सुश्रुतसंहिता ।
सूत्रस्थानम् ।
एकविंशतितमोऽध्याय: ।
अथातो व्रणप्रश्नमध्यायं व्याख्यास्याम: ॥१॥
यथोवाच भगवान् धन्वन्तरि: ॥२॥
वातपित्तेश्लेष्माण एव देहसंभवहेतव: । तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टै: शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभि:, अतश्च त्रिस्थूणमाहुरेके । त एव च व्यापन्ना: प्रलयहेतव: । तदेभिरेव शोणितचतुर्थै: संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ॥३॥
भवति चात्र –
नर्ते देह: कफादस्ति न पित्तान्न च मारुतात् ॥
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ॥४॥
तत्र वा’ गतिगन्धनयो:, इति धातु:, तप’ संतापे, व्ध्यश्लीष’ आलिङ्गने, एतेषां कृद्विहितै: प्रत्ययैर्वात: पित्तं श्लेष्मेति च रूपाणि भवन्ति ॥५॥
दोषस्थानान्यत ऊर्ध्वं वक्ष्याम: – तत्र समासेन वात: श्रोणिगुदसंश्रय:, तदुपर्यधो नाभे: पक्वाशय:, पक्वामाशयमध्यं पित्तस्य आमाशय: श्लेष्मण: ॥६॥
अत: परं पञ्चधा विभज्यन्ते । तत्र वातस्य वातव्याधौ वक्ष्याम:, पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च, श्लेष्मण उर: शिर: कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च, एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ॥७॥
भवति चात्र –
विसर्गादानविक्षेपै: सोमसूर्यानिला यथा ॥
धारयन्ति जगद्देहं, कफपित्तानिलास्तथा ॥८॥
तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्नि:? आहोस्वित् पित्तमेवाग्निरिति ?। अत्रोच्यते – न खलु पित्तव्यतिरेकादन्योऽग्निरूपलभ्यते, आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेऽग्निवदुपचार: क्रियतेऽन्तरग्निरिति, क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगात्, अतिवृद्धे शीतक्रियोपयोगात्, आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ॥९॥
तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति, विवेचयति च दोषरसमूत्रपुरीषाणि, तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा:, यत्तु यकृत्प्लीह्नो: पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा, स रसस्य रागकृदुक्त:, यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति संज्ञा, सोऽभिप्रार्थितमनोरथसाधनकृदुक्त:, यद्दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति संज्ञा, स रूपग्रहणाधिकृत:, यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा, सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च प्रकाशक: ॥१०॥
भवति चात्र –
पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च ॥
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ॥११॥
अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्याम: । तत्र, आमाशय: पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजस:, चन्द्र इव आदित्यस्य, चतुर्विधस्याहारस्याधार:, स च तत्रौदकैर्गुणैराहार: प्रक्लिन्नो भिन्नसंघात: सुखजरो भवति ॥१२॥
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ॥
आमाशये संभवति श्लेष्मा मधुरशीतल: ॥१३॥
स तत्रश्च एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति, उर:स्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति, जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते, शिर:स्थ: स्नेहसंतर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोति, सन्धिस्थ: श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ॥१४॥
भवति चात्र –
श्लेष्मा श्वेतो गुरु: स्निग्ध: पिच्छिल: शीत एव च ॥
मधुरस्त्वविदग्ध: स्याद्विदग्धो लवण: स्मृत: ॥१५॥
शोणितस्य स्थानं यकृत्प्लीहानौ, तच्च प्रागभिहितं, तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति ॥१६॥
भवति चात्र –
अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णत: ॥
शोणितं गुरु विस्रं स्याद्विदाहाश्चास्य पित्तवत् ॥१७॥
एतानि खलु दोषस्थानानि, एषु संचीयन्ते दोषा: । प्राक् संचयहेतुरुक्त: । तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति । तत्र प्रथम: क्रियाकाल: ॥१८॥
अत ऊर्ध्वं प्रकोपणानि वक्ष्याम: ।
तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघातलङ्घन- प्लवनप्रतरणरात्रिजागरणभारहरणगजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषै-र्वायु: प्रकोपमापद्यते ॥१९॥
स शीताभ्रप्रवातेषु घर्मान्ते च विशेषत: ॥
प्रत्यूषस्यपराह्णे च जीर्णेऽन्ने च प्रकुप्यति ॥२०।
क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभि: पित्तं प्रकोपमापद्यते ॥२१॥
तदुष्णैरुष्णकाले च घनान्ते च विशेषत: ॥
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ॥२२॥
दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कटमाषमहामाषगोधूम-तिल-पिष्ट-विकृति-दधिदुग्धकृशरापायसेक्षु-विकारानूपौदकमांसवसाबिसमृणालकसेरुकशृङ्गाटकमधुर-वल्ली-फलसमशनाध्यशनप्रभृतिभि: श्लेष्मा प्रकोपमापद्यते ॥२३॥
स शीतै: शीतकाले च वसन्ते च विशेषत: ॥
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ॥२४॥
पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते ॥२५॥
यस्माद्रक्तं विना दोषैर्न कदाचित् प्रकुप्यति ॥
तस्मात्तस्य यथादोषं कालं विद्यात् प्रकोपणे ॥२६॥
तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते । तत्र द्वितीय: क्रियाकाल: ॥२७॥
अत ऊर्ध्वं प्रसरं वक्ष्याम: – तेषामेभिरातङ्कविशेषै: प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति । तेषां वायुर्गतिमत्त्वात् प्रसरणहेतु: सत्यप्यचैतन्ये । स हि रजोभूयिष्ठ: । रजश्च प्रवर्तकं सर्वभावानाम् । यथा- महानुदकसंचयोऽतिवृद्ध: सेतुमवदार्यापरेणोदकेन व्यामिश्र: सर्वत: प्रधावति, एवं दोषा: कदाचिदेकशो द्विश: समस्ता: शोणितसहिता वाऽनेकधा प्रसरन्ति । तद्यथा – वात:, पित्तं, श्लेष्मा, शोणितं, वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणै वातशोणिते, पित्तशोणिते, श्लेष्मशोणिते, वातपित्तशोणितानि, वातश्लेष्मशोणितानि, पित्तश्लेष्मशोणितानि, वातपित्तकफा:, वातपित्तकफशोणितानीति, एवं पञ्चदशधा प्रसरन्ति ॥२८॥
कृत्स्नेऽर्धेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम् ॥
दोषो विकारं नभसि मेघवत्तत्र वर्षति ॥२९॥
नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति ॥
निष्प्रत्यनीक: कालेन हेतुमासाद्य कुप्यति ॥३०॥
तत्र वायो: पित्तस्थानगतस्य पित्तवत् प्रतीकार:, पित्तस्य च कफस्थानगतस्य कफवत्, कफस्य च वातस्थानगतस्य वातवत्, एव क्रियाविभाग: ॥३१॥
एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ, ओषचोषपरिदाहधूमायनानि पित्तस्य, अरोचकाविपाकाङ्ग- सादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति, तत्र तृतीय: क्रियाकाल: ॥३२॥
अत ऊर्ध्वं स्थानसंश्रयं वक्ष्याम: । एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति । ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति, बस्तिगता: प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन्, मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन्, गुदगता भगन्दरार्श: प्रभृतीन्, वृषणगता वृद्धी:,
ऊर्ध्वजत्रुगतास्तूर्ध्वजान्, त्वङ्मांसंशोणितस्था: क्षुद्ररोगान् कुष्ठानि विसर्पाश्च, मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन्, अस्थिगता विद्रध्यनुशयीप्रभृतीन्, पादगता: श्लीपदवातशोणितवातकण्टकप्रभृतीन्, सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन्, तेषामेवमभिसंनिविष्टानां पूर्वरूपप्रादुर्भाव:, तं प्रतिरोगं वक्ष्याम: । तत्र पूर्वरूपगतेषु चतुर्थ: क्रियाकाल: ॥३३॥
अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्याम: – शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च । तत्र पञ्चम: क्रियाकालः ॥३४॥
अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठ: क्रियाकाल:, ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्ध: । तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ॥३५॥
भवति चात्र –
संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् ।
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ॥३६॥
संचयेऽपहृता दोषा लभन्ते नोत्तरा गती: ॥
ते तूत्तरासु गतिषु भवन्ति बलवत्तरा: ॥३७॥
सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुन: ॥
संसर्गे कुपित: क्रुद्धं दोषं दोषोऽनुधावति ॥३८॥
संसर्गे यो गरीयान् स्यादुपक्रम्य: स वै भवेत् ॥
शेषदोषाविरोधेन सन्निपाते तथैव च ॥३९॥
वृणोति यस्माद्रूढेऽपि व्रणवस्तु न नश्यति ॥
आदेहधारणात्तस्माद्व्रण इत्युच्यते बुधै: ॥४०॥
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायो नामैकविंशोऽध्याय: ॥२१॥
Last updated on May 24th, 2021 at 06:43 am