विषय सूची पर जायें

13. पाण्डु रोग शोफ विसर्प निदान - निदान - अ.हृ"

अष्टाङ्गहृदयस्य (निदानस्थानम्‌)

पाण्डुरोगशोफविसर्पनिदानं त्रयोदशोऽध्यायः।

अथातः पाण्डुरोगशोफविसर्पनिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः।

तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्‌॥१॥

धमनीर्दश सम्प्राप्य व्याप्नुवत्सकलां तनुम्‌।

श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्‌॥२॥

त्वङ्‌मांसयोस्तत्कुरुते त्वचि वर्णान्‌ पृथग्विधान्‌।

पाण्डुहारिद्रहरितान्‌ पाण्डुत्वं तेषु चाधिकम्‌॥३॥

यतोऽतः पाण्डुरित्युक्तः स रोगः तेन गौरवम्‌।

धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः॥४॥

ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः।

मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च॥५॥

शूनाक्षिकूटः सदनः कोपनः ष्ठीवनोऽल्पवाक्‌।

अन्नद्विट्‌ शिशिरद्वेषी शीर्णरोमा हतानलः॥६॥

सन्नसक्थो ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी।

स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्‌॥७॥

प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि।

अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता॥८॥

सादः श्रमो अनिलात्तत्र गात्ररुक्तोदकम्पनम्‌।

कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता॥९॥

शोफानाहास्यवैरस्यविट्‌शोषाः पार्श्वमूर्धरुक्‌।

पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः॥१०॥

तृट्‌स्वेदमूर्च्छाशीतेच्छा दौर्गन्ध्यं कटुवक्त्रता।

वर्चोभेदोऽम्लको दाहः कफाच्छुक्लसिरादिता॥११॥

तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः।

कासश्छर्दिश्च निचयान्मिश्रलिङ्गोऽतिदुःसहः॥१२॥

मृत्कषायाऽनिलं पित्तमूषरा मधुरा कफम्‌।

दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च॥१३॥

स्रोतांस्यपक्वैवापूर्य कुर्याद्रुद्‌ध्वा च पूर्ववत्‌।

पाण्डुरोगं ततः शूननाभिपादास्यमेहनः॥१४॥

पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः।

यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्‌॥१५॥

कोष्ठशाखाश्रयां पित्तं दग्ध्वाऽसृङ्‌मांसमावहेत्‌।

हारिद्रनेत्रमूत्रत्वङ्‌नखवक्त्रशकृत्तया॥१६॥

दाहाविपाकतृष्णावान्‌ भेकाभो दुर्बलेन्द्रियः।

भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च॥१७॥

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामला।

हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्‌॥१८॥

वातपित्ताद्‌भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुर्ज्वरः।

तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्‌॥१९॥

अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः।

शोफप्रधानाः कथिताः स एवातो निगद्यते॥२०॥

इति पाण्डुरोगनिदानम्‌।

अथ शोफनिदानम्‌।

पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्‌ बहिःसिराः।

नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्‌मांससंश्रयम्‌॥२१॥

उत्सेधं संहतं शोफं तमाहुर्निचयादतः।

सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम्‌॥२२॥

दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि।

द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्‌॥२३॥

पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः।

सामान्यहेतुः शोफानां दोषजानां विशेषतः॥२४॥

व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्‌।

अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्‌॥२५॥

लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम्‌।

मृद्‌ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्‌॥२६॥

पदातेर्मार्गगमनं यानेन क्षोभिणाऽपि वा।

श्वासकासातिसारार्शोजठरप्रदरज्वराः॥२७॥

विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः।

अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः॥२८॥

ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः।

सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः॥२९॥

तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्‌।

वाताच्छोफश्चलो रूक्षः खररोमाऽरुणासितः॥३०॥

सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्‌।

क्षिप्रोत्थानशमः शीघ्रमुन्नमेत्पीडितस्तनुः॥३१॥

स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्‌।

त्वक्‌ च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते॥३२॥

पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्‌।

शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनुः॥३३॥

सतृड्‌दाहज्वरस्वेददवक्लेदमदभ्रमः।

शीताभिलाषी विड्‌भेदी गन्धी स्पर्शासहो मृदुः॥३४॥

कण्डूमान्‌ पाण्डुरोमत्वक्कठिनः शीतलो गुरुः।

स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राच्छर्द्यग्निसादकृत्‌॥३५॥

आक्रान्तो नोन्नमेत्कृच्छ्रशमजन्मा निशाबलः।

स्रवेन्नासृक्‌ चिरात्पिच्छां कुशशस्त्रादिविक्षतः॥३६॥

स्पर्शोष्णकाङ्‌क्षी च कफात्‌ यथास्वं द्वन्द्वजास्त्रयः।

सङ्कराद्धेतुलिङ्गानाम्‌ निचयान्निचयात्मकः॥३७॥

अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः।

हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः॥३८॥

रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्‌।

भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः॥३९॥

विषजः सविषप्राणिपरिसर्पणमूत्रणात्‌।

दंष्ट्रादन्तनखापातादविषप्राणिनामपि॥४०॥

विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्‌।

विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्‌॥४१॥

मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः।

नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः॥४२॥

इति शोफनिदानम्‌॥

अथ विसर्पनिदानम्‌।

स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्‌।

त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्‌॥४३॥

यथोत्तरं च दुःसाध्याः तत्र दोषा यथायथम्‌।

प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः॥४४॥

देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः।

बहिःस्था द्वितये द्विस्थाः विद्यात्तत्रान्तराश्रयम्‌॥४५॥

मर्मोपतापात्सम्मोहादयनानां विघट्टनात्‌।

तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्‌॥४६॥

आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्‌।

तत्र वातात्परीसर्पो वातज्वरसमव्यथः॥४७॥

शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्‌।

पित्ताद्‌द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः॥४८॥

कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्‌।

स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः।४९॥

ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्‌।

वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्‌भ्रमैः॥५०॥

अस्थिभेदाग्निसदनतमकारोचकैर्युतः।

करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्‌॥५१॥

यं यं देशं विसर्पश्च विसर्पति भवेत्स सः।

शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते॥५२॥

अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्‌ द्रुतं च सः।

मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः॥५३॥

व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्‌।

हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना॥५४॥

क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु।

चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्‌॥५५॥

दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते।

कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्‌॥५६॥

रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्‌।

दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्‌॥५७॥

ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्‌।

श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः।५८॥

मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाग्निसदनैर्युताम्‌।

इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः॥५९॥

कफपित्ताज्ज्वरः स्तम्भो निद्रातन्द्राशिरोरुजः।

अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः॥६०॥

मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्‌।

आमोपवेशनं लेपः स्रोतसां स च सर्पति॥६१॥

प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक्‌।

पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः॥६२॥

मेचकाभोऽसितः स्निग्धो मलिनः शोफवान्‌ गुरुः।

गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते॥६३॥

पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः।

शवगन्धिश्च वीसर्पं कर्दमाख्यमुशन्ति तम्‌॥६४॥

सर्वजो लक्षणैः सर्वैः सर्वधात्वतिसर्पणः।

बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्‌॥६५॥

विसर्पं मारुतः कुर्यात्‌ कुलत्थसदृशैश्चितम्‌।

स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्‌॥६६॥

पृथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः।

असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः॥६७॥

शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः॥६७.१.२॥

इति विसर्पनिदानम्‌।

इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृद-

यसंहितायां तृतीये निदानस्थाने पाण्डुरोगशोफविसर्प-

निदानं नाम त्रयोदशोऽध्यायः॥१३॥

Last updated on August 17th, 2021 at 06:42 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi