सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
पञ्चाशत्तमोऽध्यायः ।
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः |
शीतपानासनस्थानरजोधूमानिलानलैः ||३||
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः |
आमादोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ||४||
विषमाशनाध्यनशनैस्तथा समशनैरपि |
हिक्का श्वासश्च कासश्च नृणां समुपजायते ||५||
मुहुर्मुहुर्वायरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन् |
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ||६||
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा |
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ||७||
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः |
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ||८||
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम् |
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ||९||
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् |
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते ||१०||
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् |
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ||११||
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता |
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ||१२||
शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी |
अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ||१३||
मर्माण्यापीडयन्तीव सततं या प्रवर्तते |
देहमायम्य वेगेन घोषयत्यतितृष्यतः |
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी ||१४||
आयम्यते हिक्काऽतोङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम् |
क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ ||१५||
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः सम्भ्रमश्चात्र शस्तः |
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः ||१६||
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः |
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा ||१७||
चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः |
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा ||१८||
सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम् |
क्षौद्रोपेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा ||१९||
तद्वच्छ्वाविन्मेषगोशल्य(ल्ल)कानां रोमाण्यन्तर्धूमदग्धानि चात्र |
मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा ||२०||
स्वर्जिक्षारं बीजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वाऽऽशु हिक्काम् |
सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः ||२१||
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा |
आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः ||२२||
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत् |
क्षौद्रं सितां वारणकेशरं च पिबेद्रसेनेक्षुमधूकजेन ||२३||
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम् |
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् ||२४||
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय ||२५||
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि |
कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् ||२६||
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी |
खर्जूरमध्यं मागध्यः काशीशं दधिनाम च ||२७||
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः |
मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता ||२८||
कपोतपारावतलावश(ल्ल)कश्वदंष्ट्रगोधावृषदंशजान् रसान् |
पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् ||२९||
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम् |
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ||३०||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम (द्वादशोऽध्यायः, आदितः) पञ्चाशत्तमोऽध्यायः ||५०||
Last updated on July 8th, 2021 at 12:11 pm