विषय सूची पर जायें

39. संशोधन संशमनीय - सूत्र - सु.

सुश्रुतसंहिता ।

सूत्रस्थाने

एकोनचत्वारिंशत्तमोऽध्याय: ।

 अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपुन्नाड कोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीवचामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि |

तत्र, कोविदारपूर्वाणां फलानि, कोविदारादीनां मूलानि ||३||

विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नुक्सु वर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापूगहरीतक्या मलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि |

तत्र तिल्वकपूर्वाणां मूलानि, तिल्वकादीनां पाटलान्तानां त्वचः, कम्पिल्लकफलरजः, पूगादीनामेरण्डान्तानां फलानि, पूतीकारग्वधयोः पत्राणि, शेषाणां क्षीराणीति ||४||

 कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि | एषां स्वरसा इति ||५||

पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीरबिम्बीगिरिकर्णिकाकिणिहीवचाज्योतिष्मती- करञ्जार्कालर्कलशुनातिविषा

शृङ्गवेरतालीशतमालसुरसार्जकेङ्गुदीमेषशृङ्गीमातुलुङ्गीमुरङ्गीपीलु- जातीशालतालमधूकलाक्षाहिङ्गुलवणमद्यगोशकृद्रसमूत्राणीति शिरोविरेचनानि |

तत्र करवीरपूर्वाणां फलानि, करवीरादीनामर्कान्तानां मूलानि, तालीशपूर्वाणां कन्दाः,

तालीशादीनामर्जकान्तानां पत्राणि, इङ्गुदीमेषशृङ्ग्योस्त्वचः,

मातुलुङ्गीमुरङ्गीपीलुजातीनां पुष्पाणि, शालतालमधूकानां साराः, हिङ्गुलाक्षे निर्यासौ, लवणानि पार्थिवविशेषाः; मद्यान्यासुतसंयोगाः, शकृद्रसमूत्रे मलाविति ||६||

संशमनान्यत ऊर्ध्वं वक्ष्यामः- तत्र भद्रदारुकुष्ठहरिद्रावरुणमेषशृङ्गीबलातिबलार्तगलकच्छुराशल्लकीकुबेराक्षीवीरतरुसहचराग्निमन्थ- वत्सादन्येरण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ||७||

       चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्राशैवलकह्लारकुमुदोत्पलकन्द(द)लीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ||८||

कालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकीर्येङ्गुदीसुमना- काकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ||९||

तत्र सर्वाण्येवौषधानि [९] व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् |

तत्र, व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति; अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते; पुरुषबलादधिकं ग्लानिमूर्च्छामदानावहति संशमनम्; एवं संशोधनमतिपातयति |

हीनमेभ्यो दत्तमकिञ्चित्करं भवति | तस्मात् सममेव विदध्यात् ||१०||

भवन्ति चात्र-

रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः |

तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावानं मृदु ||११||

चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् |

अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ||१२||

स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् |

भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ||१३||

व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते |

बिडालपदकं चूर्णं देयः कल्कोऽक्षसम्मितः ||१४||

इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ||३९||

Last updated on May 24th, 2021 at 07:39 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi