विषय सूची पर जायें

15. दोष धातु मल क्षय वृद्धि विज्ञानीय - सूत्र - सु.

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

पञ्चदशोऽध्याय: ।

       अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्याम: ॥१॥

       यथोवाच भगवान्‌ धन्वन्तरि: ॥२॥

       दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय ॥३॥

       तत्र, प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायु: पञ्चधा प्रविभक्त: शरीरं धारयति, (॥१॥)

       रागपक्त्योजस्तेजोमेधोष्मकृत्‌ पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति, (॥२॥)

       सन्धिसेंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ॥४॥

       रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति, रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च, मांसं शरीरपुष्टिं मेदसश्च, मेद: स्नेहस्वेदौ दृढत्वं पुष्टिमस्थनं च, अस्थीनि देहधारणं मज्ज्ञ: पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थनं च करोति, शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च, (॥१॥)

       पुरीषमुपस्तम्भं वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेद: क्लेदत्वक्‌सौकुमार्यकृत्‌ (॥२॥)

       रक्तलक्षणमार्तवं गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ॥५॥

       तत्र विधिवत्‌ परिरक्षणं कुर्वीत ॥६॥

       अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्याम: । तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसंज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं (तृष्णा दौर्बल्यं प्रजागरणं) च ॥७॥

       तत्र स्वयोनिवर्धनान्येव प्रतीकार: ॥८॥

       रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षये त्वक्‌पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्ष:कक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च, मेद:क्षये प्लीहाभिवृद्धि: सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च, मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेक: प्रसेके चाल्परक्तशुक्रदर्शनम्‌ ॥९॥

       तत्रापि स्वयोनिवर्धनद्रव्योपयोग: (प्रतीकार:) ॥१०॥

       पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ संचरणं च, मूत्रक्षये बस्तितोदोऽल्पमूत्रता च, अत्रापि स्वयोनिवर्धनद्रव्योपयोग: । स्वेदक्षये स्तब्धरोमकूपता त्वक्‌शोष: स्पर्शवैगुण्यं स्वेदनाशश्च, तत्राभ्यङ्ग: स्वेदोपयोगश्च ॥११॥

       आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च, तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोग: । स्तनक्षये स्तनयोर्म्लानता स्तन्यासंभवोऽल्पता वा, तत्र श्लेष्मवर्धनद्रव्योपयोग: । गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च, तत्र प्राप्तबस्तिकालाया: क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ॥१२॥

       अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्याम: । वृद्धि: पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति । तत्र, वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं च, पित्तवृद्धौ पीतावभासता संताप: शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च, श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च  ॥१३॥

       रसोतिऽवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति, रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च, मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च, मेद: स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन्‌ दौर्गन्ध्यं च, अस्थ्यध्यस्थीन्यधिदन्तांश्च, मज्जा सर्वाङ्गनेत्रगौरवं च, शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ॥१४॥

       पुरीषमाटोपं कुक्षौ शूलं च, मूत्रं मूत्रवृद्धिं मुहुर्मुहु: प्रवृत्तिं बस्तितोदमाध्मानं च, स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च ॥१५॥

       आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च, स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहु: प्रवृत्तिं तोदं च, गर्भो जठराभिवृद्धिं स्वेदं च ॥१६॥

       तेषां यथास्वं संशोधनं क्षपणं च क्षयादविरुद्धै: क्रियाविशेषै: प्रकुर्वीत ॥१७॥

       पूर्व: पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम्‌ ॥

       तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम्‌ ॥१८॥

       बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्याम: । तत्र रसादीनां शुक्रान्तानां धातूनां यत्‌ परं तेजस्तत्‌ खल्वोजस्तदेव बलमित्युच्यते, स्वशास्त्रसिद्धान्तात्‌ ॥१९॥

       तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघात: स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ॥२०॥

भवन्ति चात्र –

       ओज: सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम्‌ ॥

       विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम्‌ ॥२१॥

       देह: सावयवस्तेन व्याप्तो भवति देहिन: ।

       तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम्‌ ॥२२॥

       अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुध: ।

       ओज: संक्षीयते ह्येभ्यो धातुग्रहणनि:सृतम्‌ ॥

       तेज: समीरितं तस्माद्विस्रंसयति देहिन: ॥२३॥

       तस्य विस्रंसो व्यापत्‌ क्षय इति (त्रयो दोषा:), लिङ्गानि भवन्ति संन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे, स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने, मूर्च्छा मांसक्षयो मोह: प्रलापो

मरणमिति च क्षये ॥२४॥

भवन्ति चात्र –

       त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षया: ॥

       विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रम: ॥२५॥

       अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम्‌ ॥

       गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम्‌ ॥२६॥

       तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम्‌ ॥

       मूर्च्छा मांसक्षयो मोह: प्रलापोऽज्ञानमेव च ॥२७॥

       पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये ॥

       तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बल-

       माप्याययेत्‌, इतरं तु मूढसंज्ञं वर्जयेत्‌ ॥२८॥

       दोषधातुमलक्षीणो बलक्षीणोऽपि वा नर: ।

       स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्‌क्षति ॥२९॥

       यद्यदाहारजातं तु क्षीण: प्रार्थयते नर: ॥

       तस्य तस्य स लाभे तु तं तं क्षयमपोहति ॥३०॥

       यस्य धातुक्षयाद्वायु: संज्ञां कर्म च नाशयेत्‌ ॥

       प्रक्षीणं च बलं यस्य नासौ शक्यिश्चिकित्सितुम्‌ ॥३१॥

       रसनिमित्तमेव स्थौल्यं कार्श्यं च । तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति, तदतिस्थौल्यमापादायति, तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुस्वप्न – स्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति, सौकुमार्यान्मेदस: सर्वक्रियास्वसमर्थ:, कफमेदोनिरुद्ध- मार्गत्वाच्चाल्पव्यवायो भवति, आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति, प्रमेहपिडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात्‌  स्रोतसाम्‌ । अतस्तस्योत्पत्तिहेतुं परिहरेत्‌ । उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोर- साञ्जनमधुयवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्रव्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ॥३२॥

       तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासाक्षुत्कषायाल्पाशनप्रभृतिभिरुप- शोषितो रसधातु: शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति, तस्मादतिकार्श्यं भवति, सोऽतिकृश: क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति, श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्त- पित्तानामन्यतममासाद्य मरणमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात्‌, अतस्तस्योत्पत्तिहेतुं परिहरेत्‌ । उत्पन्ने तु

पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधीनामुपयोग:, क्षीरदधिघृतमांसशालिषष्टिक- यवगोधूमानां च, दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ॥३३॥

       य: पुनरुभयसाधारणान्यासेवेत तस्यान्नरस: शरीरमनुक्रामन्‌ समान्‌ धातूनुपचिनोति, समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थ: क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स सततमनुपालयितव्य इति ॥३४॥

भवन्ति चात्र –

       अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ ॥

       श्रेष्ठो मध्यशरीरस्तु कृश: स्थूलात्तु पूजित: ॥३५॥

       दोष: प्रकुपितो धातून्‌ क्षपयत्यात्मतेजसा ॥

       इद्ध: स्वतेजसा वह्निरुखागतमिवोदकम्‌ ॥३६॥

       वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च ।

       दोषधातुमलानां तु परिमाणं न विद्यते ॥३७॥

       एषां समत्वं यच्चापि भिषग्भिरवधार्यते ॥

       न तत्‌ स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ॥३८॥

       दोषादीनां त्वसमतामनुमानेन लक्षयेत्‌ ॥

       अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक्‌ ॥३९॥

       (स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्‌ ॥)

       क्षपयेृंहयेच्चापि दोषधातुमलान्‌ भिषक्‌ ॥

       तावद्यावदरोग: स्यादेतत्साम्यस्य लक्षणम्‌ ॥४०॥

       समदोष: समाग्निश्च समधातुमलक्रिय: ॥

       प्रसन्नात्मेन्द्रियमना: स्वस्थ इत्यभिधीयते ॥४१॥

       इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्याय: ॥१५॥

Last updated on May 24th, 2021 at 06:18 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi