विषय सूची पर जायें

03. वमन विरेचन व्यापद सिद्धि - कल्प सिद्धि - अ.हृ"

अष्टाङ्गहृदये कल्पसिद्धिस्थानम्‌

वमनविरेचनव्यापत्सिद्धिं तृतीयोऽध्यायः।

अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

वमनं मृदुकोष्ठेन क्षुद्वताऽल्पकफेन वा।

अतितीक्ष्णहिमस्तोकमजीर्णे दुर्बलेन वा॥१॥

पीतं प्रयात्यधस्तस्मिन्निष्टहानिर्मलोदयः।

वामयेत्तं पुनः स्निग्धं स्मरन्‌ पूर्वमतिक्रमम्‌॥२॥

अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम्‌।

अतितीक्ष्णोष्णलवणमहृद्यमतिभूरि वा॥३॥

तत्र पूर्वोदिता व्यापत्सिद्धिश्च, न तथाऽपि चेत्‌।

आशये तिष्ठति ततस्तृतीयं नावचारयेत्‌॥४॥

अन्यत्र सात्म्याद्धृद्याद्वा भेषजान्निरपायतः।

अस्निग्धस्विन्नदेहस्य पुराणं रूक्षमौषधम्‌॥५॥

दोषानुत्क्लेश्य निर्हर्तुमशक्तं जनयेद्गदान्‌।

विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम्‌॥६॥

पिण्डीकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्‌।

स्निग्धस्विन्नस्य वाऽत्यल्पं दीप्ताग्नेर्जीर्णमौषधम्‌॥७॥

शीतैर्वा स्तब्धमामे वा समुत्क्लेश्याहरन्मलान्‌।

तानेव जनयेद्रोगानयोगः सर्व एव सः॥८॥

तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः।

निरूढं जाङ्गलरसैर्भोजयित्वाऽनुवासयेत्‌॥९॥

फलमागधिकादारुसिद्धतैलेन मात्रया।

स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्‌॥१०॥

बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम्‌।

सोदावर्तस्य चोत्क्लेश्य दोषान्‌ मार्गान्‌ निरुध्य तैः॥११॥

भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्‌।

श्वासं विण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्‌॥१२॥

अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्‌।

उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते॥१३॥

पञ्चमूलयवक्षारवचाभूतिकसैन्धवैः।

यवागूः सुकृता शूलविबन्धानाहनाशनी॥१४॥

पिप्पलीदाडिमक्षारहिङ्गुशुण्ठ्यम्लवेतसान्‌।

ससैन्धवान्‌ पिबेन्मद्यैः सर्पिषोष्णोदकेन वा॥१५॥

प्रवाहिकापरिस्राववेदनापरिकर्तने।

पीतौषधस्य वेगानां निग्रहान्मारुतादयः॥१६॥

कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्‌ग्रहम्‌।

हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः॥१७॥

जिह्वां खादति निःसंज्ञो दन्तान्‌ कटकटाययन्‌।

न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्‌॥१८॥

मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्‌।

पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्‌॥१९॥

कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत्‌।

पवनेनातिवमतो हृदयं यस्य पीड्यते॥२०॥

तस्मै स्निग्धाम्ललवणान्‌ दद्यात्पित्तकफेऽन्यथा।

पीतौषधस्य वेगानां निग्रहेण कफेन वा॥२१॥

रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः।

स्तम्भवेपथुनिस्तोदसादोद्वेष्टार्तिभेदनैः॥२२॥

तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते।

बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्‌॥२३॥

हृत्वाऽऽशु विट्पित्तकफान्‌ धातूनास्रावयेद्‌द्रवान्‌।

तत्रातियोगे मधुरैः शेषमौषधमुल्लिखेत्‌॥२४॥

योज्योऽति वमने रेको विरेके वमनं मृदु।

परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम्‌॥२५॥

अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्‌।

लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्‌॥२६॥

वमनस्यातियोगे तु शीताम्बुपरिषेचितः।

पिबेत्फलरसैर्मन्थं सघृतक्षौद्रशर्करम्‌॥२७॥

सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः।

समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्‌॥२८॥

वमतोऽन्तः प्रविष्टायां जिह्वायां कवलग्रहाः।

स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः॥२९॥

फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः।

निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्‌॥३०॥

वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्‌।

यवागूं तनुकां दद्यात्स्नेहस्वेदौ च कालवित्‌॥३१॥

अतियोगाच्च भैषज्यं जीव हरति शोणितम्‌।

तज्जीवादानमित्युक्तमादत्ते जीवितं यतः॥३२॥

शुने काकाय वा दद्यात्तेनान्नमसृजा सह।

भुक्तेऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम्‌॥३३॥

शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा।

प्रक्षालितं विवर्णं स्यात्पित्ते शुद्धं तु शोणिते॥३४॥

तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात्क्रियाम्‌।

रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम्‌॥३५॥

मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्‌।

पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति॥३६॥

तदेव दर्भमृदितं रक्तं बस्तौ निषेचयेत्‌।

श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः॥३७॥

घृतमण्डाञ्जनयुतं बस्तिं वा योजयेद्धिमम्‌।

पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्‌॥३८॥

गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्‌।

विसंज्ञं श्रावयेत्सामवेणुगीतादिनिस्वनम्‌॥३९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिं नाम तृतीयोऽध्यायः॥।३॥

Last updated on August 26th, 2021 at 11:51 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi