सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
चत्वारिंशत्तमोऽध्याय: ।
अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
धूमः पञ्चविधो भवति; तद्यथा- प्रायोगिकः, स्नैहिको, वैरेचनिकः, कासघ्नो, वामनीयश्चेति ||३||
तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके, स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रैः स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने, बृहतीकण्टकारिकात्रिकटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने, स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ||४||
तत्र बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति |
धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके, द्वात्रिंशत् स्नेहने, चतुर्विंशतिर्वैरेचने, षोडशाङ्गुलं कासघ्ने वामनीये च |
एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः |
व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ||५||
अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तदीप्ताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ||६||
मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत् |
मुखपीतं मुखेनैव वमेत् पीतं च नासया ||७||
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् |
तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ||८||
विशेषतस्तु प्रायोगिकं घ्राणेनाददीत, स्नैहिकं मुखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ ||९||
तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्; एवं स्नेहनं वैरेचनिकं च कुर्यादिति |
इतरयोर्व्यपेतधूमाङ्गारे स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छिद्रेणान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्य धूममासेवेत, प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः; एष धूमपानोपायविधिः ||१०||
तत्र शोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्दिशिरोऽभिघातोद्गारापतर्पित- तिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्क- मधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ||११||
अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम् |
घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् ||१२||
आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः |
तद्यथा- क्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्तेष्विति |
तत्र विभागो- मूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः, स्नानच्छर्दनदिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति ||१३||
तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च; वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च; प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात् पूर्वाभ्यामिति ||१४||
भवति चात्र-
नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः |
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ||१५||
तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथुक्रथतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति ||१६||
तस्य योगायोगातियोगा विज्ञातव्याः |
तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो जनयति ||१७||
प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति, स्नैहिकं यावदश्रुपवृत्तिः, वैरेचनिकमादोषदर्शनात्, तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रासान्तरेषु कासघ्न इति ||१८||
व्रणधूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत्, धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति ||१९||
विधिरेष समासेन धूमस्याभिहितो मया |
नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ||२०||
औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् |
तद्द्विविधं शिरोविरेचनं, स्नेहनं च |
तद्द्विविधमपि पञ्चधा |
तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शो, अवपीडः, प्रधमनं च |
तेषु नस्यं प्रधानं शिरोविरेचनं च; नस्यविकल्पः प्रतिमर्शः, शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च; ततो नस्यशब्दः पञ्चधा नियमितः ||२१||
तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः |
तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघात- नासारोगास्यशोषावबाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ||२२||
शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपीनसार्धावभेदक- कृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेनेति ||२३||
तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, मध्याह्ने पित्तरोगिणां, अपराह्णे वातरोगिणाम् ||२४||
अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्नमृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तं रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नोति ||२५||
स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् |
न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा ||२६||
एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते |
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ||२७||
तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा, द्वितीया शुक्तिः, तृतीया पाणिशुक्तिः, इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः ||२८||
स्नेहनस्यं नोपगिलेत्कथञ्चिदपि बुद्धिमान् ||२९||
शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा |
कफोत्क्लेशभयाच्चैनं निष्ठीवेदविधारयन् ||३०||
दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत, भोजयेच्चैनमभिष्यन्दि, ततोऽस्याचारिकमादिशेत्; रजोधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत् ||३१||
तस्य योगातियोगायोगानामिदं विज्ञानं भवति ||३२||
लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् |
विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ||३३||
कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः |
लक्षणं मूर्ध्न्यतिस्निग्धे रूक्षं तत्रावचारयेत् ||३४||
अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता |
रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ||३५||
चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम् |
शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ||३६||
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः |
शुद्ध(द्धि)हीनातिसञ्ज्ञानि विशेषाच्छास्त्रचिन्तकैः ||३७||
लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः |
चित्तोन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ||३८||
कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः |
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ||३९||
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः |
शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ||४०||
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत् |
सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ||४१||
(एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः |
एकविंशतिरात्रं वा यावद्वा साधु मन्यते ||४२||
मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः |
द्विकालं चापि दातव्यं नस्यं तस्य विजानता) ||४३||
अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसञ्ज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च, शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विदध्यात् ||४४||
कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् |
शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथा हितः ||४५||
चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ||४६||
नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवोऽजीर्णी दत्तबस्तिः क्रुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चेति; अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ||४७||
तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ||४८||
भवतश्चात्र-
नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः |
दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ||४९||
दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः |
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ||५०||
प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः; तद्यथा- तल्पोत्थितेन, प्रक्षालितदन्तेन, गृहान्निर्गच्छता, व्यायामव्यवायाध्वपरिश्रान्तेन, मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन, सायं चेति ||५१||
तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपहन्ति मनःप्रसादं च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति, कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति, भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति, दिवास्वप्नोत्थितेनासेवितो निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति, सायं चासेवितः सुखनिद्राप्रबोधं चेति ||५२||
ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते |
नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ||५३||
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः |
इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ||५४||
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् |
वलीपलितखालित्यव्यङ्गानां चाप्यसम्भवम् ||५५||
तैलं कफे सवाते स्यात् केवले पवने वसाम् |
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ||५६||
चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः |
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ||५७||
अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् |
चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ||५८||
स्निग्धोष्णैः स्नैहिको वाते, स्वादुशीतैः प्रसादनः |
पित्ते, कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ||५९||
कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे |
चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्तितः ||६०||
तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत् ||६१||
सुखं सञ्चार्यते या तु मात्रा स (सा) कवलः स्मृतः |
असञ्चार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ||६२||
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चान्यो ग्रहीतव्य इति ||६३||
एवं स्नेहपयःक्षौद्ररसमूत्राम्लसम्भृताः |
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ||६४||
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् |
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ||६५||
हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च |
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ||६६||
शोधनीये विशेषेण भवन्त्येव न संशयः |
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ||६७||
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः |
कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ||६८||
विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् |
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ||६९||
अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम् |
तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ||७०||
तानेव शमयेद् व्याधीन् कवलो यानपोहति |
दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ||७१||
इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रहचिकित्सितं नाम चत्वारिंशोऽध्यायः ||४०||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां चतुर्थं चिकित्सास्थानं समाप्तम्|
Last updated on July 8th, 2021 at 10:23 am