विषय सूची पर जायें

05. कुष्ठनिदानम् - निदान - च.

चरकसंहिता

निदानस्थानम्‌ ।

पञ्चमोऽध्याय: ।

       अथात: कुष्ठनिदानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       सप्त द्रव्याणि कुष्ठानां प्रकृतिर्विकृतिमापन्नानि भवन्ति । तद्यथा–त्रयो दोषा वातपित्तश्लेष्माण:, प्रकोपणविकृता:, दूष्याश्च शरीरधातवस्त्वङ्‌मांसशोणितलसीकाश्चतुर्धा दोषोपघातविकृता इति । एतत्‌ सप्तानां सप्तधातुकमेवङ्गतमाजननं कुष्ठानाम्‌, अत:प्रभवाण्यभिनिर्वर्तमानानि केवलं शरीरमुपतपन्ति ॥३॥

       न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्‌, अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानु- बन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेष: । स सप्तविधोऽष्टादशविधोऽपरिसंख्येयविधो वा भवति । दोषा हि विकल्पनैर्विकल्प्यमाना विकल्पयन्ति विकारान्‌, अन्यत्रासाध्यभावात्‌ । तेषां विकल्पविकारसंख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्याम: ॥४॥

       इह वातादिषु त्रिषु प्रकुपितेषु त्वगादीश्चंतुर: प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोऋष्यजिह्वं, पित्तश्लेष्मणो: पुण्डरीकं, श्लेष्ममारुतयो: सिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेव सप्तविध: कुष्ठविशेषो भवति । स चैष भूयस्तरतमत: प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसंख्यामापद्यते ॥५॥

       तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्याम:–शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा संतर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाची: सततमतिमात्रमजीर्णे च समश्नत:, चिलिचिमं च पयसा, हायनकयवकचीन- कोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायाम- संतापानत्युपसेवमानस्य, भयश्रमसंतापोपहतस्य च सहसा शीतोदकमवतरत:, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरत:, छर्दिं च प्रतिघ्नत:, स्नेहांश्चातिचरत:, त्रयो दोषा: युगपत्‌ प्रकोपमापद्यन्ते, त्वगादयश्चत्वार: शैथिल्यमापद्यन्ते, तेषु शिथिलेषु दोषा: प्रकुपिता: स्थानमधिगम्य संतिष्ठमानास्तानेव त्वगादीन्‌ दूषयन्त: कुष्ठान्यभिनिर्वर्तयन्ति ॥६॥

       तेषामिमानि पूर्वरूपाणि भवन्ति: तद्यथा– अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्ण्यं कण्डूर्निस्तोद: सुप्तता परिदाह: परिहर्षो लोमहर्ष: खरत्वमूष्मायणं गौरवं श्वयथुर्वीसर्पागमनमभीक्ष्णं च काये कायच्छिद्रेषूपदेह: पक्वदग्धदष्टभग्न – क्षतोपस्खलितेष्वतिमात्रं वेदना स्वल्पानामपि च व्रणानां दुष्टिरसंरोहणं चेति ॥७॥

       ततोऽनन्तरं कुष्ठान्यभिनिर्वर्तन्ते, तेषामिदं वेदनावर्णसंस्थानप्रभावनामविशेषविज्ञानं भवति, तद्यथा– रूक्षारुणपरुषाणि विषमविसृतानि खरपर्यन्तानि तनून्युद्वृत्तबहिस्तनूनि सुप्तवत्सुप्तानि हृषितलोमाचितानि निस्तोदबहुलान्यल्पकण्डूदाहपूय- लसीकान्याशुगतिसमुत्थानान्याशुभेदीनि जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात्‌ (१),

       ताम्राणि ताम्रखररोमराजीभिरवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डूक्लेदकोथदाहपाकवन्त्याशुगति- समुत्थानभेदीनि ससंतापक्रिमीणि पक्वोदुम्बरफलवर्णान्यौदुम्बरकुष्ठानीति विद्यात्‌ (२),

       स्निग्धानि गुरूण्युत्सेधवन्ति श्लक्ष्णस्थिरपीतपर्यन्तानि शुक्लरक्तावभासानि शुक्लरोमराजीसन्तानानि बहुबहलशुक्ल- पिच्छिलस्रावीणि बहुक्लेदकण्डू क्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानि विद्यात्‌ (३),

       परुषाण्यरुणवर्णानि बहिरन्त:श्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डूक्लेदक्रिमीणि दाहभेदनिस्तोद(पाक)बहुलानि शूकोपहतोपमवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्कशपिडकाचितानि दीर्घपरिमण्डलान्यृष्य- जिह्वाकृतीनि ऋष्यजिह्वानीति विद्यात्‌ (४),

       शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीसिरासन्ततान्युत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाक- वन्त्याशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसंकाशानि पुण्डरीकाणीति विद्यात्‌ (५),

       परुषारुणानि विशीर्णबहिस्तनून्यन्त:स्निग्धानि शुक्लरक्तावभासानि बहून्यल्पवेदनान्यल्पकण्डूदाहपूयलसीकानि लघुसमुत्थानान्यल्पभेदक्रिमीण्यलाबुपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात्‌ (६),

       काकणन्तिकावर्णान्यादौ पश्चात्तु सर्वकुष्ठलिङ्गसमन्वितानि पापीयसा सर्वकुष्ठलिङ्गसंभवेनानेकवर्णानि काकणानीति विद्यात्‌ । तान्यसाध्यानि, साध्यानि पुनरितराणि ॥८॥

       तत्र यदसाध्यं तदसाध्यतां नातिवर्तते, साध्यं पुन: किंचित्‌ साध्यतामतिवर्तते कदाचिदपचारात्‌ । साध्यानि हि षट्‌ काकणकवर्ज्यान्यचिकित्स्यमानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्यतामुपयान्ति ॥९॥

       साध्यानामपि ह्युपेक्ष्यमाणानां त्वङ्‌मांसशोणितलसीकाकोथक्लेदसंस्वेदजा: क्रिमयोऽभिमूर्च्छन्ति, ते भक्षयन्तस्त्वगादीन्‌ दोषा: पुनर्दूषयन्त इमानुपद्रवान्‌ पृथक्‌ पृथगुत्पादयन्ति– तत्र वात: श्यावारुणवर्णं परुषतामपि च रौक्ष्यशूलशोषतोदवेपथुहर्ष- सङ्कोचायासस्तम्भसुप्तिभेदभङ्गान्‌, पित्तं दाहस्वेदक्लेदकोथस्रावपाकरागान्‌, श्लेष्मा त्वस्य श्वैत्यशैत्यकण्डूस्थैर्यगौरवोत्सेधो- पस्नेहोपलेपान्‌, क्रिमयस्तु त्वगादीश्चंतुर: सिरा: स्नायूश्चास्थीन्यपि च तरुणान्याददते ॥१०॥

अस्यां चैवावस्थायामुपद्रवा: कुष्ठिनं स्पृशन्ति, तद्यथा–प्रस्रवणमङ्गभेद: पतनान्यङ्गावयवानां तृष्णाज्वरातीसारदाहदौर्बल्यारोचकाविपाकाश्च, तथाविधमसाध्यं विद्यादिति ॥११॥

       भवन्ति चात्र–

       साध्योऽयमिति य: पूर्वं नरो रोगमुपेक्षते ।

       स किंचित्कालमासाद्य मृत एवावबुध्यते ॥१२॥

       यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा ।

       भेषजं कुरुते सम्यक्‌ स चिरं सुखमश्नुते ॥१३॥

       यथा ह्यल्पेन यत्नेन छिद्यते तरुणस्तरु: ।

       स एवातिप्रवृद्धस्तु छिद्यतेऽतिप्रयत्नत: ॥१४॥

       एवमेव विकारोऽपि तरुण: साध्यते सुखम्‌ ।

       विवृद्ध: साध्यते कृच्छ्रादसाध्यो वाऽपि जायते ॥१५॥

       तत्र श्लोक:–

       संख्या द्रव्याणि दोषाश्च हेतव: पूर्वलक्षणम्‌ ।

       रूपाण्युपद्रवाश्चोक्ता: कुष्ठानां कौष्ठिके पृथक्‌ ॥१६॥

       इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्याय: ॥५॥

Last updated on June 4th, 2021 at 11:46 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi