विषय सूची पर जायें

01. दीर्घञ्जीवितीय - सूत्र - च. .

चरक संहिता

सूत्रस्थानम्‌ ।

प्रथमोऽध्यायः ।

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

 दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्‌ ।

इन्द्रमुग्रतपा बुद्‌ध्वा शरण्यममरेश्वरम्‌ ॥३॥

ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः ।

जग्राह निखिलेनादावश्विनौ तु पुनस्ततः ॥४॥

अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्‌॥

ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्‌ ॥५॥

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्‌ ।

तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम्‌ ॥६॥

तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः ।

समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ॥७॥

अङ्गिरा जमदगिन्श्च वसिष्ठः कश्यपो भृगुः।

आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः ॥८॥

अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ ।

पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः ॥९॥

विश्वामित्राश्मरथ्यौ च भार्गवयवनोऽभिजित्‌ ।

गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ॥१०॥

साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः ।

बडिशः शरलोमा च काप्यकात्यायनावुभौ ॥११॥

काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ ।

शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ॥१२॥

शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः ।

वैखानसा वालखिल्यास्तथा चान्ये महर्षयः ॥१३॥

ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च ।

तपसस्तेजसा दीप्ता हूयमाना इवाग्नय: ॥१४॥

सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्‌ ।

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्‌ ॥१५॥

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ।

प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्‌ ॥१६॥

कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः ।

अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा ॥१७॥

स वक्ष्यति शमोपायं यथावदमरप्रभुः ।

कः सहस्त्राक्षभवनं गच्छेत्‌ प्रष्टुं शचीपतिम्‌ ॥१८॥

अहमर्थे नियुज्येयमत्रेति प्रथमं वचः ।

भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः ॥१९॥

स शक्रभवनं गत्वा सुरर्षिगणमध्यगम्‌ ।

ददर्श बलहन्तारं दीप्यमानमिवानलम्‌ ॥२०॥

सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्‌।

प्रोवाच विनयाध्दीमानृषीणां वाक्यमुत्तमम्‌ ॥२१॥

व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः ।

तद्‌ब्रूहि मे शमोपायं यथावदमरप्रभो ॥२२॥

तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः ।

पदैरल्पैर्मतिं बुद्‌ध्वा विपुलां परमर्षये ॥२३॥

हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्‌ ।

त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ॥२४॥

सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः ।

यथावदचिरात्‌ सर्वं बुबुधे तन्मना मुनिः ॥२५॥

तेनायुरमितं लेभे भरद्वाजः सुखान्वितम्‌ ।

ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन्‌ ॥२६॥

ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्‌ ।

दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः ॥२७॥

महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा ।

सामान्यं च विशेषं च गुणान्‌ द्रव्याणि कर्म च ॥२८॥

समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः ।

लेभिरे परमं शर्म जीवितं चाप्यनित्वरम्‌ ॥२९॥

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः ।

शिष्येभ्यो दत्तवान्‌ षड्‌भ्यः सर्वभूतानुकम्पया ॥३०॥

अगिन्वेशश्च भेल(ड) श्च जतूकर्णः पराशरः ।

हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥३१॥

बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः ।

तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्‌ ।३२॥

अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ।

श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः ॥३३॥

श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्‌ ।

यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे ॥३४॥

सर्व एवास्तुवंस्ताश्चं सर्वभूतहितैषिणः ।

साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन्‌ समम्‌ ॥३५॥

तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः ।

सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्‌ ॥३६॥

अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्‌ ।

नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः ॥३७॥

शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः ।

निपेतुः सजलाश्चव दिव्याः कुसुमवृष्टयः ॥३८॥

अथाग्निवेशप्रमुखान्‌ विविशुर्ज्ञानदेवताः ।

बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया॥३९॥

तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः ।

भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे ॥४०॥

हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्‌ ।

मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते ॥४१॥

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्‌ ।

नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते ॥४२॥

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः।

वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम्‌ ॥४३॥

 सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम्‌ ।

ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु ॥४४॥

सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्‌ ।

तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः ॥४५॥

सत्त्वमात्मा शरीरं च त्रयमेतत्रिदण्डवत्‌ ।

लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्‌ ॥४६॥

स पुमाश्चेतनं तच्च तच्चाधिकरणं स्मृतम्‌ ।

वेदस्यास्य, तदर्थं हि वेदोऽयं संप्रकाशितः ॥४७॥

खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः ।

सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्‌ ॥४८॥

सार्था गुर्वादयो बुध्दिः प्रयत्नान्ताः परादयः ।

गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ॥४९॥

समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः ।

स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः ॥५०॥

यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्‌ ।

तद्‌द्रव्यं समवायी तु निश्चेष्टः कारणं गुणः ॥५१॥

संयोगे च विभागे च कारणं द्रव्यमाश्रितम्‌ ।

कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥५२॥

इत्युक्तं कारणं, कार्यं धातुसाम्यमिहोच्यते ।

धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्‌ ॥५३॥

कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च ।

द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः ॥५४॥

शरीरं सत्त्वसंज्ञं च व्याधीनामाश्रयो मतः ।

तथा सुखानां, योगस्तु सुखानां कारणं समः ॥५५॥

निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः ।

चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः ॥५६॥

वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः ।

मानसः पुनरुद्दिष्टो रजश्च तम एव च ॥५७॥

प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।

मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ॥५८॥

रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः ।

विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ॥५९॥

सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु ।

विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥६०॥

गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः ।

श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ॥६१॥

विपरीतगुणैर्देशमात्राकालोपपादितैः ।

भैषजैर्विनिवर्तन्ते विकाराः साध्यसंमताः ॥६२॥

साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते ।

भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते ॥६३॥

रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा ।

निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥६४॥

स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च ।

कषायश्चेति षट्‌कोऽयं रसानां संग्रहः स्मृतः ॥६५॥

स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः ।

जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः॥६६॥

(कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्‌ ।

कटुतिक्तकषायाश्च कोपयन्ति समीरणम्‌ ॥ १ )

किंचिद्दोषप्रशमनं  किंचिद्धातुप्रदूषणम्‌ ॥

स्वस्थवृत्तौ मतं किंचित्‌ त्रिविधं द्रव्यमुच्यते ॥६७॥

तत्‌ पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम्‌ ।

मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्‌ ॥६८॥

विण्मूत्रचर्मरेतोस्थिस्नायुशृङ्गनखाः खुराः ।

जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः ॥६९॥

सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा ।

मनःशिलाले मणयो लवणं गैरिकाञ्जने ॥७०॥

भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम्‌ ।

वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः ॥७१॥

फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि ।

ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः ॥७२॥

मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः ।

क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः ॥७३॥

पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः ।

मूलिन्यः षोडशैकोना फलिन्यो विंशतिः स्मृताः ॥७४॥

महास्नेहाश्च चत्वारः पञ्चैव लवणानि च ।

अष्टौ मूत्राणि संख्यातान्यष्टावेव पयांसि च ॥७५॥

शोधनार्थाश्च षड्‌ वृक्षाः पुनर्वसुनिदर्शिताः ।

य एतान्‌ वेत्ति संयोक्तुं विकारेषु स वेदवित्‌ ॥७६॥

हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा ।

सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि ॥७७॥

ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका ।

अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी ॥७८॥

शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि ।

श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने ॥७९॥

एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने ।

इत्युक्ता नामकर्मभ्यां मूलिन्यः, फलिनीः शृणु ॥८०॥

शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च ।

धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्‌।

आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्‌ ॥८१॥

प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया ।

अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च शारदम्‌ ॥८२॥

कम्पिल्लकारग्वधयोः फलं यत्‌ कुटजस्य च ।

धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्‌ ॥८३॥

मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी ।

एतानि वमने चैव योज्यान्यास्थापनेषु च ॥८४॥

नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते ।

दश यान्यवशिष्टानि तान्युक्तानि विरेचने ॥८५॥

नामकर्मभिरुक्तानि फलान्येकोनविंशतिः ।

सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः ॥८६॥

पानाभ्यञ्जनबस्त्यर्थं नस्यार्थं चैव योगतः ।

स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः ॥८७॥

स्नेहा ह्येते च विहिता वातपित्तकफापहाः ।

सौवर्चलं सैन्धवं च विडमौद्भिदमेव च ॥८८॥

 सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च ।

स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च ॥८९॥

आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा ।

अधोभागोर्ध्वभागेषु निरुहेष्वनुवासने ॥९०॥

अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने ।

शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च ॥९१॥

अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे ।

उक्तानि लवणा(नि)न्यू(ऊ)र्ध्वं मूत्राण्यष्टौ निबोध मे ॥९२॥

 मुख्यानि यानि दिष्टानि सर्वाण्यात्रेयशासने ।

अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत्‌ ॥९३॥

हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च ।

उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम्‌ ॥९४॥

मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च ।

युक्तमास्थापने मूत्रं युक्तं चापि विरेचने ॥९५॥

स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च ।

उदरेष्वथ चार्शःसु गुल्मिकुष्ठिकिलासिषु ॥९६॥

तद्युक्तमुपनाहेषु परिषेके तथैव च ।

दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते ॥९७॥

पाण्डुरोगोपसृष्टानामुत्तमं शर्म चोच्यते ।

श्लेष्माणं शमयेत्‌ पीतं मारुतं चानुलोमयेत्‌ ॥९८॥

कर्षेत्‌ पित्तमधोभागमित्यस्मिन्‌ गुणसंग्रहः ।

सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते ॥९९॥

अविमूत्रं सतिक्तं स्यात्‌ स्निग्धं पित्ताविरोधि च ।

आजं कषायमधुरं पथ्यं दोषान्निहन्ति च ॥१००॥

गव्यं समधुरं किंचिद्दोषघ्ने क्रिमिकुष्ठनुत्‌ ।

कण्डूं च शमयेत्‌ पीतं सम्यग्दोषोदरे हितम्‌ ॥१०१॥

अर्शःशोफोदरघ्नं तु सक्षारं माहिषं सरम्‌ ।

हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्‌ ॥१०२॥

प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्‌ ।

सतिक्तं श्वास कासघ्नमर्शोघ्नं चौष्ट्रमुच्यते ॥१०३॥

वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्‌ ।

खरमूत्रमपस्मारोन्मादग्रहविनाशनम्‌ ॥१०४॥

इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः ।

अतः क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये ॥१०५॥

अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत्‌ ।

उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा ॥१०६॥

प्रायशो मधुरं स्निधं शीतं स्तन्यं पयो मतम्‌ ।

प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्‌ ॥१०७॥

जीवनीयं श्रमहरं श्वासकासनिबर्हणम्‌ ।

हन्ति शोणितपित्तं च सन्धानं विहतस्य च ॥१०८॥

 सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा ।

तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च ॥१०९॥

पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे ।

अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः ॥११०॥

योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु च ।

पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्‌ ॥१११॥

नस्यालेपावगाहेषु वमनास्थापनेषु च ।

विरेचने स्नेहने च पयः सर्वत्र युज्यते ॥११२॥

यथाक्रमं क्षीरगुणानेकैकस्य पृथक्‌ पृथक्‌ ।

अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः ॥११३॥

अथापरे त्रयो वृक्षाः पृथग्ये फलमूलिभिः ।

स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक्‌ पृथक्‌ ॥११४॥

वमनेऽश्मन्तकं विद्यात्‌ स्नुहीक्षीरं विरेचने ।

क्षीरमर्कस्य विज्ञेयं वमने सविरेचने ॥११५॥

इमांस्त्रीनपरान्‌ वृक्षानाहुर्येषां हितास्त्वचः ।

पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः ॥११६॥

विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा ।

कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते ॥११७॥

दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च ।

षड्‌वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः ॥११८॥

इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च ।

मूत्रं क्षीराणि वृक्षाश्च षड्‌ ये दिष्टपयस्त्वचः ॥११९॥

ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने ।

अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥१२०॥

न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः ।

ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति ॥१२१॥

योगवित्त्वप्यरूपज्ञस्तासां तत्त्वविदुच्यते ।

किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्‌ ॥१२२॥

योगमासां तु यो विद्याद्देशकालोपपादितम्‌ ।

पुरुषं पुरुषं वीक्ष्य स ज्ञेयो भिषगुत्तमः ॥१२३॥

 यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा ।

तथौषधमविज्ञातं विज्ञातममृतं यथा ॥१२४॥

औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः ।

विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते ॥१२५॥

योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्‌ ।

भेषजं चापि दुर्युक्तं तीक्ष्णं संपद्यते विषम्‌ ॥१२६॥

तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्‌ ।

धीमता किंचिदादेयं जीवितारोग्यकाङि्‌क्षणा ॥१२७॥

कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः ।

सशेषमातुरं कुर्यान्नत्वज्ञमतमौषधम्‌ ॥१२८॥

दुःखिताय शयानाय श्रद्दधानाय रोगिणे ।

यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति ॥१२९॥

त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः ।

नरो नरकपाती स्यात्तस्य संभाषणादपि ॥१३०॥

वरमाशीविषविषं क्वथितं ताम्रमेव वा ।

पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः ॥१३१॥

नतु श्रुतवतां वेशं बिभ्रता शरणागतात्‌ ।

गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात्‌ ॥१३२॥

भिषग्बुभूषुर्मतिमानतः स्वगुणसम्पदि ।

परं प्रयत्नमातिष्ठेत्‌ प्राणदः स्याद्यथा नृणाम्‌ ॥१३३॥

तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।

स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्‌ ॥१३४॥

सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्‌ ।

सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम्‌ ॥१३५॥

तत्र श्लोकाः-

आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्‌ ।

सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः ॥१३६॥

संपूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्‌ ।

हेतवश्चैव दोषाश्च भेषजं संग्रहेण च ॥१३७॥

रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसंग्रहः ।

मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च ॥१३८॥

मूत्रं क्षीराणि वृक्षाश्च षड्‌ ये क्षीरत्वगाश्रयाः ।

कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः ॥१३९॥

वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः ।

सर्वमेतत्‌ समाख्यातं पूर्वाध्याये महर्षिणा ॥१४०॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः ॥१॥

Last updated on May 27th, 2021 at 07:22 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi