विषय सूची पर जायें

65. तन्त्रयुक्त्यध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

पञ्चषष्टितमोऽध्याय: ।

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे |
तद्यथा- अधिकरणं, योगः, पदार्थः, हेत्वर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, प्रदेशः, अतिदेशः, अपवर्जः, वाक्यशेषः, अर्थापत्तिः, विपर्ययः, प्रसङ्गः, एकान्तः, अनेकान्तः, पूर्वपक्षः, निर्णयः, अनुमतं, विधानम्, अनागतावेक्षणम्, अतिक्रान्तावेक्षणं, संशयः, व्याख्यानं, स्वसञ्ज्ञा, निर्वचनं, निदर्शनं, नियोगः, विकल्पः, समुच्चयः, ऊह्यम् इति ||३||

अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम्? उच्यते- वाक्ययोजनमर्थयोजनं च ||४||

भवन्ति चात्र श्लोकाः-
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् |
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ||५||

व्यक्ता नोक्तास्तु ये ह्यार्था लीना ये चाप्यनिर्मलाः |
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ||६||

यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा |
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ||७||

तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा रसं दोषं वा ||८||

येन वाक्यं युज्यते स योगः |
यथा-
‘तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः |
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे’ |
इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपि पदानामेकीकरणं योगः ||९||

योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदार्थः; अपरिमिताश्च पदार्थाः |
यथा- स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा- ‘वेदोत्पत्तिमध्यायं व्याख्यास्याम’ इत्युक्ते सन्दिह्यते बुद्धिः- कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः; ‘विद विचारणे, विद्लृ लाभे,’ इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति- आयुर्वेदोत्पत्तिमयं विवक्षुरिति; एष पदार्थः ||१०||

यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः |
यथा- मृत्पिण्डोऽद्भिः प्रक्लिघते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिघत इति ||११||

समासवचनमुद्देशः |
यथा- शल्यमिति ||१२||

विस्तरवचनं निर्देशः |
यथा- शारीरमागन्तुकं चेति ||१३||

एवमित्युपदेशः |
यथा- ‘तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्’इति ||१४||

अनेन कारणेनेत्यपदेशः, यथाऽपदिश्यते-
मधुरः श्लेष्माणमभिवर्धयतीति ||१५||

प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः |
यथा- देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति ||१६||

प्रकृतस्यानागतस्य साधनमतिदेशः |
यथा- यतोऽस्य वायुरुर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति ||१७||

अभिव्याप्यापकर्षणमपवर्गः |
यथा- अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति ||१८||

येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः |
यथा- शिरः पाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति ||१९||

यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः |
यथा- ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति- नायं पिपासुर्यवागूमिति ||२०||

यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः |
यथा- कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति ||२१||

प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः |
यथा- पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं- यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरूष इति, स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति ||२२||

(सर्वत्र)यदवधारणेनोच्यते स एकान्तः |
यथा- त्रिवृद्विरेचयति, मदनफलं वामयति(एव) ||२३||

क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः |
यथा- केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति ||२४||

आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः |
यथा- कथं वातनिमित्ताश्चत्वारः प्रमेह असाध्या भवन्तीति ||२५||

तस्योत्तरं निर्णयः |
यथा- शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति ||२६||

तथा चोक्तम्- कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः |
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः ||२७||

परमतमप्रतिषिद्धमनुमतम् |
यथा- अन्यो ब्रूयात्- सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथञ्चिदिति ||२८||

प्रकरणानुपूर्व्याऽभिहितं विधानम् |
यथा- सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि ||२९||

एवं वक्ष्यतीत्यनागतावेक्षणम् |
यथा- श्लोकस्थाने ब्रूयात्- चिकित्सितेषु वक्ष्यामीति ||३०||

यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् |
यथा- चिकित्सितेषु ब्रूयात्- श्लोकस्थाने यदीरितमिति ||३१||

उभयहेतुदर्शनं संशयः |
यथा  – तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति ||३२||

तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् |
यथा- इह पञ्चविंशतिकः पुरूषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ||३३||

अन्यशास्त्रासामान्या स्वसञ्ज्ञा |
यथा- मिथुनमिति मधुसर्पिषोर्ग्रगणं; लोकप्रसिद्धमुदाहरणं वा ||३४||

निश्चितं वचनं निर्वचनम् |
यथा- आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ||३५||

दृष्टान्तव्यक्तिर्निदर्शनम् |
यथा- अग्निर्वायुना सहितः कक्षे वृर्द्धि गच्छति तथा वातपित्तकफदुष्टो व्रण इति ||३६||

इदमेव कर्तव्यमिति नियोगः |
यथा- पथ्यमेव भोक्तव्यमिति ||३७||

इदं चेदं चेति समुच्चयः |
यथा- मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गश्च प्रधानानीति ||३८||

इदं वेदं वेति विकल्पः |
यथा- रसौदनः सघृता यवागूर्वा (भवत्विति) ||३९||

यदनिर्दिष्टं बुद्धयाऽवगम्यते तदूह्यम् |
यथा- अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते- भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम्- अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति; चतुर्विधश्चाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति |
किञ्चान्यत्- अन्नेन भक्ष्यमवरुद्धं, घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधर्म्यात् ||४०||

भवन्ति चात्र-
सामान्यदर्शनेनासां व्यवस्था सम्प्रदर्शिता |
विशेषस्तु यथायोगमुपधार्यो विपश्चिता ||४१||

द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे |
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ||४२||

यो ह्योता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान् |
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ||४३||

इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम
(तृतीयोऽध्यायः, आदितः) पञ्चषष्टिमोऽध्यायः ||६५||

Last updated on July 9th, 2021 at 05:37 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi