विषय सूची पर जायें

36. नेत्रबस्तिव्यापच्चिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

षट्त्रिंशत्तमोऽध्यायः ।

अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अथ नेत्रे विचलिते तथा चैव विवर्तिते |

गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ||३||

अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा |

विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ||४||

तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते |

मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते |

ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ||५||

अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात् |

गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ||६||

आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः |

अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ||७||

प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात् |

क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ||८||

ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् |

प्रत्यागच्छंस्ततःकुर्याद्रोगान् बस्तिविघातजान् ||९||

दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत् |

प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् ||१०||

बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः |

दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ||११||

अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः |

वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ||१२||

तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम् |

शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् ||१३||

शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति |

न च सम्पादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् ||१४||

भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते |

तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः ||१५||

कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते |

तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् ||१६||

गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि |

तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् ||१७||

हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ |

अतिमात्रौ तथाऽऽनाहक्लमातीसारकारकौ ||१८||

मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ |

मृदुशीतावुभौ वातविबन्धाध्मानकारकौ ||१९||

तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः |

गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः ||२०||

प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः |

तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् ||२१||

स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते |

बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् ||२२||

अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके |

उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् ||२३||

तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः |

न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः ||२४||

हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च |

उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते ||२५||

नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति |

देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा ||२६||

न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः |

स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः ||२७||

न चाशयं तर्पयति तस्मान्नार्थकरो हि सः |

नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः ||२८||

दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः |

न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते ||२९||

पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत् |

व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ||३०||

अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः |

अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ||३१||

विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते |

तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ||३२||

सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः |

अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ||३३||

अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः |

तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ||३४||

हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् |

तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ||३५||

अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः |

सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ||३६||

नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः |

पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ||३७||

अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते |

दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ||३८||

परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे |

पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ||३९||

प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात् |

सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ||४०||

पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम् |

सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ||४१||

अतितीक्ष्णो निरूहो वा सवाते चानुवासनः |

हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ||४२||

दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम् |

सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ||४३||

रूक्षस्य बहुवातस्य तथा दुःशायितस्य च |

बस्तिरङ्गग्रहं कुर्याद्रूक्षो मृद्वल्पभेषजः ||४४||

तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः |

पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ||४५||

अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च |

अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ||४६||

विरेचनातियोगेन समानं तस्य लक्षणम् |

पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ||४७||

अतियोगात् परं यत्र जीवादानं विरिक्तवत् |

देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ||४८||

नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः |

स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ||४९||

इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः |

भिषजा च तथा कार्यं यथैता न भवन्ति हि ||५०||

पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम् |

सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ||५१||

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ||३६||

Last updated on July 8th, 2021 at 10:13 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi