चरकसंहिता
शारीरस्थानम् ।
तृतीयोध्याय: ।
अथात: खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
पुरुषस्यानुपहतरेतस: स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्ग: ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गे शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसंप्रयोगात्तदा गर्भोऽभिनिर्वर्तते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाण:, तत: प्राप्तकाल: सर्वेन्द्रियोपपन्न: परिपूर्णशरीरो बलवर्णसत्त्वसंहननसंपदुपेत: सुखेन जायते समुदयादेषां भावानां– मातृजश्चायं गर्भ: पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेय:॥३॥
नेति भरद्वाज: किं कारणं–न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न च परलोकादेत्य गर्भं सत्त्वमवक्रामति ॥(१)॥
यदि हि मातापितरौ गर्भं जनयेतां, भूयस्य: स्त्रिय: पुमांसश्च भूयांस: पुत्रकामा:, ते सर्वे पुत्रजन्माभिसन्धाय मैथुनधर्ममापद्यमाना: पुत्रानेव जनयेयुर्दुहितॄर्वा दुहितृकामा:, न तु काश्चित् स्त्रिय: केचिद्वा पुरुषा निरपत्या: स्युरपत्यकामा वा परिदेवेरन् ॥(२)॥
न चात्माऽऽत्मानं जनयन्ति । यदि ह्यात्माऽऽत्मानं जनयेज्जातो वा जनयेदात्मानमजातो वा, तच्चोभयथाऽप्ययुक्तम् । न हि जातो जनयति सत्त्वात्, न चाजातो जनयत्यसत्त्वात्, तस्मादुभयथाऽप्यनुपपत्ति: । तिष्ठतु तावदेतत् । यद्ययमात्माऽऽत्मानं शक्तो जनयितुं स्यात्, न त्वेनमिष्टास्वेव कथं योनिषु जनयेद्वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलजववर्णसत्त्वसंहननसमुदितमजरमरुजममरम्, एवंविधं ह्यात्माऽऽत्मानमिच्छत्यतो वा भूय: ॥(३)॥
असात्म्यजश्चायं गर्भ:। यदि हि सात्म्यज: स्यात्, तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात्, असात्म्यसेविनश्च निखिलेनानपत्या: स्यु, तच्चोभयमुभयत्रैव दृश्यते ॥(४)॥
अरसजश्चायं गर्भ: । यदि हि रसज: स्यात्, न केचित् स्त्रीपुरुषेष्वनपत्या: स्यु: न हि कश्चिदस्त्येषां यो रसान्नोपयुङ्क्ते , श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्त इत्यभिप्रेतमिति, एवं सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेक्षुरसमुद्गशालिभृतानामेवैकान्तेन प्रजा स्यात्, श्यामाकवरकोद्दालककोरदूषकन्दमूलभक्षाश्च निखिलेनानपत्या: स्यु:, तच्चोभयमुभयत्र दृश्यते ॥(५)॥
न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति, यदि ह्येनमवक्रामेत्, नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा, स च तच्च न किञ्चिदपि स्मरति ॥(६)॥
तस्मादेतद् ब्रूमहे–अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च, न चास्ति सत्त्वमौपपादुकमिति (होवाच भरद्वाज:) ॥४॥
नेति भगवानात्रेय:, सर्वेभ्य एभ्यो भावेभ्यो: समुदितेभ्यो गर्भोऽभिनिर्वर्तते ॥५॥
मातृजश्चायं गर्भ:। न हि मातुर्विना गर्भोत्पत्ति: स्यात्, न च जन्म जरायुजानाम् । यानि खल्वस्य गर्भस्य मातृजानि, यानि चास्य मातृत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा–त्वक् च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्च पक्वाशयश्चोत्तरगुदं चाधरगुदं च क्षुद्रान्त्रं च स्थूलान्त्रं च वपा च वपावहनं चेति (मातृजानि) ॥६॥
पितृजश्चायं गर्भ: । नहि पितुऋते गर्भोत्पत्ति: स्यात्, न च जन्म जरायुजानाम् । यानि खल्वस्य गर्भस्य पितृजानि, यानि चास्य पितृत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा–केशश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्य: शुक्रं चेति (पितृजानि) ॥७॥
आत्मजश्चायं गर्भ: । गर्भात्मा ह्यन्तरात्मा य:, तं ‘जीव’ इत्याचक्षते शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि । स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनाऽऽत्मानम्, आत्मसंज्ञा हि गर्भे । तस्य पुनरात्मनो जन्मानादित्वान्नोपपद्यते, तस्मान्न जात एवायमजातं गर्भं जनयति, अजातो ह्ययमजातं गर्भं जनयति, स चैव गर्भ: कालान्तरेण बालयुवस्थविरभावान् प्रान्पोति, स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृता तस्यां जनिष्यमाणश्च, तस्मात् स एव जातश्चाजातश्च युगपद्भवति, यस्मिंश्चैतदुभय संभवति जातत्वं जनिष्यमाणत्वं च स जातो जन्यते, स चैवानागतेष्ववस्थान्तरेष्वजातो जनयत्यात्मनाऽऽत्मानम्। सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि तस्यां तस्यामवस्थायां, यथा-सतामेव शुक्रशोणितजीवानां प्राक् संयोगाद्गर्भत्वं न भवति, तच्च संयोगाद्भवति, यथा-सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति, तच्चापत्याद्भवति, तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते ॥८॥
न खलु गर्भस्य न च मातुर्न पितुर्न चात्मन: सर्वभावेषु यथेष्टकारित्वमस्ति, ते किंचित् स्ववशात् कुर्वन्ति, किंचित् कर्मवशात्, क्वचिच्चैषां करणशक्तिर्भवति, क्वचिन्न भवति । यत्र सत्त्वादिकरणसंपत्तत्र यथाबलमेव यथेष्टकारित्वम्, अतोऽन्यथा विपर्यय: । न च करणदोषादकरणमात्मा संभवति गर्भजनने, दृष्टं चेष्टा योनिरैश्वर्यं मोक्षश्चात्मविद्भिरात्मायत्तम् । नह्यन्य: सुखदु:खयो: कर्ता । न चान्यतो गर्भो जायते जायमान:, नाङ्कुरोत्पत्तिरबीजात् ॥९॥
यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा–तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषा: सुखदु:खे इच्छाद्वेषौ चेतना धृतिर्बुद्धि: स्मृतिरहङ्कार: प्रयत्नश्चेति (आत्मजानि) ॥१०॥
सात्म्यजश्चायं गर्भ: । नह्यसात्म्यसेवित्वमन्तरेण स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति, गर्भेषु वाऽप्यनिष्टो भाव: । यावत् खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषा: प्रकुपिता: शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते, तावत् समर्था गर्भजननाय भवन्ति । सात्म्यसेविनां पुन: स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले सन्निपतितानां जीवस्यानवक्रमणाद्गर्भा न प्रादुर्भवन्ति । नहि केवलं सात्म्यज एवायं गर्भ:, समुदयोऽत्र कारणमुच्यते । यानि खल्वस्य गर्भस्य सात्म्यजानि, यानि चास्य सात्म्यत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा– आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसाद: स्वरवर्णबीजसंपत् प्रहर्षभूयस्त्वं चेति (सात्म्यजानि) ॥११॥
रसजश्चायं गर्भ: । न हि रसादृते मातु: प्राणयात्राऽपि स्यात्, किं पुनर्गर्भजन्म । न चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति, समुदायोऽप्यत्र कारणमुच्यते । यानि तु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा– शरीरस्याभिनिर्वृत्तिरभिवृद्धि: प्राणानुबन्धस्तृप्ति: पुष्टिरुत्साहश्चेति (रसजानि)॥१२॥
अस्ति खलु सत्त्वमौपपादुकं, यज्जीवं स्पृक्शरीरेणाभिसंबध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्तते, भक्तिर्विपर्यस्यते, सर्वेन्द्रियाण्युपतप्यन्ते, बलं हीयते, व्याधय आप्याय्यन्ते, यस्माद्धीन: प्राणाञ्जहाति, यदिन्द्रियाणामभिग्राहकं च ‘मन’ इत्यभिधीयते, तत् त्रिविधमाख्यायते–शुद्धं, राजसं, तामसमिति । येनास्य खलु मनो भूयिष्ठं, तेन द्वितीयायामाजातौ संप्रयोगो भवति, यदा तु तेनैव शुद्धेन संयुज्यते, तदा जातेरतिक्रान्ताया अपि स्मरति । स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो ‘जातिस्मर’ इत्युच्यते । यानि खल्वस्य गर्भस्य सत्त्वजानि, यान्यस्य सत्त्वत: संभवत: संभवन्ति, तान्यनुव्याख्यास्याम:, तद्यथा–भक्ति: शीलं शौचं द्वेष: स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये, ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्याम: । नानाविधानि खलु सत्त्वानि, तानि सर्वाण्येकपुरुषे भवन्ति, न च भवन्त्येककालम्, एकं तु प्रायोवृत्त्याऽऽह ॥१३॥
एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भ:, यथा-कूटागारं नानाद्रव्यसमुदायात्, यथा वा-रथो नानारथाङ्गसमुदायात्, तस्मादेतदवोचाम–मातृजश्चायं गर्भ:, पित्तृजश्च, आत्मजश्च, सात्म्यजश्च, रसजश्च, अस्ति च सत्त्वमौपपादुकमिति (होवाच भगवानात्रेय:) ॥१४॥
भरद्वाज उवाच–यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भ: कथमयं सन्धीयते, यदि चापि सन्धीयते कस्मात् समुदायप्रभव: सन् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्च मनुष्यप्रभव उच्यते, तत्र चेदिष्टमेतद्यस्मान्मनुष्यो मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते, यथा-गौर्गोप्रभव:, यथा-चाश्वोऽश्वप्रभव इति, एवं सति यदुक्तमग्रे समुदयात्मक इति तदयुक्तम् । यदि च मनुष्यो मनुष्यप्रभव:, कस्माज्जडान्धकुब्जमूकवामनमिन्मिनव्यङ्गोन्मत्तकुष्ठिकिलासिभ्यो जाता: पितृसदृशरूपा न भवन्ति । अथात्रापि बुद्धिरेवं स्यात्–स्वेनैवायमात्मा चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्ध्या बोद्धव्यमित्यनेन हेतुना न जडादिभ्यो जाता: पितृसदृशा भवन्ति । अत्रापि प्रतिज्ञाहानिदोष: स्यात्, एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञ: स्यादसत्स्वज्ञ:, यत्र चैतदुभयं संभवति ज्ञत्वमज्ञत्वं च, सविकारश्चात्मा । यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादिविरहादज्ञ: स्यात्, अज्ञत्वादकारणम्, अकारणत्वाच्च नात्मेति वाग्वस्तुमात्रमेतद्वचनमनर्थं स्यादिति (होवाच भरद्वाज:) ॥१५॥
आत्रेय उवाच–पुरस्तादेतत् प्रतिज्ञातं–सत्त्वं जीवं स्पृक्शरीरेणाभिसंबन्धातीति । यस्मात्तु समुदायप्रभव: सन् स गर्भो मनुष्यविग्रहेण जायते, मनुष्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्याम: -भूतानां चतुर्विधा योनिर्भवति–जराय्वण्डस्वेदोद्भिद:। तासां खलु चतसृणामपि योनीनामेकैका योनिरपरिसंख्येयभेदा भवति, भूतानामाकृतिविशेषापरिसंख्येयत्वात् । तत्र जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते, तस्यां तस्यां योनौ तथातथारूपा भवन्ति, यथा– कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु, तानि यदा मनुष्यबिम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते, तस्मात् समुदायप्रभव: सन् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्चमनुष्यप्रभव उच्यते, तद्योनित्वात् ॥१६॥
यच्चोक्तं–यदि च मनुष्यो मनुष्यप्रभव:, कस्मान्न जडादिभ्यो जाता: पितृसदृशरूपा भवन्तीति, तत्रोच्यते–यस्य यस्य ह्यङ्गावयवस्य बीजे बीजभाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात्, तस्मादुभयोपपत्तिरप्यत्र । सर्वस्य चात्मजानीन्द्रियाणि, तेषां भावाभावहेतुर्दैवं, तस्मान्नैकान्ततो जडादिभ्यो जाता: पितृसदृशरूपा भवन्ति ॥१७॥
न चात्मा सत्स्विन्द्रियेषु ज्ञ:, असत्सु वा भवत्यज्ञ:, न ह्यसत्त्व: कदाचिदात्मा, सत्त्वविशेषाच्चोपलभ्यते ज्ञानविशेष इति ॥१८॥
भवन्ति चात्र–
न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते ।
या क्रिया वर्तते भावै: सा विना तैर्न वर्तते ॥१९॥
जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्तते।
श्रूयतां चेदमध्यात्ममात्मज्ञानबलं महत् ॥२०॥
इन्द्रियाणि च संक्षिप्य मन: संक्षिप्य चञ्चलम् ।
प्रविश्याध्यात्ममात्मज्ञ: स्वे ज्ञाने पर्यवस्थित: ॥२१॥
सर्वत्रावहितज्ञान: सर्वभावान् परीक्षते ।
गृह्णीष्व चे(वे)दमपरं भरद्वाज विनिर्णयम् ॥२२॥
निवृत्तेन्द्रियवाक्चेष्ट: सुप्त: स्वप्नगतो यदा ।
विषयान् सुख दु:खे च वेत्ति नाज्ञोऽप्यत: स्मृत: ॥२३॥
नात्मज्ञानादृते चैकं ज्ञानं किञ्चित् प्रवर्तते ।
न ह्येको वर्तते भावो वर्तते नाप्यहेतुक: ॥२४॥
तस्माज्ज्ञ: प्रकृतिश्चात्मा द्रष्टा कारणमेव च ।
सर्वमेतद्भरद्वाज निर्णीतं जहि संशयम् ॥२५॥
तत्र श्लोकौ–
हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव य: ।
पुनर्वसुमतिर्या च भरद्वाजमतिश्च या ॥२६॥
प्रतिज्ञाप्रतिषेधश्च विशदश्चात्मनिर्णय: ।
गर्भाविक्रान्तिमुद्दिश्य खुड्डिकां तत्प्रकाशितम् ॥२७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम
तृतीयोऽध्याय: ॥३॥
Last updated on June 10th, 2021 at 10:08 am