विषय सूची पर जायें

05. पुरुष विचय शारीरम् - शारीर - च.

चरकसंहिता

शारीरस्थानम्‌ ।

पञ्चमोऽध्याय: ।

       अथात: पुरुषविचयं शारीरं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       पुरुषोऽयं लोकसंमित:’ इत्युवाच भगवान्‌ पुनर्वसुरात्रेय: । यावन्तो हि लोके (मूर्तिमन्तो) भावविशेषास्तावन्त: पुरुषे, यावन्त: पुरुषे तावन्तो लोके, इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच–नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्धया भूयस्तरमतोऽनुव्याख्यायमानं शुश्रूषामह इति ॥३॥

       तमुवाच भगवानात्रेय: –अपरिसंख्येया लोकावयवविशेषा:, पुरुषावयवविशेषा अप्यपरिसंख्येया:, तेषां यथास्थूलं कतिचिद्भावान्‌ सामान्यमभिप्रेत्योदाहरिष्याम:, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश !। षड्‌धातव: समुदिता: पुरुष’ इति शब्दं लभन्ते; तद्यथा–पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्‌धातव: समुदिता: ‘पुरुष’ इति शब्दं लभन्ते ॥४॥

       तस्य पुरुषस्य पृथिवी मूर्ति:, आप: क्लेद:, तेजोऽभिसन्ताप:, वायु: प्राण:, वियत्‌ सुषिराणि, ब्रह्म अन्तरात्मा । यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूति:, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूति: पुरुषे सत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोष:, सोम: प्रसाद:, वसव: सुखम्‌, आश्विनौ कान्ति:, मरुदुत्साह:, विश्वेदेवा: सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोह:, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथा मरणमिति । एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामगिन्वेश ! सामान्यं विद्यादिति ॥५॥

       एवंवादिनं भवगन्तमात्रेयमग्निवेश उवाच–एवमेतत्‌ सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयो: सामान्यम्‌ । किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति ॥६॥

       भगवानुवाच–शृण्वग्निवेश ! सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यत: सत्या बुद्धि: समुत्पद्यते । सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदु:खयो: कर्ता नान्य इति । कर्मात्मकत्वाच्च हेत्वादिभिर्युक्त: सर्वलोकोऽहमिति विदित्वा ज्ञानं q। तत्र संयोगापेक्षी लोकशब्द: । षड्‌धातुसमुदायो हि सामान्यत: सर्वलोक: ॥७॥

       तस्य हेतु:, उत्पत्ति:, वृद्धि: उपप्लव:, वियोगश्च। तत्र हेतुरुत्पत्तिकारणं, उत्पत्तिर्जन्म, वृद्धिराप्यायनम्‌, उपप्लवो दु:खागम:, षड्‌धातुविभागो वियोग: सजीवापगम: स प्राणनिरोध: स भङ्ग: स लोकस्वभाव: । तस्य मूलं सर्वोपप्लवानां च प्रवृत्ति:, निवृत्तिरुपरम: । प्रवृत्तिर्दु:खं, निवृत्ति: सुखमिति यज्ज्ञानमुत्पद्यते तत्‌ सत्यम्‌ । तस्य हेतु: सर्वलोकसामान्यज्ञानम्‌ । एतत्प्रयोजनं सामान्योपदेशस्येति ॥८॥

       अथागिन्वेश उवाच–किंमूला भगवन्‌ ! प्रवृत्ति:, निवृत्तौ च क उपाय इति ॥९॥

       भगवानुवाच–मोहेच्छाद्वेषकर्ममूला प्रवृत्ति: । तज्जा ह्यहङ्कारसङ्गसंशयाभिसंप्लवाभ्यवपातविप्रत्ययाविशेषानुपायास्तरुणमिव द्रुतमतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते, यैरभिभूतो न सत्तामतिवर्तते । तत्रैवंजातिरूपवित्तवृत्तबुद्धिशीलविद्याभिजनवयोवीर्यप्रभावसंपन्नोऽहमित्यहङ्कारः, यन्मनोवाक्कायकर्म नापवर्गाय स सङ्ग:, कर्मफलमोक्षपुरुषप्रेत्यभावादय: सन्ति वा नेति संशय:, सर्वावस्थास्वनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेषराशिरिति ग्रहणमभिसंप्लव:, मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चाहमित्यभ्यवपात:, कार्याकार्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्यस:, ज्ञाज्ञयो: प्रकृतिविकारयो: प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमविशेष:, प्रोक्षणानशनाग्निहोत्रत्रिषवणाभ्युक्षणावाहनयाजनयजनयाचनसलिलहुताशनप्रवेशादय: समारम्भा: प्रोच्यन्ते ह्यनुपाया: । एवमयम- धीधृतिस्मृतिरहङ्काराभिनिविष्ट: सक्त: ससंशयोऽभिसंप्लुतबुद्धिरभ्यवपतितोऽन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्ष: सत्त्वशरीरदोषमूलानां सर्वदु:खानां भवति । एवमहङ्कारादिभिर्दोषैर्भ्राम्यमाणो नातिवर्तते प्रवृत्तिं, सा च मूलमघस्य ॥१०॥

 निवृत्तिरपवर्ग:, तत्‌ परं प्रशान्तं तत्तदक्षरं तद्‌ब्रह्म स मोक्ष: ॥११॥

       तत्र मुमुक्षूणामुदयनानि व्याख्यास्याम: । तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्‌, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोध:, तेनावष्टम्भ:, तत्र यथोक्ता: क्रिया:, सतामुपासनम्‌, असतां परिवर्जनम्‌, असङ्गतिर्दुर्जनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं च स्त्रीणां, सर्वपरिग्रहत्याग:, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतो: सूचीपिप्पलकं, शौचाधानतोर्जलकुण्डिका, दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहार:, श्रमापनयनार्थं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतो: कायनिबन्धनं, वनेष्वनिकेतवास:, तन्द्रानिन्द्रालस्यादिकर्मवर्जनं, इन्द्रियार्थेष्वनुरागोपतापनिग्रह:, सुप्तस्थितगतप्रेक्षिताहारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्ति:, सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदु:खसंस्पर्शसहत्वं, शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसंचलनम्‌, अहङ्कारादिषूपसर्गसंज्ञा, लोकपुरुषयो: सर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेद:, सत्त्वोत्साह:, अपवर्गाय धीधृतिस्मृतिबलाधानं, नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च, धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं, सर्वं कारणवद्दु:खमस्वमनित्यमित्यभ्युपगम:, सर्वप्रवृत्तिष्वघसंज्ञा, सर्वसंन्यासे सुखमित्यभिनिवेश:, एष मार्गोऽपवर्गाय, अतोऽन्यथा बध्यते, इत्युदयनानि व्याख्यातानि ॥१२॥

       भवन्ति चात्र–

       एतैरविमलं सत्त्वं शुद्ध्युपायैर्विशुध्यति ।

       मृज्यमान इवादर्शस्तैलचेलकचादिभि: ॥१३॥

       ग्रहाम्बुदरजोधूमनीहारैरसमावृतम्‌ ।

       यथाऽर्कमण्डलं भाति भाति सत्त्वं तथाऽमलम्‌ ॥१४॥

       ज्वलत्यात्मनि संरुद्धं तत्‌ सत्त्वं संवृतायने ।

       शुद्ध: स्थिर: प्रसन्नार्चिर्दीपो दीपाशये यथा ॥१५॥

       शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धि: प्रवर्तते ।

       यया भिनत्त्यतिबलं महामोहमयं तम: ॥१६॥

       सर्वभावस्वभावज्ञो यया भवति नि:स्पृह: ।

       योगं यया साधयते सांख्य: संपद्यते यया ॥१७॥

       यया नोपैत्यहङ्कारं नोपास्ते कारणं यया ।

       यया नालम्बते किंचित्‌ सर्वं संन्यस्यते यया ॥१८॥

       याति ब्रह्म यया नित्यमजरं शान्तमव्ययम्‌ ।

       विद्या सिद्धिर्मतिर्मेधा प्रज्ञा ज्ञानं च सा मता ॥१९॥

       लोके विततमात्मानं लोकं चात्मनि पश्यत: ।

       परावरदृश: शान्तिर्ज्ञानमूला न नश्यति ॥२०॥

       पश्यत: सर्वभावान्‌ हि सर्वावस्थासु सर्वदा ।

       ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते ॥२१॥

       नात्मन: करणाभावाल्लिङ्गमप्युपलभ्यते ।

       स सर्वकरणायोगान्मुक्त इत्यभिधीयते ॥२२॥

       विपापं विरज: शान्तं परमक्षरमव्ययम्‌ ।

       अमृतं ब्रह्म निर्वाणं पर्यायै: शान्तिरुच्यते ॥२३॥

       एतत्तत्‌ सौम्य ! विज्ञानं यज्ज्ञात्वा मुक्तसंशया: ।

       मुनय: प्रशमं जग्मुर्वीतमोहरज:स्पृहा: ॥२४॥

       तत्र श्लोकौ–

       सप्रयोजनमुद्दिष्टं लोकस्य पुरुषस्य च ।

       सामान्यं मूलमुत्पत्तौ निवृत्तौ मार्ग एव च ॥२५॥

       शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी ।

       विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा ॥२६॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने

       पुरुषविचयशारीरं नाम पञ्चमोऽध्याय: ॥५॥

Last updated on June 10th, 2021 at 11:40 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi