विषय सूची पर जायें

22. वातशोणित चिकित्सा - चिकित्सा - अ.हृ"

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

वातशोणितचिकित्सितं द्वाविंशोऽध्यायः।

अथातो वातशोणितचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्‌।

अल्पाल्पं पालयन्‌ वायुं यथादोषं यथाबलम्‌॥१॥

रुग्रागतोददाहेषु जलौकोभिर्विनिर्हरेत्‌।

शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्दूयनान्वितम्‌॥२॥

प्रच्छानेन सिराभिर्वा देशाद्देशान्तरं व्रजेत्‌।

अङ्गग्लानौ तु न स्राव्यं रुक्षे वातोत्तरे च यत्‌॥३॥

गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्‌।

ग्लानिमन्यांश्च वातोत्थान्‌ कुर्याद्वायुरसृक्क्षयात्‌॥४॥

विरेच्यः स्नेहयित्वा तु स्नेहयुक्तैर्विरेचनैः।

वातोत्तरे वातरक्ते पुराणं पाययेद्घृतम्‌॥५॥

श्रावणीक्षीरकाकोलीक्षीरिणीजीवकैः समैः।

सिद्धं सर्षभकैः सर्पिः सक्षीरं वातरक्तनुत्‌॥६॥

द्राक्षामधूकवारिभ्यां सिद्धं वा ससितोपलम्‌।

घृतं पिबेत्तथा क्षीरं गुडूचीस्वरसे शृतम्‌॥७॥

तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्‌।

बलाशतावरीरास्नादशमूलैः सपीलुभिः॥८॥

श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं  शृतं पयः।

धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम्‌॥९॥

पैत्ते पक्त्वा वरीतिक्तापटोलत्रिफलामृताः।

पिबेद्घृतं वा क्षीरं वा स्वादुतिक्तकसाधितम्‌॥१०॥

क्षीरेणैरण्डतैलं च प्रयोगेण पिबेन्नरः।

बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः॥११॥

कषायमभयानां वा पाययेद्घृतभर्जितम्‌।

क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा॥१२॥

निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः।

न हि बस्तिसमं किञ्चिद्वातरक्तचिकित्सितम्‌॥१३॥

विशेषात्पायुपार्श्वोरुपर्वास्थिजठरार्तिषु।

मुस्ताधात्रीहरिद्राणां पिबेत्क्वाथं कफोल्बणे॥१४॥

सक्षौद्रं त्रिफलाया वा गुडूचीं वा यथातथा।

यथार्हस्नेहपीतं च वामितं मृदु रूक्षयेत्‌॥१५॥

त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्‌।

विडङ्गं पिप्पलीमूलं लोमशां वृषकं त्वचम्‌॥१६॥

ऋद्धिं लाङ्गलिकीं चव्यं समभागानि पेषयेत्‌।

कल्ये लिप्त्वाऽयसीं पात्रीं मध्याह्ने भक्षयेदिदम्‌॥१७॥

वातास्रे सर्वदोषेऽपि परं शूलान्विते हितम्‌।

कोकिलाक्षकनिर्यूहः पीतस्तच्छाकभोजिना॥१८॥

कृपाभ्यास इव क्रोधं वातरक्तं नियच्छति।

पञ्चमूलस्य धात्र्या वा रसैर्लेलीतकीं वसाम्‌॥१९॥

खुडं सुरूढमप्यङ्गे ब्रह्मचारी पिबन्‌ जयेत्‌।

इत्याभ्यन्तरमुद्दिष्टं कर्म बाह्यमतः परम्‌॥२०॥

आरनालाढके तैलं पादसर्जरसं शृतम्‌।

प्रभूते खजितं तोये ज्वरदाहार्तिनुत्परम्‌॥२१॥

समधूच्छिष्टमञ्जिष्ठं ससर्जरससारिवम्‌।

पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम्‌॥२२॥

दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्‌।

परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा॥२३॥

स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्‌।

स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः॥२४॥

तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः।

निःक्वाथैर्जीवनीयानां पञ्चमूलस्य वा लघोः॥२५॥

द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्‌।

सेकार्थं तण्डुलक्षौद्रशर्कराम्भश्च शस्यते॥२६॥

प्रियाः प्रियंवदा नार्यश्चन्दनार्द्रकरस्तनाः।

स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम्‌॥२७॥

सरागे सरुजे दाहे रक्तं हृत्वा प्रलेपयेत्‌।

प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः॥२८॥

सितोपलैरकासक्तुमसूरोशीरपद्मकैः।

लेपो रुग्दाहवीसर्परागशोफनिबर्हणः॥२९॥

वातघ्नैः साधितः स्निग्धः कृशरो मुद्गपायसः।

तिलसर्षपपिण्डैश्च शूलघ्नमुपनाहनम्‌॥३०॥

औदकप्रसहानूपवेसवाराः सुसंस्कृताः।

जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने॥३१॥

स्तम्भतोदरुगायामशोफाङ्गग्रहनाशनाः।

जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा॥३२॥

घृतं सहचरान्मूलं जीवन्ती छागलं पयः।

लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः॥३३॥

क्षीरपिष्टक्षुमां लेपमेरण्डस्य फलानि वा।

कुर्याच्छूलनिवृत्त्यर्थं शताह्वां वाऽनिलेऽधिके॥३४॥

मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम्‌।

सिद्धं समधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे॥३५॥

गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्‌।

प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे॥३६॥

मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम्‌।

मुहूर्तलिप्तमम्लैश्च सञ्चेद्वातकफोत्तरे॥३७॥

उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः।

विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत्‌॥३८॥

वातश्लेष्मोत्तरे कोष्णा लेपाद्यास्तत्र शीतलैः।

विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्‌॥३९॥

पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः।

उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः॥४०॥

मधुयष्ट्याः पलशतं कषाये पादशेषिते।

तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः॥४१॥

स्थिरातामलकीदूर्वापयस्याभीरुचन्दनैः।

लोहहंसपदीमांसीद्विमेदामधुपर्णिभिः॥४२॥

काकोलीक्षीरकाकोलीशतपुष्पर्द्धिपद्मकैः।

जीवकर्षभजीवन्तीत्वक्पत्रनखबालकैः॥४३॥

प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः।

चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत्‌॥४४॥

बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्‌।

सहस्रशतपाकं तद्वातासृग्वातरोगनुत्‌॥४५॥

रसायनं मुख्यतममिन्द्रियाणां प्रसादनम्‌।

जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम्‌॥४६॥

कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा।

अतिवृद्ध्याऽनिले शस्तं नादौ स्नेहनबृंहणम्‌॥४७॥

कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः।

भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्‌॥४८॥

प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्‌।

यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम्‌॥४९॥

नीते निरामतां सामे स्वेदलङ्घनपाचनैः।

रूक्षैश्चालेपसेकाद्यैः कुर्यात्केवलवातनुत्‌॥५०॥

शोषाक्षेपणसङ्कोचस्तम्भस्वपनकम्पनम्‌।

हनुस्रंसोऽर्दितं खाञ्ज्यं पाङ्गुल्यं खुडवातता॥५१॥

सन्धिच्युतिः पक्षवधो मेदोमज्जास्थिगा गदाः।

एते स्थानस्य गाम्भीर्यात्सिध्येयुर्यत्नतो नवाः॥५२॥

तस्माज्जयेन्नवानेतान्‌ बलिनो निरुपद्रवान्‌।

वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम्‌॥५३॥

व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्‌।

धन्वमांसं यवाः शालिर्विरेकः क्षीरवान्‌ मृदुः॥५४॥

सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्‌।

कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः॥५५॥

यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम्‌।

पञ्चमूलकषायेण वारिणा शीतलेन वा॥५६॥

कफावृते यवान्नानि जाङ्गला मृगपक्षिणः।

स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्‌॥५७॥

पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्‌।

संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्‌॥५८॥

कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्‌।

स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम्‌॥५९॥

प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम्‌।

महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसाऽऽवृते॥६०॥

अन्नावृते पाचनीयं वमनं दीपनं लघु।

मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः॥६१॥

एरण्डतैलं वर्चःस्थे बस्तिस्नेहाश्च भेदिनः।

कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्‌॥६२॥

सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि।

अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्‌॥६३॥

यापना बस्तयः प्रायो मधुराः सानुवासनाः।

प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्‌॥६४॥

रसायनानां सर्वेषामुपयोगः प्रशस्यते।

शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः॥६५॥

लेहो वा भार्गवस्तद्वदेकादशसिताशितः।

अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्‌॥६६॥

वातानुलोमनं कार्यं मूत्राशयविशोधनम्‌।

इति सङ्‌क्षेपतः प्रोक्तमावृतानां चिकित्सितम्‌॥६७॥

प्राणादीनां भिषक्कुर्याद्वितर्क्य स्वयमेव तत्‌।

उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्‌॥६८॥

समानं शमयेद्विद्वांस्त्रिधा व्यानं तु योजयेत्‌।

प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः॥६९॥

स्वं स्वं स्थानं नयेदेवं वृतान्‌ वातान्‌ विमार्गगान्‌।

सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्‌॥७०॥

रसायनविधानेन लशुनो हन्ति शीलितः।

पित्तावृते पित्तहरं मरुतश्चानुलोमनम्‌॥७१॥

रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्च भेषजम्‌।

रक्तपित्तानिलहरं विविधं च रसायनम्‌॥७२॥

यथानिदानं निर्दिष्टमिति सम्यक्‌ चिकित्सितम्‌।

आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात्‌॥७३॥

चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्‌।

भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्‌॥७४॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां चतुर्थे चिकित्सितस्थाने वातशोणितचिकित्सितं नाम द्वाविंशोऽध्यायः॥२२॥

Last updated on August 26th, 2021 at 09:46 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi