विषय सूची पर जायें

08. मूढगर्भनिदानम् - निदान - सु.

सुश्रुतसंहितां ।

अथ निदानस्थानम्‌ ।

अष्टमोऽध्याय: ।

अथातो मूढगर्भनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्ष- कटुतिक्तभोजनशोकातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः, फलमिव वृन्तबन्धनादभिघातविशेषैः; स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसङ्क्षोभमापादयति, तस्या जठरसङ्क्षोभाद्वायुरपानो मूढः पार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापद्य गर्भं च्यावयति तरुणं

शोणितस्रावेण; तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसम्मोहितं गर्भं मूढगर्भमित्याचक्षते ||३||

ततः कीलः प्रतिखुरो बीजकः परिघ इति |

तत्र, ऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः; निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः; यो निर्गच्छत्येकशिरोभुजः स बीजकः; यस्तु परिघ इव योनिमुखमावृत्य तिष्ठति स परिघः; इति चतुर्विधो भवतीत्येके भाषन्ते |

तत्तु न सम्यक्; कस्मात्? स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या हीयते ||४||

तत्र, कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते; कश्चिदाभुग्नैकसक्थिरेकेन; कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः; कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते; अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना; कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः; कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुम्; इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन ||५||

तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ, शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंशसंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत् ||६||

भवन्ति चात्र-

कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् |

प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ||७||

एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात् |

गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ||८||

कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम् |

पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ||९||

आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः |

ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ||१०||

प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा |

नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा ||११||

गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता |

भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ ||१२||

मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः |

गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ||१३||

बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि |

तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् ||१४||

इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भनिदानं नामाष्टमोऽध्यायः ||८||

Last updated on May 31st, 2021 at 05:33 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi