश्च वेगाः, बालेनाशु मृदवश्च, निर्विषेणाविषलिङ्गं, अन्धाहिकेनान्धत्वमित्येके, ग्रसनात् अजगरः शरीरप्राणहरो न विषात् |

तत्र सद्यःप्राणहराहिदष्टः पतति शास्त्राशनिहत इव भूमौ, स्रस्ताङ्गः स्वपिति ||३८||

तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति |

तत्र, दर्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्णतामुपैति, तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति; तृतीये मेदो दूषयति, तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणं च; चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति; पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति, तेन पर्वभेदो हिक्का दाहश्च भवति; षष्ठे मज्जानमनुप्रविशति ग्रहणीं चात्यर्थं दूषयति, तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति; सप्तमे शुक्रमनुप्रविशति व्यानं चात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति, तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छ्वासनिरोधश्च भवति |

मण्डलिनां प्रथमे वेगे विषं शोणितं दूषयति, तत् प्रदुष्टं पीततामुपैति, तत्र परिदाहः पीतावभासता चाङ्गानां भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं पीतता परिदाहो दंशे श्वयथुश्च भवति; तृतीये मेदो दूषयति, तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशक्लेदः स्वेदश्च; चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति; पञ्चमे परिदाहं सर्वगात्रेषु करोति, षष्ठसप्तमयोः पूर्ववत् |

राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाण्डुतामुपैति, तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति; द्वितीये मांसं दूषयति, तेन पाण्डुताऽत्यर्थं जाड्यं शिरःशोफश्च भवति; तृतीये मेदो दूषयति, तेन चक्षुर्ग्रहणं दंशक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति; चतुर्थे कोष्ठमनुप्रविश्य मन्यास्तम्भं शिरोगौरवं चापादयति; पञ्चमे वाक्सङ्गं शीतज्वरं च करोति; षष्ठसप्तमयोः पूर्ववदिति ||३९||

भवन्ति चात्र-

धात्वन्तरेषु याः सप्त कलाः सम्परिकीर्तिताः |

तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ||४०||

येनान्तरेण तु कलां कालकल्पं भिनत्ति हि |

समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ||४१||

शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः |

लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ||४२||

तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते |

चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ||४३||

केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः |

ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ||४४||

द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति |

केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि |

मार्जारनकुलादीनां विषं नातिप्रवर्तते ||४५||

इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ||४||

Last updated on July 8th, 2021 at 10:52 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi