चरकसंहिता
कल्पस्थानम् ।
नवमोऽध्याय: ।
अथातस्तिल्वककल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटक: ।
तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम् ॥३॥
चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्तत: ।
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ॥४॥
भागं तं दशमूलस्य पुन: क्वाथेन भावयेत् ।
शुष्कं चूर्णं पुन: कृत्वा तत ऊर्ध्वं प्रयोजयेत् ॥५॥
दधितक्रसुरामण्डमूत्रैर्बदरसीधुना ।
रसेनामलकानां वा तत: पाणितलं पिबेत् ॥६॥
मेषशृङ्ग्यभयाकृष्णाचित्रकै: सलिले शृते ।
मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा ॥७॥
भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् सदा ।
सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत् ॥८॥
दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक् ।
समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम् ॥९॥
आवपेत्तत् परं पक्षान्मद्यपानां विरेचनम् ।
कम्पिल्लककषायेण दशकृत्व: सुभाविताम् ॥१०॥
मात्रां कम्पिल्लकस्यैव कषायेण पुन: पिबेत् ।
चतुरङ्गुलकल्पेन लेहोऽन्य: कार्य एव च ॥११॥
त्रिफलाया: कषायेण ससर्पिर्मधुफाणित: ।
लोध्रचूर्णयुत: सिद्धो लेह: श्रेष्ठो विरेचने ॥१२॥
तिल्वकस्य कषायेण कल्केन च सशर्कर: ।
सघृत: साधितो लेह: स च श्रेष्ठो विरेचने ॥१३॥
अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक् ।
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत् ॥१४॥
पिष्टैस्तैरेव बिल्वांशै: समूत्रलवणैरथ ।
ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम् ॥१५॥
लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम् ।
चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत् ॥१६॥
तत्र श्लोकौ–
पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण च ।
एकोऽरिष्टस्तथा योग: एक: कम्पिल्लकेन च ॥१७॥
लेहास्त्रयो घृतेनापि चत्वार: संप्रकीर्तिता: ।
योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिता: ॥१८॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने
तिल्वककल्पो
नाम नवमोऽध्याय: ॥९॥
Last updated on July 2nd, 2021 at 10:01 am