विषय सूची पर जायें

66. दोषभेदविकल्पाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षट्षष्टितमोऽध्यायः ।

अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम् |
छिन्नशस्त्रार्थसन्देहं सूक्ष्मागाधागमोदधिम् ||३||

विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति |
द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ||४||

कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः |
तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ||५||

प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः |
त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ||६||

देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः |
पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ||७||

रोगाणां तु सहस्रं यच्छतं विंशतिरेव च |
शतं च पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् ||८||

व्यासतः कीर्तितं तद्धिभिन्ना दोषास्त्रयो गुणाः |
द्विषष्टिधा भवन्त्येते भूयिष्ठमिति निश्चयः ||९||

त्रय एव पृथक् दोषा द्विशो नव समाधिकैः |
त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः ||१०||

पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः |
क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ||११||

द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा |
मिश्रा धातुमलैर्दोषा यान्त्यसङ्ख्येयतां पुनः ||१२||

तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः |
रोगं विदित्वोपचरेद्रसभेदैर्यथैरितैः ||१३||

भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम् |
कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा ||१४||

अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम् |
एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् ||१५||

स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम् |
यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् ||१६||

सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन |
न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्ममतीव सत्यम् ||१७||

इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ||६६||

इति सुश्रुतसंहितायामुत्तरतन्त्रं समाप्तम् |
समाप्तेयं सुश्रुतसंहिता |

Last updated on July 9th, 2021 at 05:39 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi