विषय सूची पर जायें

13. स्नेहाध्याय - सूत्र - च.

त्रयोदशोऽध्यायः ।

अथातः स्नेहाध्यायं व्याख्यास्यामः ॥३॥

इति ह स्माह भगवानात्रेयः ॥२॥

सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम्‌ ।

जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्‌ ॥३॥

किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्‌ ।

कालानुपाने के कस्य कति काश्च विचारणाः ॥४॥

कति मात्राः कथंमानाः का च केषूपदिश्यते ।

कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः ॥५॥

स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्‌ ।

किं पानात्‌ प्रथमं पीते जीर्णे किञ्च हिताहितम्‌ ॥६॥

के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः ।

अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते ॥७॥

विचारणाः केषु योज्या विधिना केन तत्‌ प्रभो !।

स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्‌ ॥८॥

अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः ।

स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा ॥९॥

तिलः प्रियालाभिषुकौ बिभीतक-

श्चित्राभयैरण्डमधूकसर्षपाः ।

कुसुम्भबिल्वारुकमूलकातसी-

निकोचकाक्षोडकरञ्जशिग्रुकाः ॥१०॥

स्नेहाशयाः स्थावरसंज्ञितास्तथा

स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः ।

तेषां दधिक्षीरघृतामिषं वसा

स्नेहेषु मज्जा च तथोपदिश्यते ॥११॥

सर्वेषां तैलजातानां तिलतैलं विशिष्यते ।

बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने ॥१२॥

 (कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु ।

कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ॥१॥)

सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः ।

एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्‌ ॥१३॥

घृतं पित्तानिलहरं रसशुक्रौजसां हितम्‌ ।

निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्‌ ॥१४॥

मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनं ।

त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्‌ ॥१५॥

विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि ।

पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा ॥१६॥

बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः ।

मज्जा विशेषतोऽस्थ्नां च बलकृत्‌ स्नेहने हितः ॥१७॥

सर्पिः शरदि पातव्यं वसा मज्जा च माधवे ।

तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः ॥१८॥

वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः ।

श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे ॥१९॥

अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा ।

मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्‌ ॥२०॥

शीते रात्रौ पिबन्‌ स्नेहं नरः श्लेष्माधिकोऽपि वा ।

आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति ॥२१॥

जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते ।

वसामज्ज्ञोस्तु मण्डः स्यात्‌ सर्वेषूष्णमथाम्बु वा ॥२२॥

ओदनश्च विलेपी च रसो मांसं पयो दधि ।

यवागूः सूपशाकौ च यूषः काम्बलिकः खडः ॥२३॥

 सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च ।

भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः ॥२४॥

गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्‌ ।

चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ॥२५॥

अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्‌ ।

स्नेहस्य स भिषग्दृष्टः कल्पः प्राथमकल्पिकः ॥२६॥

रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः।

षड्भिस्त्रिषष्टिधा संख्यां प्राप्नोत्येकश्च केवलः ॥२७॥

एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा ।

ओकर्तुव्याधिपुरुषान्‌ प्रयोज्या जानता भवेत्‌ ॥२८॥

अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते ।

प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति ॥२९॥

इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः ।

तासां प्रयोगान्‌ वक्ष्यामि पुरुषं पुरुषं प्रति ॥३०॥

प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः ।

पावकश्चोत्तमबलो येषां ये चोत्तमा बले ॥३१॥

गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये ।

उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ॥३२॥

पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु ।

विकाराञ्छमयत्येषा शीघ्रं सम्यक्प्रयोजिता ॥३३॥

दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी ।

बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्‌ ॥३४॥

अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः ।

कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ॥३५॥

नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च ।

पिबेयुर्मध्यमां मात्रां मध्यमाश्चपि ये बले ॥३६॥

मात्रैषा मन्दविभ्रंशा न चाति बलहारिणी ।

सुखेन च स्नेहयति शोधनार्थे च युज्यते ॥३७॥

ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः ।

रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये ॥३८॥

ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः ।

स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले ॥३९॥

परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी ।

वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते ॥४०॥

वातपित्तप्रकृतयो वातपित्तविकारिणः ।

चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ॥४१॥

आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः ।

पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ॥४२॥

दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः ।

पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः ॥४३॥

प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः ।

वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ॥४४॥

बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम्‌ ।

स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्‌क्षन्ति देहिनः ॥४५॥

कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः ।

पिबेयुः शीतले काले तैलं तैलोचिताश्च ये ॥४६॥

वातातपसहा ये च रूक्षा भाराध्वकर्शिताः ।

संशुष्करेतोरुधिरा निष्पीतकफमेदसः ॥४७॥

अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः ।

बलवान्मारुतो येषां खानि चावृत्य तिष्ठति ॥४८॥

महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः ।

तेषां स्नेहयितव्यानां वसापानं विधीयते ॥४९॥

दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः ।

वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः ॥५०॥

येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः ।

स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ ॥५१॥

स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः ।

व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः ॥५२॥

संशोधनादृते येषां रूक्षणं संप्रवक्ष्यते ।

न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्‌ ॥५३॥

अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये ।

तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः ॥५४॥

अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः ।

दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः ॥५५॥

न स्नेह्या वर्तमानेषु न नस्तोबस्तिकर्मसु ।

स्नेहपानात्‌ प्रजायन्ते तेषां रोगाः सुदारुणाः ॥५६॥

पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः ।

पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्‌ ॥५७॥

वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्‌ ।

मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते ॥५८॥

पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता ।

तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्‌ ॥५९॥

द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः ।

नातिस्निग्धमसंकीर्णं श्वः स्नेहं पातुमिच्छता ॥६०॥

पिबेत्‌ संशमनं स्नेहमन्नकाले प्रकांक्षितः ।

शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः ॥६१॥

उष्णोदकोपचारी स्याद्‌ब्रह्मचारी क्षपाशयः ।

शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत्‌ ॥६२॥

व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ ।

वर्जयेदप्रवातं च सेवेत शयनासनम्‌ ॥६३॥

स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च ।

स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ॥६४॥

मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया ।

स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः ॥६५॥

गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि ।

पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्‌ ॥६६॥

द्राक्षारसं पीलुरसं जलमुष्णमथापि वा ।

मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते ॥६७॥

विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन ।

भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला ॥६८॥

उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता ।

मृदुकोष्ठस्य तस्मात्‌ स सुविरेच्यो नरः स्मृतः ॥६९॥

उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्‌ ।

भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा ॥७०॥

स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन्‌ बली ।

स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्‌  ॥७१॥

नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि ।

स चेत्‌ सुशीतं सलिलं नासादयति दह्यते ।

यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना ॥७२॥

अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्‌ ।

शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्‌ ॥७३॥

न सर्पिः केवलं पित्ते पेयं सामे विशेषतः ।

सर्वं ह्यनुरजेद्देहं हत्वा संज्ञां च मारयेत्‌ ॥७४॥

तन्द्रा सोत्क्लेश आनाहो ज्वरः स्तम्भो विसंज्ञता ।

कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा ॥७५॥

जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः ।

शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्‌ ॥७६॥

तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्‌ ।

प्रति प्रति व्याधिबलं बुद्‌ध्वा स्रंसनमेव च ॥७७॥

तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्‌ ।

मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्‌ ॥७८॥

अकाले चाहितश्चैव मात्रया न च योजितः ।

स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः ॥७९॥

स्नेहात्‌ प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्‌ ।

स्नेहवद्‌द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्‌ ॥८०॥

एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्‌ ।

स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्‌ ॥८१॥

स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः ।

क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा ॥८२॥

लावतैत्तिरमायूरहांसवाराहकौक्कुटाः ।

गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहेने हिताः ॥८३॥

यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः ।

दाडिमं दधि सव्योषं रससंयोगसंग्रहः ॥८४॥

स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः ।

कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा ॥८५॥

फाणितं शृङ्गवेरं च तैलं च सुरया सह ।

पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्‌ ॥८६॥

तैलं सुराया मण्डेन वसां मज्जानमेव वा ।

पिबन्‌ सफाणितं क्षीरं नरः स्निह्यति वातिकः ॥८७॥

धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करः पयः ।

नरः स्निह्यति पीत्वा वा सरं दध्नः  सफाणितम्‌ ॥८८॥

पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः ।

क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्‌ ॥८९॥

सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता।

पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ॥९०॥

 (शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः ।

पीतो द्विर्वासरे यत्नात्‌ स्नेहयेदचिरान्नरम्‌ ॥१॥)

ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्‌ ।

कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्‌ ॥९१॥

स्नेहैर्यथार्हं तान्‌ सिद्धैः स्नेहयेदविकारिभिः ।

पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा ॥९२॥

द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्‌ ।

व्योषगर्भं भिषक्‌ स्नेहं पीत्वा स्निह्यति तं नरः ॥९३॥

यवकोलकुलत्थानां रसाः क्षारः सुरा दधि ।

क्षीरसर्पिश्च तत्‌ सिद्धं स्नेहनीयं घृतोत्तमम्‌ ॥९४॥

तैलमज्जवसासर्पिर्बदरत्रिफलारसैः ।

योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्‌ ॥९५॥

गृह्णात्यम्बु यथा वस्त्रं प्रस्रवत्यधिकं यथा ।

यथाग्नि जीर्यति स्नेहस्तथा स्त्रवति चाधिकः ॥९६॥

यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्‌ ।

स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः ॥९७॥

लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्‌ ।

तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च ॥९८॥

स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्‌ ।

स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत्‌ ॥९९॥

तत्र श्लोकः –

स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः  सभेषजा ।

यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना ॥१००॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने

स्नेहाध्यायो नाम त्रयोदशोऽध्यायः ॥१३॥

Last updated on May 28th, 2021 at 10:32 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi