सुश्रुतसंहिता ।
कल्पस्थानम् ।
सप्तमोऽध्यायः।
अथातो मूषिककल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः |
नामलक्षणभैषज्यैरष्टादश निबोध मे ||३||
लालनः पुत्रकः कृष्णो हंसिरश्चिक्वि(क्कि)रस्तथा |
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ||४||
कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा
कोकिलोऽरुणसञ्ज्ञश्च महाकृष्णस्तथोन्दुरः ||५||
श्वेतेन महता सार्धं कपिलेनाखुना तथा |
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ||६||
शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा |
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ||७||
जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च |
पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ||८||
पर्वभेदो रुजस्तीव्रा मूर्च्छाऽङ्गसदनं ज्वरः |
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ||९||
दष्टरूपं समासोक्तमेतद्व्यासमतः शृणु |
लालास्रावो लालनेन हिक्का छर्दिश्च जायते ||१०||
तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम् |
पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ||११||
चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः |
शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् ||१२||
कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने |
शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना ||१३||
हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम् |
पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः ||१४||
चिक्वि(क्कि)रेण शिरोदुःखं शोफो हिक्का वमिस्तथा |
जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् ||१५||
यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत् |
छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यमेव च ||१६||
ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका |
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु ||१७||
अङ्कोठबीजं च तथा पिबेदत्र विषापहम् |
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः ||१८||
महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम् |
निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च ||१९||
क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः |
कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले ||२०||
सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके |
अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः ||२१||
स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत् |
चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया ||२२||
क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम् |
कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् ||२३||
लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम् |
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः ||२४||
वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत् |
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् ||२५||
महाकृष्णेन पित्तं च श्वेतेन कफ एव च |
महता कपिलेनासृक् कपोतेन चतुष्टयम् ||२६||
भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः |
पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः ||२७||
दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः |
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः ||२८||
निष्क्वाथ्य चैषां क्वाथस्य चतुर्थोंऽशः पुनर्भवेत् |
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः ||२९||
कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत् |
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ||३०||
पञ्चानामरुणादीनां विषमेतद्व्यपोहति |
काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ||३१||
सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च |
सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ||३२||
दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् |
शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः ||३३||
छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि ||३४||
शुकाख्याकोषवत्योश्च मूलं मदन एव च |
देवदालीफलं चैव दध्ना पीत्वा विषं वमेत् |
सर्वमूषिकदष्टानामेष योगः सुखावहः ||३५||
फलं वचा देवदाली कुष्ठं गोभूत्रपेषितम् |
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ||३६||
विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते |
शिरोविरेचने सारः शिरीषस्य फलानि च ||३७||
हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने |
कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ||३८||
रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम् |
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ||३९||
तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः |
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ||४०||
मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम् |
तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ||४१||
स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक् |
पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत् ||४२||
श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः |
श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः ||४३||
तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान् |
अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ||४४||
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु |
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ||४५||
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः |
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ||४६||
बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति |
दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति ||४७||
अप्सु वा यदि वाऽऽदर्शेऽरिष्टं तस्य विनिर्दिशेत् |
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् ||४८||
जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम् |
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ||४९||
प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति |
दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ||५०||
प्रदिह्यादगदैः, सर्पिः पुराणं पाययेत च |
अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ||५१||
श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम् |
पललं तिलतैलं च रूपिकायाः पयो गुडः ||५२||
निहन्ति विषमालर्कं मेघवृन्दमिवानिलः |
मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ||५३||
तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह |
उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत् ||५४||
खादेदौषधकाले तमलर्कविषदूषितः |
करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ||५५||
विकाराः शिशिरे याप्या गृहे वारिविवर्जिते |
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ||५६||
शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत् |
दिनत्रये पञ्चमे वा विधिरेषोऽर्धमात्रया ||५७||
कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः |
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ||५८||
तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति |
बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ||५९||
स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे |
बलिं निवेद्य तत्रापि पिण्याकं पललं दधि ||६०||
माल्यानि च विचित्राणि मांसं पक्वामकं तथा |
अलकाधिपते यक्ष सारमेयगणाधिप ! ||६१||
अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात् |
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ||६२||
अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम् |
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ||६३||
अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः |
बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ||६४||
नखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत् |
सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ||६५||
इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमोऽध्यायः ||७||
Last updated on July 8th, 2021 at 10:56 am