विषय सूची पर जायें

35. नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

पञ्चत्रिंशत्तमोऽध्यायः।

अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः |

कस्मात्? अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति ||३||

शरीरोपचयं वर्णं बलमारोग्यमायुषः |

कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||४||

तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर- योनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्त- शुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ||५||

भवति चात्र-

बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते |

संसर्गे सन्निपाते च बस्तिरेव हितः सदा ||६||

तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि |

तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ||७||

वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि |

वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ||८||

पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडीतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि |

आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः |

सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ||९||

मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः |

तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी ||१०||

 (व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत) ||११||

तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च ||१२||

बस्तयश्च बन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् ||१३||

नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा |

बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ||१४||

बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् |

मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् ||१५||

नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् |

बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् ||१६||

परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् |

आस्थापनं च तैलं च यथावत्तेन दापयेत् ||१७||

तत्र द्विविधो बस्तिः- नैरूहिकः, स्नैहिकश्च |

आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य पर्यायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति |

स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, वयःस्थापनादायुःस्थापनाद्वा आस्थापनम् |

माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः |

यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः |

अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः |

तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति ||१८||

निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः |

निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति |

अपेतसर्वदोषासु नाडीष्विव वहज्जलम् ||१९||

सर्वदोषहरश्चासौ शरीरस्य च जीवनः |

तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते ||२०||

तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्य- श्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः ||२१||

उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः |

अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ||२२||

असाध्यता विकाराणां स्यादेषामनुवासनात् |

असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् ||२३||

पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः |

सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ||२४||

पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति |

वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् ||२५||

स चापि सहसा बस्तिः केवलः समलोऽपि वा |

प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ||२६||

वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्) |

पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव ||२७||

स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् |

उत्खातमूलान् हरति दोषाणां साधुयोजितः ||२८||

दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः |

तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ||२९||

वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया |

पवनाविद्धतोयस्य वेला वेगमिवोदधेः ||३०||

शरीरोपचयं वर्णं बलमारोग्यमायुषः |

कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||३१||

अत ऊर्ध्वं व्यापदो वक्ष्यामः |

तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं, सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वम्, अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, सच्छिद्रता, प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः |

आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते |

स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति |

अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ||३२||

भवति चात्र-

षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः |

तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ||३३||

इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ||३५||

Last updated on July 8th, 2021 at 10:12 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi