विषय सूची पर जायें

64. स्वस्थवृत्ताध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

चतुःषष्टितमोऽध्यायः।

अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः |
तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम् ||३||

तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः |
तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ||४||

यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् |
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ||५||

प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु |
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ||६||

तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च |
कषायतिक्तकटुकै रसैर्युक्तमपद्रवम् ||७||

नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च |
देयमन्नं नृपतये यज्जलं चोक्तमादितः ||८||

तप्तावरतमम्भो वा पिबेन्मधुसमायुतम् |
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ||९||

तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा |
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् ||१०||

अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत् |
भूबाष्पपरिहारार्थं शयीत च विहायसि ||११||

शीते साग्नौ निवाते च गुरुप्रावरणे गृहे |
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः ||१२||

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः |
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः ||१३||

क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः |
श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम् ||१४||

सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम् |
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु ||१५||

प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम् |
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः ||१६||

वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः |
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् ||१७||

रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत् |
(स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम् ||१८||

शरच्चन्द्रांशुनिर्धौतमगस्त्योदयनिर्विषम् |
प्रसन्नत्वाच्च सलिलं सर्वमेव तदा हितम् ||१९||

सचन्दनं सकर्पूरं वासश्चामलिनं लघु |
भजेच्च शारदं माल्यं सीधोः पानं च युक्तितः ||२०||

पित्तप्रशमनं यच्च तच्च सर्वं समाचरेत्) |
(हेमन्तः शीतलो रूक्षो मन्दसूर्योऽनिलाकुलः ||२१||

ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति |
कोष्ठस्थः शीतसंस्पर्शादन्तःपिण्डीकृतोऽनलः ||२२||

रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम्) |
हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् ||२३||

ससर्पिस्तैलमहिममशनं हितमुच्यते |
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः ||२४||

तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम् |
साङ्गारयाने महति कौशेयास्तरणास्तृते ||२५||

शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे |
स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः ||२६||

प्रकामं च निषेवेत मैथुनं तर्पितो नृपः |
(मधुरं तिक्तकटुकमम्लं लवणमेव च ||२७||

अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च |
तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि ||२८||

प्रसहानूपमांसानि क्रव्यादबिलशायिनाम् |
औदकानां प्लवानां च पादिनां चोपसेवयेत् ||२९||

मद्यानि च प्रसन्नानि यच्च किञ्चित् बलप्रदम् |
कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे ||३०||

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः) |
एष एव विधिः कार्यः शिशिरे समुदाहृतः ||३१||

(हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् |
औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून् ||३२||

ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च |
वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत् ||३३||

षष्टिकान्नं यवाञ्छीतान् मुद्गान् नीवारकोद्रवान् |
लावादिविष्किररसैर्दद्याद्यूषैश्च युक्तितः ||३४||

पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये |
सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान् ||३५||

व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम् |
सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे) ||३६||

तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्रवम् |
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ||३७||

व्यायमोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः |
उत्सादनं तथा स्नानं वनिताः काननानि च ||३८||

सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम् |
शिरोविरेकवमननिरूहकवलादिभिः ||३९||

वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान् |
व्यायाममुष्णमायासं मैथुनं परिशोषि च ||४०||

रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् |
सरांसि सरितो वापीर्वनानि रुचिराणि च ||४१||

चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः |
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ||४२||

घर्मकाले निषेवेत वासांसि सुलघूनि च |
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ||४३||

पानकानि च सेवेत मन्थांश्चापि सशर्करान् |
भोजनं च हितं शीतं सघृतं मधुरद्रवम् ||४४||

शृतेन पयसा रात्रौ शर्करामधुरेण च |
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ||४५||

शयीत चन्दनार्द्राङ्गः स्पृश्यमानोऽनिलैः सुखैः |
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ||४६||

पयो मांसरसाः कोष्णास्तैलानि च घृतानि च |
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ||४७||

निदाघोपचितं चैव प्रकुप्यन्तं समीरणम् |
निहन्यादनिलघ्नेन विधिना विधिकोविदः ||४८||

नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम् |
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ||४९||

नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत् |
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ||५०||

हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम् |
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ||५१||

समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् |
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ||५२||

तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत् |
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ||५३||

पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत् |
निरूहैर्बस्तिभिश्चान्यैस्तभाऽन्यैर्मारुतापहैः ||५४||

कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम् |
ऋतावृतौ य एतेन विधिना वर्तते नरः ||५५||

घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन |
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः |
तत्र शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ||५६||

तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान् |
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ||५७||

कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः |
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ||५८||

वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा |
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ||५९||

मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि |
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ||६०||

शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्रवैः |
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ||६१||

एककालं भवेद्देयो दुर्बलाग्निविवृद्धये |
समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ||६२||

औषधद्वेषिणे देयस्तथौषधसमायुतः |
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ||६३||

यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः |
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च |
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ||६४||

अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः |
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः ||६५||

तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ||६६||

वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैव |
तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ||६७||

प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ||६८||

शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति |
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ||६९||

अधोभक्तं नाम- यदधो भक्तस्येति ||७०||

मध्येभक्तं नाम- यन्मध्ये भक्तस्य पीयते ||७१||

पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति |
मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ||७२||

अन्तराभक्तं नाम – यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ||७३||

सभक्तं नाम – यत् सह भक्तेन ||७४||

पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च |
हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ||७५||

सामुद्गं नाम – यद्भक्तस्यादावन्ते च पीयते ||७६||

दोषे द्विधा प्रविसृते तु समुद्गसञ्ज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ||७७||

मुहुर्मुहुर्नाम – सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ||७८||

श्वासे मुहुर्मुहुरतिप्रसृते च कासे
हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ||७९||

ग्रासं तु- यत्पिण्डव्यामिश्रम् ||८०||

ग्रासान्तरं तु यद्ग्रासान्तरेषु ||८१||

ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत |
ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ||८२||

एवमेते दशौषधकालाः ||८३||

विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ
विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति |
तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले
प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ||८४||

इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु
स्वस्ववृत्ताध्यायो नाम(द्वितीयोऽध्यायः, आदितः) चतुःषष्टितमोऽध्यायः ||६४||

Last updated on July 9th, 2021 at 05:37 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi