सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
द्वादशोऽध्याय: ।
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम् |
एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ||३||
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा |
रसैरुदारैरथवा सिरामोक्षेण योजयेत् ||४||
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत् |
वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ||५||
(मज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा) |
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव |
आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ||६||
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः |
सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ||७||
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः |
अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ||८||
घृतस्य महती मात्रा पीता चार्तिं नियच्छति |
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ||९||
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम् |
न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् ||१०||
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः |
पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ||११||
समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा |
रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते ||१२||
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम् |
अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् ||१३||
त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु |
विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा ||१४||
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम् |
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् ||१५||
मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः |
रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः ||१६||
युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने |
सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् ||१७||
मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम् |
वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् ||१८||
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये |
इक्षुक्षौद्रसितास्तन्यदार्वीमधुकसैन्धवैः ||१९||
सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा |
सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः ||२०||
बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः |
एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः ||२१||
स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि |
शङ्खक्षौद्रसितायुक्तः सामुद्रः फेन एव वा ||२२||
द्वाविमौ विहितौ योगावञ्जनेऽर्जुननाशनौ |
सैन्धवक्षौद्रकतकाः सक्षौद्रं वा रसाञ्जनम् ||२३||
कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा |
लोहचूर्णानि सर्वाणि धातवो लवणानि च ||२४||
रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः |
कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् ||२५||
करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम् |
पुटपाकावसानेन रक्तविस्रावणादिना ||२६||
सम्पादितस्य विधिना कृत्स्नेन स्यन्दघातिना |
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् ||२७||
उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम् |
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि ||२८||
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु |
कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः ||२९||
अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम् |
कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ||३०||
शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः |
क्षौद्रदन्तार्णवमलशिरीषकुसुमैरपि ||३१||
क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम् |
मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्रसितायुतान् ||३२||
मधूकसारं मधुना योजयेच्चाञ्जने सदा |
बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः ||३३||
शङ्खशुक्तिमधुद्राक्षामधुकं कतकानि च |
द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ||३४||
वंशजारुष्करौ तालं नारिकेलं च दाहयेत् |
विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ||३५||
बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम् |
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ||३६||
व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह |
बहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ||३७||
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ |
स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ||३८||
सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत् |
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ||३९||
ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम् |
मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ||४०||
घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम् |
मधूकसारं मधुना तुल्यांशं गैरिकेण वा ||४१||
सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा |
दाडिमारेवताशमन्तकोलाम्लैश्च ससैन्धवाम् |
रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ||४२||
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम् |
आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ||४३||
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम् |
एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रोपेतं निर्विशङ्कं प्रयोज्यम् ||४४||
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च |
कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ||४५||
कासीससिन्धुप्रभवार्द्रकैस्तु हितं भवेदञ्जनमेव चात्र |
क्षौद्रान्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ||४६||
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव |
प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ||४७||
मुस्ताहरिद्रामधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभिः |
क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ||४८||
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे |
वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ||४९||
रसक्रियां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा |
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ||५०||
प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम् |
समुद्रफेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ||५१||
चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम् |
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ||५२||
सकज्जलं ताम्रघटे च घृष्ठं सर्पिर्युतं तुत्थकमञ्जनं च ||५३||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतेन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः ||१२||
Last updated on July 8th, 2021 at 11:40 am