विषय सूची पर जायें

02. शुक्रशोणितशुद्धिशारीरम् - शारीर - सु.

सुश्रुतसंहिता ।

अथ शारीरस्थानम्‌ ।

द्वितीयोऽध्यायः ।

अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

वात-पित्त-श्लेष्म-कुणप -ग्रन्थि-पूतिपूय-क्षीण-मूत्रपुरीषरेतसः प्रजोत्पादने न समर्था भवन्ति ||३||

तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पित्तेन, श्लेष्मवर्णवेदनं श्लेष्मणा, कुणपगन्ध्यनल्पं च रक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां, पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां, मूत्रपुरीषगन्धि सन्निपातेनेति |

तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः, मूत्रपुरीषरेतसस्त्वसाध्या इति ||४||

आर्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति; तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् |

तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं, साध्यमन्यच्चेति ||५||

भवन्ति चात्र-

तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत् |

क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः ||६||

पाययेत नरं सर्पिर्भिषक् कुणपरेतसि |

धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ||७||

पाययेदथवा सर्पिः शालसारादिसाधितम् |

ग्रन्थिभूते शटीसिद्धं पालाशे वाऽपि भस्मनि ||८||

परूषकवटादिभ्यां पूयप्रख्ये च साधितम् |

प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि ||९||

विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः |

स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् ||१०||

योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना |           

स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ||११||

शुक्रमिच्छन्ति, केचित्तु तैलक्षौद्रनिभं तथा |

विधिमुत्तरबस्त्यन्तं कुर्यादार्तवशुद्धये ||१२||

स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु |

कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च ||१३||

ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च |

दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाऽऽर्तवे ||१४||

पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथमेव च |

शुक्रदोषहराणां च यथास्वमवचारणम् ||१५||

योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु |

अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् ||१६||

शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम् |

तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् ||१७||

तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि |

असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात् ||१८||

असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः |

तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा ||१९||                          

दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः |

तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक् ||२०||

रक्तपित्तविधानेन यथावत् समुपाचरेत् |

दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः ||२१||

तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः |

पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने ||२२||

क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् |

तथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् ||२३||

एवमदुष्टशुक्रः शुद्धार्तवा च ||२४||

ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् |

किं कारणं? दिवा स्वपन्त्याः स्वापशीलः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद्दुःखशीलः, तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाच्चञ्चलः, हसनाच्छ्यावदन्तौष्ठतालुजिह्वः, प्रलापी चातिकथनात्, अतिशब्दश्रवणाद्बधिरः, अवलेखनात् खलतिः, मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् |

दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हविष्यं, त्र्यहं च भर्तुः संरक्षेत् |

ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत् |

तत् कस्य हेतोः? ||२५||

पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना |

तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः ||२६||

ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् |

कर्मान्ते च क्रमं ह्येतमारभेत विचक्षणः ||२७||

ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामभिरभिविश्वास्य; विकल्प्यैवं चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः ||२८||

एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च |

प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै ||२९||

अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः; त्रयोदशीप्रभृतयो निन्द्याः ||३०||

तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति, यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते; द्वितीयेऽप्येवं सूतिकागृहे वा; तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति; चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति |

न च प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेतद्द्रष्टव्यम् |

तस्मान्नियमवतीं त्रिरात्रं परिहरेत् |

अतः परं मासादुपेयात् ||३१||

लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गसहदेवाविश्वदेवानामन्यतमां क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै, न च तान्निष्ठीवेत् ||३२||

ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकम् |

ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ||३३||

एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः |

भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ||३४||

तत्र तेजोधातुर्वर्णानां प्रभवः, स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम् |

‘यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भवति’इत्येके भाषन्ते |

तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति ||३५||

भवन्ति चात्र-

घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते |

विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ||३६||

बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ |

यमावित्यभिधीयेते धर्मेतरपुरःसरौ ||३७||

पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् |

स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ||३८||

यः पूतियोनौ जायेत स सौगन्धिकसञ्ज्ञितः |

स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ||३९||

स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते |

कुम्भीकः स तु विज्ञेयः ईर्ष्यकं शृणु चापरम् ||४०||

दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते |

ईर्ष्यकः स तु विज्ञेयः, षण्ढकं शृणु पञ्चमम् ||४१||

यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते |

ततः स्त्रीचेष्टिताकारो जायते षण्ढसञ्ज्ञितः ||४२||

ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि |

तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ||४३||

आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा |

सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसञ्ज्ञितः ||४४||

अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः |

हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ||४५||

आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ |

स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ||४६||

यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन |

मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते ||४७||

ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् |

आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ||४८||

मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् |

कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ||४९||

सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये |

गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृतो भृशम् ||५०||

गर्भो वातप्रकोपेण दौहृदे वाऽवमानिते |

भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिण एव वा ||५१||

मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः |

वातादीनां प्रकोपेण गर्भो वैकृतमाप्नुयात् ||५२||

मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च |

वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ||५३||

जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते |

वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ||५४||

निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति |

मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ||५५||

सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ |

तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः ||५६||

भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः |

भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ||५७||

कर्मणा चोदितो येन तदाप्नोति पुनर्भवे |

अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ||५८||

इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम द्वितीयोऽध्यायः ||२||

Last updated on June 8th, 2021 at 05:38 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi