चरकसंहिता
चिकित्सास्थानम् ।
एकोनत्रिंशोऽध्याय: ।
अथातो वातशोणितचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
हुताग्निहोत्रमासीनमृषिमध्ये पुनर्वसुम् ।
पृष्टवान् गुरुमेकाग्रमग्निवेशोऽग्निवर्चसम् ॥३॥
अग्निमारुततुल्यस्य संसर्गस्यानिलासृजो: ।
हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ॥४॥
लवणाम्लकटुक्षारस्निग्धोष्णा जीर्णभोजनै: ।
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकै: ॥५॥
कुलत्थमाषनिष्पावशाकादिपललेक्षुभि: ।
दध्यारनालसौवीरशुक्ततक्रसुरासवै: ॥६॥
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरै: ।
प्रायश: सुकुमाराणां मिष्टान्नसुखभोजिनाम् ॥७॥
अचङ्क्रमणशीलानां कुप्यते वातशोणितम् ।
अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् ॥८॥
कषायकटुतिक्ताल्परूक्षाहारादभोजनात् ।
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनै: ॥९॥
उष्णे चात्यध्ववैषम्याद्व्यवायाद्वेगनिग्रहात् ।
वायुर्विवृद्धो वृद्धेन रक्तेनावारित: पथि ॥१०॥
कृत्स्नं संदूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ।
खुडं वातबलासाख्यमाढ्यवातं च नामभि: ॥११॥
तस्य स्थानं करौ पादावङ्गुल्य: सर्वसन्धय: ।
कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति ॥१२॥
सौक्ष्म्यात् सर्वसरत्वाच्च पवनस्यासृजस्तथा ।
तद्द्रवत्वात् सरत्वाच्च देहं गच्छन् सिरायनै: ॥१३॥
पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते ।
स्थितं पित्तादिसंसृष्टं तास्ता: सृजति वेदना: ॥१४॥
करोति दु:खं तेष्वेव तस्मात् प्रायेण सन्धिषु ।
भवन्ति वेदनास्तास्ता अत्यर्थं दु:सहा नृणाम् ॥१५॥
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् ।
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गम: ॥१६॥
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ।
निस्तोद: स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ॥१७॥
कण्डू: संधिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् ।
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ॥१८॥
उत्तानमथ गम्भीरं द्विविधं तत् प्रचक्षते ।
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् ॥१९॥
कण्डूदाहरुगायामतोदस्फुरणकुञ्चनै: ।
अन्विता श्यावरक्ता त्वग्बाह्ये ताम्रा तथेष्यते ॥२०॥
गम्भीरे श्वयथु: स्तब्ध: कठिनोऽन्तर्भृशार्तिमान् ।
श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ॥२१॥
रुग्विदाहान्वितोऽभीक्ष्णं वायु: सन्ध्यस्थिमज्जसु ।
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान् ॥२२॥
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन् ।
सर्वैर्लिङ्गैश्च विज्ञेयं वातासृगुभयाश्रयम् ॥२३॥
तत्र वातेऽधिके वा स्याद्रक्ते पित्ते कफेऽपि वा ।
संसृष्टेषु समस्तेषु यच्च तच्छृणु लक्षणम् ॥२४॥
विशेषत: सिरायामशूलस्फुरणतोदनम् ।
शोथस्य कार्ष्ण्यं रोक्ष्यं च श्यावतावृद्धिहानय: ॥२५॥
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् ।
कुञ्चनस्तम्भने शीतप्रद्वेषश्चानिलेऽधिके ॥२६॥
श्वयथुर्भृशरुक् तोदस्ताम्रश्चिमिचिमायते ।
स्निग्धरूक्षै: शमं नैति कण्डूक्लेदान्वितोऽसृजि ॥२७॥
विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रम: ।
राग: पाकश्च भेदश्च शोषश्चोक्तानि पैत्तिके ॥२८॥
स्तैमित्यं गौरवं स्नेह: सुप्तिर्मन्दा च रुक् कफे ।
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वत्रिदोषजम् ॥२९॥
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् ।
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवा: ॥३०॥
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहा: ।
मूर्च्छायमदरुक्तृष्णाज्वरमोहप्रवेपका: ॥३१॥
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमा: ।
अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदा: ॥३२॥
एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत् ।
संप्रस्रावि विवर्णं च स्तब्धमर्बुदकृच्च यत् ॥३३॥
वर्जयेच्चैव संकोचकरमिन्द्रियतापनम् ।
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ॥३४॥
रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुत: ।
निविश्यान्योन्यमावार्य वेदनाभिर्हरेदसून् ॥३५॥
तत्र मुञ्चेदसृक् शृङ्गजलौक:सूच्यलाबुभि: ।
प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम् ॥३६॥
रुग्दाहशूलतोदार्तादसृक् स्राव्यं जलौकसा ।
शृङ्गैस्तुम्बैर्हरेत् सुप्तिकण्डूचिमिचिमायनात् ॥३७॥
देशोद्देशं व्रजत् स्राव्यं सिराभि: प्रच्छनेन वा ।
अङ्गग्लानौ न तु स्राव्यं रूक्षे वातोत्तरे च यत् ॥३८॥
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान् ।
ग्लानिं चापि ससङ्कोचां कुर्याद्वायुरसृक्क्षयात् ॥३९॥
खाञ्ज्यादीन् वातरोगांश्च मृत्युं चात्यवसेचनात् ।
कुर्यात्तस्मात् प्रमाणेन स्निग्धाद्रक्तं विनिर्हरेत् ॥४०॥
विरेच्य: स्नेहयित्वाऽऽदौ स्नेहयुक्तैर्विरेचनै: ।
रूक्षैर्वा मृदुभि: शस्तमसकृद्वस्तिकर्म च ॥४१॥
सेकाभ्यङ्गप्रदेहान्नस्नेहा: प्रायोऽविदाहिन: ।
वातरक्ते प्रशस्यन्ते
विशेषं तु निबोध मे ॥४२॥
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनै: ।
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् ॥४३॥
सर्पिस्तैलवसामज्जापानाभ्यञ्जनबस्तिभि: ।
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ॥४४॥
विरेचनैर्घृतक्षीरपानै: सेकै: सबस्तिभि: ।
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत् ॥४५॥
वमनं मृदु नात्यर्थं स्नेहसेकौ विलङ्घनम् ।
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ॥४६॥
कफवातोत्तरे शीतै: प्रलिप्ते वातशोणिते ।
दाहशोथरुजाकण्डूविवृद्धि: स्तम्भनाद्भवेत् ॥४७॥
रक्तपित्तोत्तरे चोष्णैर्दाह: क्लेदोऽवदारणम् ।
भवेत्तस्माद्भिषग्दोषबलं बुद्ध्वाऽऽचरेत्क्रियाम् ॥४८॥
दिवास्वप्नं ससंतापं व्यायामं मैथुनं तथा ।
कटूष्णं गुर्वभिष्यन्दि लवणाम्लं च वर्जयेत् ॥४९॥
पुराणा यवगोधूमनीवारा: शालिषष्टिका: ।
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिता: ॥५०॥
आढक्यश्चणका मुद्गा मसूरा: समकुष्ठका: ।
यूषार्थं बहुसर्पिष्का: प्रशस्ता वातशोणिते ॥५१॥
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी- ।
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ॥५२॥
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् ।
व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम् ॥५३॥
इति संक्षेपत: प्रोक्तं वातरक्तचिकित्सितम् ।
एतदेव पुन: सर्वं व्यासत: संप्रवक्ष्यते ॥५४॥
श्रावणीक्षीरकाकोलीजीवकर्षभकै: समै:।
सिद्धं समधुकै: सर्पि: सक्षीरं वातरक्तनुत्॥५५॥
बलामतिबलां मेदामात्मगुप्तां शतावरीम् ।
काकोलीं क्षीरकाकोलीं रास्नामृद्धिं च पेषयेत् ॥५६॥
घृतं चतुर्गुणक्षीरं तै: सिद्धं वातरक्तनुत् ।
हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम् ॥५७॥
त्रायन्तिकातामलकीद्विकाकोलीशतावरी- ।
कशेरुकाकषायेण कल्कैरेभि: पचेद्घृतम् ॥५८॥
दत्त्वा परूषकाद्राक्षाकाश्मर्येक्षुरसान् समान् ।
पृथग्विदार्या: स्वरसं तथा क्षीरं चतुर्गुणम् ॥५९॥
एतत् प्रायोगिकं सर्पि: पारूषकमिति स्मृतम् ।
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ॥६०॥
इति पारूषकं घृतम् ।
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम् ।
मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम् ॥६१॥
शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् ।
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ॥६२॥
पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान् ।
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ॥६३॥
कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम् ।
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम् ॥६४॥
नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम् ।
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ॥६५॥
खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा ।
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ॥६६॥
सम्यक् सिद्धं च विज्ञाय सुगुप्तं संनिधापयेत् ।
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसंमितम् ॥६७॥
पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम् ।
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ॥६८॥
क्षतशोषमपस्मारमश्मरीं शर्करां तथा ।
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ॥६९॥
बलवर्णकरं धन्यं वलीपलितनाशनम् ।
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम् ॥७०॥
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् ।
पिबेृद्घृतं तथा क्षीरं गुडूचीस्वरसे शृतम् ॥७१॥
जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम् ।
मधुकं मधुपर्णीं च काकोलीद्वयमेव च ॥७२॥
मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम् ।
बलामृताविदारीश्च साश्वगन्धाश्मभेदका: ॥७३॥
एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत् ।
लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम् ॥७४॥
चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम् ।
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ॥७५॥
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी ।
काश्मर्याण्यात्मगुप्ता च वृश्चीरो द्वे बले तथा ॥७६॥
एषां क्वाथे चतु:क्षीरं पृथक् तैलं पृथग्घृतम् ।
मेदाशतावरीयष्टिजीवन्तीजीवकर्षभै: ॥७७॥
पक्त्वा मात्रा तत: क्षीरत्रिगुणाऽध्यर्धशर्करा ।
खजेन मथिता पेया वातरक्ते त्रिदोषजे ॥७८॥
तैलं पय: शर्करां च पाययेद्वा सुमूर्च्छितम् ।
सर्पिस्तैलसिताक्षौद्रैर्मिश्रं वाऽपि पिबेत् पय: ॥७९॥
अंशुमत्या शृत: प्रस्थ: पयसो द्विसितोपल: ।
पाने प्रशस्यते तद्वत् पिप्पलीनागरै: शृत: ॥८०॥
बलाशतावलीरास्नादशमूलै: सपीलुभि: ।
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पय: ॥८१॥
धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम् ।
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिल: ॥८२॥
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नर: ।
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशन: ॥८३॥
कषायमभयानां वा घृतभृष्टं पिबेन्नर: ।
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ॥८४॥
काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् ।
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम् ॥८५॥
त्रिफलाया: कषायं वा पिबेत् क्षौद्रेण संयुतम् ।
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिक: ॥८६॥
योगैश्च कल्पविहितैरसकृत्तं विरेचयेत् ।
मृदुभि: स्नेहसंयुक्तैर्ज्ञात्वा वातं मलावृतम् ॥८७॥
निर्हरेद्वा मलं तस्य सघृतै: क्षीरबस्तिभि: ।
न हि बस्तिसमं किंचिद्वातरक्तचिकित्सितम् ॥८८॥
बस्तिवंक्षणपार्श्वोरुपर्वास्थिजठरार्तिषु ।
उदावर्ते च शस्यन्ते निरूहा: सानुवासना: ॥८९॥
दद्यात्तैलानि चेमानि बस्तिकर्मणि बुद्धिमान् ।
नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये ॥९०॥
मधुयष्ट्यास्तुलायास्तु कषाये पादशेषिते ।
तैलाढकं समक्षीरं पचेत् कल्कै: पलोन्मितै: ॥९१॥
शतपुष्पावरीमूर्वापयस्यागुरुचन्दनै: ।
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभि: ॥९२॥
काकोलीक्षीरकाकोलीतामलक्यृद्धिपद्मकै: ।
जीवकर्षभजीवन्तीत्वक्पत्रनखवालकै: ॥९३॥
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकै: ।
चतुष्प्रयोगात्तद्धन्ति तैलं मारुतशोणितम् ॥९४॥
सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा ।
वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत् ॥९५॥
इति मधुपर्ण्यादितैलम् ।
मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम् ।
मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकस्य च ॥९६॥
काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम् ।
शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ॥९७॥
तथाऽऽमलककाश्मर्यविदारीक्षुरसै: समै: ।
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ॥९८॥
कदम्बामलकाक्षोटपद्मबीजकशेरुकम् ।
शृङ्गाटकं शृङ्गवेरं लवणं पिप्पलीं सिताम् ॥९९।
जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत् ।
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत् ॥१००॥
वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे ।
सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे ॥१०१॥
सुकुमारकमित्येतद्वातास्रामयनाशनम् ।
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम् ॥१०२॥
इति सुकुमारकतैलम् ।
गुडूचीं मधुकं ह्रस्वं पञ्चमूलं पुनर्नवाम् ।
रास्नामेरण्डमूलं च जीवनीयानि लाभत: ॥१०३॥
पलानां शतकैर्भागैर्बलापञ्चशतं तथा ।
कोलबिल्वयवान्माषान्कुलत्थांश्चाढकोन्मितान् ॥१०४॥
काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि ।
साधयेज्जर्जरं धौतं चतुर्द्रोणं च शेषयेत् ॥१०५॥
तैलद्रोणं पचेत्तेन दत्त्वा पञ्चगुणं पय: ।
पिष्ट्वा त्रिपलिकं चैव चन्दनोशीरकेशरम् ॥१०६॥
पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम् ।
मञ्जिष्ठाष्टपलं चैव तत् सिद्धं सार्वयौगिकम् ॥१०७॥
वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि ।
वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम् ॥१०८॥
योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम् ।
हन्यात् प्रसवनं चैतत्तैलाग्र्यममृताह्वयम् ॥१०९॥
इत्यमृताद्यं तैलम् ।
पद्मवेतसयष्ट्याह्वफेनिलापद्मकोत्पलै: ।
पृथक्पञ्चपलैर्दर्भबलाचन्दनकिंशुकै: ॥११०॥
जले शृतै: पचेत्तैलप्रस्थं सौवीरसंमितम् ।
लोध्रकालीयकोशीरजीवकर्षभकेशरै: ॥१११॥
मदयन्तीलतापत्रपद्मकेशरपद्मकै: ।
प्रपौण्डरीककाश्मर्यमांसीमेदाप्रियङ्गुभि: ॥११२॥
कुङ्कुमस्य पलार्धेन मञ्जिष्ठाया: पलेन च ।
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् ॥११३॥
इति महापद्मं तैलम् ।
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् ।
स्यात् पिष्टै: सर्जमञ्जिष्ठावीराकाकोलिचन्दनै: ॥११४॥
खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत् ।
इति खुड्डाकपद्मकं तैलम् ।
शतेन यष्टिमधुकात् साध्यं दशगुणं पय: ॥११५॥
तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु ।
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् ॥११६॥
मधुपर्ण्या: पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे ।
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते ॥११७॥
सिद्धं देयं त्रिदोषे स्याद्वातास्रे श्वासकासनुत् ।
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ॥११८॥
इति शतपाकं मधुकतैलम् ।
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत् ।
सहस्रं शतवारं वा वातासृग्वातरोगनुत् ॥११९॥
रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम् ।
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् ॥१२०॥
इति सहस्रपाकं शतपाकं वा बलातैलम् ।
गुडूचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा ।
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् ॥१२१॥
आरनालाढके तैलं पादसर्जरसं शृतम् ।
प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम् ॥१२२॥
समधूच्छिष्ठमाञ्जिष्ठं ससर्जरससारिवम् ।
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम् ॥१२३॥
इति पिण्डतैलम् ।
दशमूलशृतं क्षीरं सद्य: शूलनिवारणम् ।
परिषेकोऽनिलप्राये तद्वत् कोष्णेन सर्पिषा ॥१२४॥
स्नेहैर्मधुरसिद्धैर्वा चतुर्भि: परिषेचयेत् ।
स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलै: ॥१२५॥
तद्वद्गव्याविकच्छागै: क्षीरैस्तैलविमिश्रितै: ।
क्वाथैर्वा जीवनीयानां पञ्चमूलस्य वा भिषक् ॥१२६॥
द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम् ।
सेकार्थे तण्डुलक्षौद्रशर्कराम्बु च शस्यते ॥१२७॥
कुमुदोत्पलपद्माद्यैर्मणिहारै: सचन्दनै: ।
शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम् ॥१२८॥
चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे ।
शयने पुलिनस्पर्शशीतमारुतवीजिते ॥१२९॥
चन्दनार्द्रस्तनकरा: प्रिया नार्य: प्रियंवदा: ।
स्पर्शशीता: सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥१३०॥
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् ।
मधुकाश्वत्थत्वङ्मांसीवीरोदुम्बरशाद्वलै: ॥१३१॥
जलजैर्यवचूर्णैर्वा सयष्ट्याह्वपयोघृतै: ।
सर्पिषा जीवनीयैर्वा पिष्टैर्लेपोऽर्तिदाहनुत् ॥१३२॥
तिला: प्रियालो मधुकं बिसं मूलं च वेतसात् ।
आजेन पयसा पिष्ट: प्रलेपो दाहरागनुत् ॥१३३॥
प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनै: ।
सितोपलैरकासक्तुमसूरोशीरपद्मकै: ॥१३४॥
लेपो रुग्दाहवीसर्परागशोफनिवारण: ।
पित्तरक्तोत्तरे त्वेते, लेपान् वातोत्तरे शृणु ॥१३५॥
वातघ्नै: साधित: स्निग्ध: सक्षीरमुद्गपायस: ।
तिलसर्षपपिण्डैर्वाऽप्युपनाहो रुजापह: ॥१३६॥
औदकप्रसहानूपवेशवारा: सुसंस्कृता: ।
जीवनीयौषधै: स्नेहयुक्ता: स्युरुपनाहने ॥१३७॥
स्तम्भतोदरुगायामशोथाङ्गग्रहनाशना: ।
जीवनीयौषधै: सिद्धा सपयस्का वसाऽपि वा ॥१३८॥
घृतं सहचरान्मूलं जीवन्ती च्छागलं पय: ।
लेप: पिष्टास्तिलास्तद्वद्भृष्टा: पयसि निर्वृता: ॥१३९॥
क्षीरपिष्टमुमालेपरेरण्डस्य फलानि च ।
कुर्याच्छूलनिवृत्त्यर्थं शताह्वामनिलेऽधिके ॥१४०॥
समूलाग्रच्छदैरण्डक्वाथे द्विप्रास्थिकं पृथक् ।
घृतं तैलं मज्जा चानूपमृगपक्षिणाम् ॥१४१॥
कल्कार्थे जीवनीयानि गव्यं क्षीरमथाजकम् ।
हरिद्रोत्पलकुष्ठैलाशताह्वाश्वहनच्छदान् ॥१४२॥
बिल्वमात्रान् पृथक् पुष्पं काकुभं चापि साधयेत् ।
मधूच्छिष्टपलान्यष्टौ दद्याच्छीतेऽवतारिते ॥१४३॥
शूलेनैषोऽर्दिताङ्गानां लेप: सन्धिगतेऽनिले ।
वातरक्ते च्युते भग्ने खञ्जे कुब्जे च शस्यते ॥१४४॥
शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्मिन् कफोत्तरे ।
मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम् ॥१४५॥
पद्मकं त्वक् समधुकं सारिवा चेति तैर्घृतम् ।
सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गे कफोत्तरे ॥१४६॥
क्षारस्तैलं गवां मूत्रं जलं च कटुकै: शृतम् ।
परिषेके प्रशंसन्ति वातरक्ते कफोत्तरे ॥१४७॥
लेप: सर्षपनिम्बार्कहिंस्राक्षीरतिलैर्हित: ।
श्रेष्ठ: सिद्ध: कपित्थत्वग्घृतक्षीरै: ससक्तुभि: ॥१४८॥
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम् ।
प्रलेप: शूलनुद्वातरक्ते वातकफोत्तरे ॥१४९॥
तगरं त्वक् शताह्वैला कुष्ठं मुस्तं हरेणुका ।
दारु व्याघ्रनखं चाम्लपिष्टं वातकफास्रनुत् ॥१५०॥
मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम् ।
मुहूर्तं लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरम् ॥१५१॥
त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम् ।
विडङ्गं पिप्पलीमूलं रोमशं वृषकत्वचम् ॥१५२॥
ऋद्धिं तामलकीं चव्यं समभागानि पेषयेत् ।
कल्यं लिप्तमयस्पात्रे मध्याह्ने भक्षयेत्तत: ॥१५३॥
वर्जयेद्दधिशुक्तानि क्षारं वैरोधिकानि च ।
वातास्रे सर्वदोषेऽपि हितं शूलार्दिते परम् ॥१५४॥
बुद्ध्वा स्थानविशेषांश्च दोषाणां च बलाबलम् ।
चिकित्सितमिदं कुर्यादूहापोहविकल्पवित् ॥१५५॥
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा ।
अतिवृद्ध्याऽनिले नादौ शस्तं स्नेहनबृंहणम् ॥१५६॥
व्यायामशोधनारिष्टमूत्रपानैर्विरेचनै: ।
तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी ॥१५७॥
बोधिवृक्षकषायं तु प्रपिबेन्मधुना सह ।
वातरक्तं जयत्याशु त्रिदोषमपि दारुणम् ॥१५८॥
पुराणयवगोधूमसीध्वरिष्टसुरासवै: ।
शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य च ॥१५९॥
गम्भीरे रक्तमाक्रान्तं स्याच्चेत्तद्वातवज्जयेत् ।
पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम् ॥१६०॥
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति ।
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा ॥१६१॥
तयो: क्रिया विधातव्या भेदशोधनरोपणै: ।
कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात् ॥१६२॥
तत्र श्लोका:–
हेतु: स्थानानि मूलं च यस्मात् प्रायेण सन्धिषु ।
कुप्यति प्राक् च यद्रूपं द्विविधस्य च लक्षणम् ॥१६३॥
पृथग्भिन्नस्य लिङ्गं च दोषाधिक्यमुपद्रवा: ।
साध्यं याप्यमसाध्यं च क्रिया साध्यस्य चाखिला ॥१६४॥
वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा ।
महर्षिणाऽग्निवेशाय तथैवावस्थिकी क्रिया ॥१६५॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते चिकित्सितस्थाने वातशोणितचिकित्सितं नामैकोनत्रिंशोऽध्याय: ॥२९॥
Last updated on July 1st, 2021 at 09:40 am