विषय सूची पर जायें

04. मर्म विभाग शारीर - शारीर - अ.हृ."

अष्टाङ्गहृदयस्य (शारीरस्थानम्‌) मर्मविभाग

चतुर्थोऽध्यायः।

अथातो मर्मविभागं शारीरं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

सप्तोत्तरं मर्मशतम्‌ तेषामेकादशादिशेत्‌।

पृथक्सक्थनोस्तथा बाह्वोस्त्रीणि कोष्ठे नवोरसि॥१॥

पृष्ठे चतुर्दशोर्ध्वं तु जत्रोस्त्रिंशच्च सप्त च।

मध्ये पादतलस्याहुरभितो मध्यमाङ्गुलिम्‌॥२॥

तलहृन्नाम रुजया तत्र विद्धस्य पञ्चता।

अङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रमाक्षेपमारणम्‌॥३॥

तस्योर्ध्वं व्द्यङ्गुले कूर्चः पादभ्रमणकम्पकृत्‌।

गुल्फसन्धेरधः कूर्चशिरः शोफरुजाकरम्‌॥४॥

जङ्घाचरणयोः सन्धौ गुल्फो रुक्स्तम्भमान्द्यकृत्‌।

जङ्घान्तरे त्विन्द्रबस्तिर्मारयत्यसृजः क्षयात्‌॥५॥

जङ्घोर्वोः सङ्गमे जानु खञ्जता तत्र जीवतः।

जानुनस्त्र्यङ्गुलादूर्ध्वमाण्यूरुस्तम्भशोफकृत्‌॥६॥

उर्व्यूरुमध्ये तद्वेधात्सक्थिशोषोऽस्रसङ्‌क्षयात्‌।

ऊरुमूले लोहिताक्षं हन्ति पक्षमसृक्क्षयात्‌॥७॥

मुष्कवङ्‌क्षणयोर्मध्ये विटपं षण्ढताकरम्‌।

इति सक्थनेस्तथा बाह्वोर्मणिबन्धोऽत्र गुल्फवत्‌॥८॥

कूर्परं जानुवत्कौण्यं तयोर्विटपवत्पुनः।

कक्षाक्षमध्ये कक्षाधृक्‌ कुणित्वं तत्र जायते॥९॥

स्थूलान्त्रबद्धः सद्योघ्नो विड्‌वातवमनो गुदः।

मूत्राशयो धनुर्वक्रो बस्तिरल्पास्रमांसगः॥१०॥

एकाधोवदनो मध्ये कट्याः सद्यो निहन्त्यसून्‌।

ऋतेऽश्मरीव्रणाद्विद्धस्तत्राप्युभयतश्च सः॥११॥

मूत्रस्राव्येकतो भिन्ने व्रणो रोहेच्च यत्नतः।

देहामपक्वस्थानानां मध्ये सर्वसिराश्रयः॥१२॥

नाभिः, सोऽपि हि सद्योघ्नो द्वारमामाशयस्य च।

सत्वादिधाम हृदयं स्तनोरः कोष्ठमध्यगम्‌॥१३॥

स्तनरोहितमूलाख्ये व्द्यङ्गुले स्तनयोर्वदेत्‌।

ऊर्ध्वाधोऽस्रकफापूर्णकोष्ठो नश्येत्तयोः क्रमात्‌॥१४॥

अपस्तम्भावुरःपार्श्वे नाड्यावनिलवाहिनी।

रक्तेन पूर्णकोष्ठोऽत्र श्वासात्कासाच्च नश्यति॥१५॥

पृष्ठवंशोरसोर्मध्ये तयोरेव च पार्श्वयोः।

अधोंऽसकूटयोर्विद्यादपालापाख्यमर्मणी॥१६॥

तयोः कोष्ठेऽसृजा पूर्णे नश्येद्यातेन पूयताम्‌।

पार्श्वयोः पृष्ठवंशस्य श्रोणीकर्णौ प्रति स्थिते॥१७॥

वंशाश्रिते स्फिजोरूर्ध्वं कटीकतरुणे स्मृते।

तत्र रक्तक्षयात्पाण्डुर्हीनरूपो विनश्यति॥१८॥

पृष्ठवंशं ह्युभयतो यौ सन्धी कटिपार्श्वयोः।

जघनस्य बहिर्भागे मर्मणी तौ कुकुन्दरौ॥१९॥

चेष्टाहानिरधःकाये स्पर्शाज्ञानं च तद्व्यधात्‌।

पार्श्वान्तरनिबद्धौ यावुपरि श्रोणिकर्णयोः॥२०॥

आशयच्छादनौ तौ तु नितम्बौ तरुणास्थिगौ।

अधः शरीरे शोफोऽत्र दौर्बल्यं मरणं ततः॥२१॥

पार्श्वान्तरनिबद्धौ च मध्ये जघनपार्श्वयोः।

तिर्यगूर्ध्वं च निर्दिष्टौ पार्श्वसन्धी तयोर्व्यधात्‌॥२२॥

रक्तपूरितकोष्ठस्य शरीरान्तरसम्भवः।

स्तनमूलार्जवे भागे पृष्ठवंशाश्रये सिरे॥२३॥

बृहत्यौ, तत्र विद्धस्य मरणं रक्तसङ्‌क्षयात्‌।

बाहुमूलाभिसम्बद्धे पृष्ठवंशस्य पार्श्वयोः॥२४॥

अंसयोः फलके बाहुस्वापशोषौ तयोर्व्यधात्‌।

ग्रीवामुभयतः स्नाव्नी ग्रीवाबाहुशिरोन्तरे॥२५॥

स्कन्धांसपीठसम्बन्धावंसौ बाहुक्रियाहरौ।

कण्ठनाडीमुभयतः सिरा हनुसमाश्रिताः॥२६॥

चतस्रस्तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते।

स्वरप्रणाशवैकृत्यं रसाज्ञानं च तद्व्यधे ॥२७॥

कण्ठनाडीमुभयतो जिह्वानासागताः सिराः।

पृथक्‌ चतस्रस्ताः सद्यो घ्नन्त्यसून्मातृकाह्वयाः॥२८॥

कृकाटिके शिरोग्रीवासन्धौ, तत्र चलं शिरः।

अधस्तात्कर्णयोर्निम्ने  विधुरे श्रुतिहारिणी॥२९॥

फणावुभयतो घ्राणमार्गं श्रोत्रपथानुगौ।

अन्तर्गलास्थितौ वेधाद्गन्धविज्ञानहारिणौः॥३०॥

नेत्रयोर्बाह्यतोऽपाङ्गौ भ्रुवोः पुच्छान्तयोरधः।

तथोपरि भ्रुवोर्निम्नावावर्तावान्ध्यमेषु तु॥३१॥

अनुकर्णं ललाटान्ते शङ्खौ सद्योविनाशनौ।

केशान्ते शङ्खयोरूर्ध्वमुत्क्षेपौ, स्थपनी पुनः॥३२॥

भ्रुवोर्मध्ये, त्रयेऽप्यत्र शल्ये जीवेदनुद्धृते।

स्वयं वा पतिते पाकात्सद्यो नश्यति तूद्धृते॥३३॥

जिह्वाक्षिनासिकाश्रोत्रखचतुष्टयसङ्गमे।

तालुन्यास्यानि चत्वारि स्रोतसां, तेषु मर्मसु॥३४॥

विद्धः शृङ्गाटकाख्येषु सद्यस्त्यजति जीवितम्‌।

कपाले सन्धयः पञ्च सीमन्तास्तिर्यगूर्ध्वगाः॥३५॥

भ्रमोन्मादमनोनाशैस्तेषु विद्धेषु नश्यति।

आन्तरो मस्तकयोर्ध्वं सिरासन्धिसमागमः॥३६॥

रोमावर्तोऽधिपो नाम मर्म सद्यो हरत्यसून्‌।

विषमं स्पन्दनं यत्र पीडिते रुक्‌ च मर्म तत्‌॥३७॥

मांसास्थिस्नायुधमनीसिरासन्धिसमागमः।

स्यान्मर्मेति च तेनात्र सुतरां जीवितं स्थितम्‌॥३८॥

बाहुल्येन तु निर्देशः षोढैवं मर्मकल्पना।

प्राणायतनसामान्यादैक्यं वा मर्मणां मतम्‌॥३९॥

मांसजानि दशेन्द्राख्यतलहृत्स्तनरोहिताः।

शङ्खौ कटीकतरुणे नितम्बावंसयोः फले॥४०॥

अस्थ्न्यष्टौ स्नावमर्माणि त्रयोविंशतिराणयः।

कूर्चकूर्चशिरोऽपाङ्गक्षिप्रोत्क्षेपांसबस्तयः॥४१॥

गुदापस्तम्भविधुरशृङ्गाटानि नवादिशेत्‌।

मर्माणि धमनीस्थानि सप्तत्रिंशत्सिराश्रयाः॥४२॥

बृहत्यौ मातृका नीले मन्ये कक्षाधरौ फणौ।

विटपे हृदयं नाभिः पार्श्वसन्धी स्तनाधरे॥४३॥

अपालापौ स्थपन्युर्व्यश्चतस्रो लोहितानि च।

सन्धौ विंशतिरावर्तौ मणिबन्धौ कुकुन्दरौ॥४४॥

सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः।

मांसमर्म गुदोऽन्येषां, स्नान्वि कक्षाधरौ तथा॥४५॥

विटपौ विधुराख्ये च, शृङ्गाटानि सिरासु तु।

अपस्तम्भावपाङ्गौ च, धमनीस्थं न तैः स्मृतम्‌॥४६॥

विद्धेऽजस्रमसृक्स्रावो मांसधावनवत्तनुः।

पाण्डुत्वमिन्द्रियाज्ञानं मरणं चाशु मांसजे॥४७॥

मज्जान्वितोऽच्छो विच्छिन्नः स्रावो रुक्‌ चास्थिमर्मणि।

आयामाक्षेपकस्तम्भाः स्नावजेऽभ्यधिकं रुजा॥४८॥

यानस्थानासनाशक्तिर्वैकल्यमथवाऽन्तकः।

रक्तं सशब्दफेनोष्णं धमनीस्थे विचेतसः॥४९॥

सिरामर्मव्यधे सान्द्रमजस्रं बह्वसृक्स्रवेत्‌।

तत्क्षयात्तृड्‌भ्रमश्वासमोहहिध्माभिरन्तकः॥५०॥

वस्तु शूकैरिवाकीर्णं रूढे च कुणिखञ्जता।

बलचेष्टाक्षयः शोषः पर्वशोफश्च सन्धिजे॥५१॥

नाभिशङ्खाधिपापानहृच्छृङ्गाटकबस्तयः।

अष्टौ च मातृकाः सद्यो निघ्नन्त्येकान्नविंशतिः॥५२॥

सप्ताहः परमस्तेषां कालः कालस्य कर्षणे।

त्रयस्त्रिंशदपस्तम्भतलहृत्पार्श्वसन्धयः॥।५३॥

कटीतरुणसीमन्तस्तनमूलेन्द्रबस्तयः।

क्षिप्रापालापबृहतीनितम्बस्तनरोहिताः॥५४॥

कालान्तरप्राणहरा मासमासार्द्धजीविताः।

उत्क्षेपौ स्थपनी त्रीणि विशल्यघ्नानि, तत्र हि॥५५॥

वायुर्मांसवसामज्जमस्तुलुङ्गानि शोषयन्‌।

शल्यापाये विनिर्गच्छन्‌ श्वासात्कासाच्च हन्त्यसून्‌॥५६॥

फणावपाङ्गौ विधुरे नीले मन्ये कृकाटिके।

अंसांसफलकावर्तविटपोर्वीकुकुन्दराः॥५७॥

सजानुलोहिताक्षाणिकक्षाधृक्कूर्चकूर्पराः।

वैकल्यमिति चत्वारि चत्वारिंशच्च कुर्वते॥५८॥

हरन्ति तान्यपि प्राणान्‌ कदाचिदभिघाततः।

अष्टौ कूर्चशिरोगुल्फमणिबन्धा रुजाकराः॥५९॥

तेषां विटपकक्षाधृगुर्व्यः कूर्चशिरांसि च ।

द्वादशाङ्गुलमानानि द्व्यङ्गुले मणिबन्धने॥६०॥

गुल्फौ च स्तनमूले च त्र्यङ्गुलं जानुकूर्परम्‌।

अपानबस्तिहृन्नाभिनीलाः सीमन्तमातृकाः॥६१॥

कूर्चशृङ्गाटमन्याश्च त्रिंशदेकेन वर्जिताः।

आत्मपाणितलोन्मानाः शेषाण्यर्द्धाङ्गुलं वदेत्‌॥६२॥

पञ्चाशत्षट्‌ च मर्माणि, तिलव्रीहिसमान्यपि।

इष्टानि मर्माण्यन्येषाम्‌ चतुर्द्धोक्ताः सिरास्तु याः॥६३॥

तर्पयन्ति वपुः कृत्स्नं ता मर्माण्याश्रितास्ततः।

तत्क्षतात्क्षतजात्यर्थप्रवृत्तेर्धातुसङ्‌क्षये॥६४॥

वृद्धश्चलो रुजस्तीव्राः प्रतनोति समीरयन्‌।

तेजस्तदुद्धृतं धत्ते तृष्णाशोषमदभ्रमान्‌॥६५॥

स्विन्नस्रस्तश्लथतनुं हरत्येनं ततोऽन्तकः।

वर्द्धयेत्सन्धितो गात्रं मर्मण्यभिहते द्रुतम्‌॥६६॥

छेदनात्सन्धिदेशस्य सङ्कुचन्ति सिरा ह्यतः।

जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति॥६७॥

सुविक्षतोऽप्यतो जीवेदमर्मणि न मर्मणि।

प्राणघातिनि जीवेत्तु कश्चिद्वैद्यगुणेन चेत्‌॥६८॥

असमग्राभिघाताच्च सोऽपि वैकल्यमश्नुते।

तस्मात्क्षारविषाग्न्यादीन्‌ यत्नान्मर्मसु वर्जयेत्‌॥६९॥

मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम्‌।

रोगा मर्माश्रयास्तद्वत्प्रक्रान्ता यत्नतोऽपि च॥७०॥

इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय

संहितायां द्वितीये शारीरस्थाने मर्मविभागो नाम चतुर्थोऽध्यायः॥४॥

Last updated on August 12th, 2021 at 10:16 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi