विषय सूची पर जायें

40. वाजीकरण विधि - उत्तर - अ.हृ"

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

वाजीकरणविधि चत्वारिंशोऽध्यायः।

अथातो वाजीकरणविधिमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो  महर्षयः।

वाजीकरणमन्विच्छेत्सततं विषयी पुमान्‌।

तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्‌॥१॥

अपत्यसन्तानकरं यत्सद्यः संप्रहर्षणम्‌।

वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः॥२॥

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते।

तद्वाजीकरणं तद्धि देहस्योर्जस्करं परम्‌॥३॥

धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम्‌।

अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम्‌॥४॥

अल्पसत्वस्य तु क्लेशैर्बाध्यमानस्य रागिणः।

शरीरक्षयरक्षार्थं वाजीकरणमुच्यते॥५॥

कल्यस्योदग्रवयसो वाजीकरणसेविनः।

सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते॥६॥

अथ स्निग्धविशुद्धानां निरूहान्‌ सानुवासनान्‌।

घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्‌॥७॥

योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम्‌।

ततो वाजीकरान्‌ योगान्‌ शुक्रापत्यबलप्रदान्‌॥८॥

अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः।

यथैकश्चैकशाखश्च निरपत्यस्तथा नरः॥९॥

स्खलद्गमनमव्यक्तवचनं धूलिधूसरम्‌।

अपि लालाविलमुखं हृदयाह्लादकारकम्‌॥१०॥

अपत्यं तुल्यतां केन दर्शनस्पर्शनादिषु।

किं पुनर्यद्यशोधर्ममानश्रीकुलवर्धनम्‌॥११॥

शुद्धकाये यथाशक्ति वृष्ययोगान्‌ प्रयोजयेत्‌।

शरेक्षुकुशकाशानां विदार्या वीरणस्य च॥१२॥

मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्‌।

मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम्‌॥१३॥

अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्‌।

वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम्‌॥१४॥

मधुकं शालिपर्णीं च भागांस्त्रिपलिकान्‌ पृथक्‌।

माषाणामाढकं चैतद्‌ द्विद्रोणे साधयेदपाम्‌॥१५॥

रसेनाढकशेषेण पचेत्तेन घृताढकम्‌।

दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम्‌॥१६॥

घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्‌।

वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम्‌॥१७॥

द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्‌।

तत्सिद्धपूतं चूर्णस्य पृथक्‌ प्रस्थेन योजयेत्‌॥१८॥

शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च।

मरिचस्य प्रकुञ्चेन पृथगर्धपलोन्मितैः॥१९॥

त्वगेलाकेसरैः क्ष्णैः क्षौद्रद्विकुडवेन च।

पलमात्रं ततः खादेत्‌ प्रत्यहं रसदुग्धभुक्‌॥२०॥

तेनारोहति वाजीव कुलिङ्ग इव हृष्यति।

विदारीपिप्पलीशालिपियालेक्षुरकाद्रजः॥२१॥

पृथक्‌ स्वगुप्तामूलाच्च कुडवांशं तथा मधु।

तुलार्धं शर्कराचूर्णात्‌ प्रस्थार्धं नवसर्पिषः॥२२॥

सोऽक्षमात्रमतः खादेत्‌ यस्य रामाशतं गृहे।

सात्मगुप्ताफलान्‌ क्षीरे गोधूमान्‌ साधितान्‌ हिमान्‌॥२३॥

माषान्‌ वा सघृतक्षौद्रान्‌ खादन्‌ गृष्टिपयोऽनुपः।

जागर्ति रात्रिं सकलामखिन्नः खेदयन्‌ स्त्रियः॥२४॥

बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्‌।

यः खादेत्ससितान्‌ गच्छेत्स स्त्रीशतमपूर्ववत्‌॥२५॥

चूर्णं विदार्या बहुशः स्वरसेनैव भावितम्‌।

क्षौद्रसर्पिर्युतं लीढ्‌वा प्रमदाशतमृच्छति॥२६॥

कृष्णाधात्रीफलरजः स्वरसेन सुभावितम्‌।

शर्करामधुसर्पिर्भिर्लीढ्‌वा योऽनु पयः पिबेत्‌॥२७॥

स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति।

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्‌॥२८॥

पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्‌।

कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्‌॥२९॥

सिताघृतपयोन्नाशी स नारीषु वृषायते।

यः पयस्यां पयःसिद्धां खादेन्मधुघृतान्विताम्‌॥३०॥

पिबेाष्कयणं चानु क्षीरं न क्षयमेति सः।

स्वयं गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्‌॥३१॥

धारोष्णेन नरः पीत्वा पयसा रासभायते।

उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत्‌॥३२॥

चन्द्रशुभ्रं दधिसरं ससिताषष्टिकौदनम्‌।

पटे सुमार्जितं भुक्त्वा वृद्धोऽपि तरुणायते॥३३॥

श्वदंष्ट्रेक्षुरमाषात्मगुप्ताबीजशतावरीः।

पिबन्‌ क्षीरेण जीर्णोऽपि गच्छति प्रमदाशतम्‌॥३४॥

यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्‌।

मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते॥३५॥

द्रव्यैरेवंविधैस्तस्माद्दर्पितः प्रमदां व्रजेत्‌।

आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः॥३६॥

सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाड्कुराः।

विषयातिशयाः पञ्चशराः कुसुमधन्वनः॥३७॥

इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम्‌।

किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः॥३८॥

नामापि यस्या हृदयोत्सवाय

यां पश्यतां तृप्तिरनाप्तपूर्वा।

सर्वेन्द्रियाकर्षणपाशभूता

कान्तानुवृत्तिव्रतदीक्षिता या॥३९॥

कलाविलासाङ्गवयोविभूषा

शुचिः सलज्जा रहसि प्रगल्भा

प्रियंवदा तुल्यमनःशया या

सा स्त्री वृषत्वाय परं नरस्य॥४०॥

आचरेच्च सकलां रतिचर्यां

कामसूत्रविहितामनवद्याम्‌।

देशकालबलशक्त्यनुरोधा-

द्वैद्यतन्त्रसमयोक्त्यविरुद्धाम्‌॥४१॥

अभ्यञ्जनोद्वर्तनसेकगन्ध-

स्रक्चित्रवस्त्राभरणप्रकाराः।

गान्धर्वकाव्यादिकथाप्रवीणाः

समस्वभावा वशगा वयस्याः॥४२॥

दीर्घिका स्वभावनान्तनिविष्टा

पद्मरेणुमधुमत्तविहङ्गा।

नीलसानुगिरीकूटनितम्बे

काननानि पुरकण्ठगतानि॥४३॥

दृष्टिसुखा विविधा तरुजातिः

श्रोत्रसुखः कलकोकिलनादः।

अङ्गसुखर्तुवशेन विभूषा

चित्तसुखः सकलः परिवारः॥४४॥

ताम्बूलमच्छमदिरा

कान्ता कान्ता निशा शशाङ्काङ्का  ।

यद्यच्च किञ्चिदिष्टं

मनसो वाजीकरं तत्तत्‌॥४५॥

मधु मुखमिव सोत्पलं प्रियायाः

कलरणना परिवादिनी प्रियेव।

कुसुमचयमनोरमा च शय्या

किसलयिनी लतिकेव पुष्पिताग्रा॥४६॥

देशे शरीरे च न काचिदर्ति-

रर्थेषु नाल्पोऽपि मनोविघातः।

वाजीकराः सन्निहिताश्च योगाः

कामस्य कामं परिपूरयन्ति॥४७॥

मुस्तापर्पटकं ज्वरे, तृषि जलं मृद्भृष्टलोष्टोद्भवं,

लाजाश्छर्दिषु, बस्तिजेषु गिरिजं, मेहेषु धात्रीनिशे।

पाण्डौ श्रेष्ठमयोऽभयाऽनिलकफे, प्लीहामये पिप्पली,

सन्धाने कृमिजा, विषे शुकतरुर्मेदोनिले गुग्गुलुः॥४८॥

वृषोऽस्रपित्ते, कुटजोऽतिसारे,

भल्लातकोऽर्शःसु, गरेषु हेम।

स्थूलेषु तार्क्ष्यं, क्रिमिषु कृमिघ्नं,

शोषे सुरा च्छागपयोऽथ मांसम्‌॥४९॥

अक्ष्यामयेषु त्रिफला, गुडूची

वातस्ररोगे, मथितं ग्रहण्याम्‌।

कुष्ठेषु सेव्यः खदिरस्य सारः,

सर्वेषु रोगेषु शिलाह्वयं च॥५०॥

उन्मादं घृतमनवं, शोकं मद्यं, व्यपस्मृतिं ब्राह्मी।

निद्रानाशं क्षीरं जयति, रसाला प्रतिश्यायम्‌॥५१॥

मांसं कार्श्यं, लशुनः प्रभञ्जनं, स्तब्धगात्रतां स्वेदः।

गुडमञ्जर्याः खपुरो नस्यात्‌ स्कन्धांसबाहुरुजम्‌॥५२॥

नवनीतखण्डमर्दितमौष्ट्रं मूत्रं पयश्च हन्त्युदरम्‌।

नस्यं मूर्धविकारान्‌, विद्रधिमचिरोत्थमस्रविस्रावः॥५३॥

नस्यं कवलो मुखजान्‌, नस्याञ्जनतर्पणानि नेत्ररुजः।

वृद्धत्वं क्षीरधृते, मूर्च्छां शीताम्बुमारुतच्छायाः॥५४॥

समशुक्तार्द्रकमात्रा मन्दे वह्नौ, श्रमे सुरा स्नानम्‌।

दुःखसहत्वे स्थैर्ये व्यायामो, गोक्षुरुर्हितः कृच्छ्रे॥५५॥

कासे निदिग्धिका, पार्श्वशूले पुष्करजा जटा।

वयसः स्थापने धात्री, त्रिफला गुग्गुलुर्व्रणे॥५६॥

बस्तिर्वातविकारान्‌,

पैत्तान्‌ रेकः, कफोद्भवान्‌ वमनम्‌।

क्षौद्रं जयति बलासं,

सर्पिः पित्तं, समीरणं तैलम्‌॥५७॥

इत्यग्र्यं यत्प्रोक्तं रोगाणामौषधं शमायालम्‌।

तद्देशकालबलतो विकल्पनीयं यतायोगम्‌॥५८॥

इत्यात्रेयादागमय्यार्थसूत्रं

तत्सूक्तानां पेशलानामतृप्तः।

भेडादीनां सम्मतो भक्तिनम्रः

पप्रच्छेदं संशयानोऽघ्निवेशः॥५९॥

दृश्यन्ते भगवन्‌ केचिदात्मवन्तोऽपि रोगिणः।

द्रव्योपस्थातृसम्पन्ना वृद्धवैद्यमतानुगाः॥६०॥

क्षीयमाणामयप्राणा विपरीतास्तथाऽपरे।

हिताहितविभागस्य फलं तस्मादनिश्चितम्‌॥६१॥

किं शास्ति शास्त्रमस्मिन्‌

इति कल्पयतोऽग्निवेशमुख्यस्य।

शिष्यगणस्य पुनर्वसु-

राचख्यौ कार्‌त्स्न्यतस्तत्त्वम्‌॥६२॥

न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति।

विनाऽपि क्रियया स्वास्थ्यं गच्छतां षोडशांशया॥६३॥

आतङ्कापङ्कामग्नानां हस्तालम्बो भिषग्जितम्‌।

जीवितं म्रियमाणानां सर्वेषामेव नौषधात्‌॥६४॥

न ह्युपायमपेक्षन्ते सर्वे रोगा, न चान्यथा।

उपायसाध्याः सिध्यन्ति, नाहेतुर्हेतुमान्‌ यतः॥६५॥

यदुक्तं सर्वसम्पत्तियुक्तयाऽपि चिकित्सया।

मृत्युर्भवति, तन्नैवं नोपायेऽस्त्यनुपायता॥६६॥

अपि चोपाययुक्तस्य धीमतो जातुचित्‌ क्रिया।

न सिध्येद्दैववैगुण्यान्न त्वियं षोडशात्मिका॥६७॥

कस्यासिद्धोऽग्नितोयादिः स्वेदस्तम्भादिकर्मणि।

न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम्‌॥६८॥

कस्य माषात्मगुप्तादौ वृष्यत्वे नास्ति निश्चयः।

विण्मूत्रकरणाक्षेपौ कस्य संशयितौ यवे॥६९॥

विषं कस्य जरां याति मन्त्रतन्त्रविवर्जितम्‌।

कः प्राप्तः कल्यतां पथ्यादृते रोहिणिकादिषु॥७०॥

अपि चाकालमरणं सर्वसिद्धान्तनिश्चितम्‌।

महताऽपि प्रयत्नेन वार्यतां कथमन्यता॥७१॥

चन्दनाद्यपि दाहादौ रूढमागमपूर्वकम्‌।

शास्त्रादेव गतं सिद्धिं ज्वरे लङ्घनबृंहणम्‌॥७२॥

चतुष्पाद्गुणसम्पन्ने सम्यगालोच्य योजिते।

मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते॥७३॥

एतद्धि मृत्युपाशानामकाण्डे छेदनं दृढम्‌।

रोगोत्‌ त्रासितभीतानां रक्षासूत्रमसूत्रकम्‌॥७४॥

एतत्तदमृतं साक्षाज्जगदायासवर्जितम्‌।

याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम्‌॥७५॥

अज्ञातशास्त्रसद्भावान्‌ शास्त्रमात्रपरायणान्‌।

त्यजेद्दूरात्‌ भिषक्पाशान्‌ पाशान्‌ वैवस्वतानिव॥७६॥

भिषजां साधुवृत्तानां भद्रमागमशालिनाम्‌।

अभ्यस्तकर्मणां भद्रं भद्रं भद्राभिलाषिणाम्‌॥७७॥

इति तन्त्रगुणैर्युक्तं तन्त्रदोषैर्विवर्जितम्‌।

चिकित्साशास्त्रमखिलं व्याप्य यत्‌ परितः स्थितम्‌॥७८॥

विपुलामलविज्ञानमहामुनिमतानुगम्‌।

महासागरगम्भीरसङ्‌ग्रहार्थोपलक्षणम्‌॥७९॥

अष्टाङ्गवैद्यकमहोदधिमन्थनेन

योऽष्टाङ्गसङ्‌ग्रहमहामृतराशिराप्तः।

तस्मादनल्पफलमल्पसमुद्यमानां

प्रीत्यर्थमेतदुदितं पृथगेव तन्त्रम्‌॥८०॥

इदमागमसिद्धत्वात्प्रत्यक्षफलदर्शनात्‌।

मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथञ्चन॥८१॥

दीर्घजीवितमारोग्यं धर्ममर्थं सुखं यशः।

पाठावबोधानुष्ठानैरधिगच्छत्यतो ध्रुवम्‌॥८२॥

एतत्पठन्‌ सङ्‌ग्रहबोधशक्तः

स्वभ्यस्तकर्मा भिषगप्रकम्प्यः।

आकम्पयत्यन्यविशालतन्त्र-

कृताभियोगान्‌ यदि तन्न चित्रम्‌॥८३॥

यदि चरकमधीते तद्‌ ध्रुवं सुश्रुतादि-

प्राणिगदितगदानां नाममात्रेऽपि बाह्यः।

अथ चरकविहीनः प्रक्रियायामखिन्नः

किमिव खलु करोतु व्याधितानां वराकः॥८४॥

अभिनिवेशवशादभियुज्यते

सुभणितेऽपि न यो दृढमूढकः।

पठतु यत्नपरः पुरुषायुषं

स खलु वैद्यकमाद्यमनिर्विदः॥८५॥

वाते पित्ते ेष्मशान्तौ च पथ्यं

तैलं सर्पिर्माक्षिकं च क्रमेण।

एतद्‌ ब्रह्मा भाषतां ब्रह्मजो वा

का निर्मन्त्रे वक्तृभेदोक्तिशक्तिः॥८६॥

अभिधातृवशात्‌ किंवा द्रव्यशक्तिर्विशिष्यते।

अतो मत्सरमुत्सृज्य माध्यस्थ्यमवलम्ब्यताम्‌॥८७॥

ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ।

भेडाद्याः किं न पठ्यन्ते तस्माद्‌ग्राह्यं सुभाषितम्‌॥८८॥

हृदयमिव हृदयमेतत्सर्वायुर्वेदवाङ्‌मयपयोधेः।

कृत्वा यच्छुभमाप्तं शुभमस्तु परं ततो जगतः॥८९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग- हृदयसंहितायां षष्ठे उत्तरस्थाने वाजीकरणविधिर्नाम चत्वारिंशोऽध्यायः॥४०॥

इति वाजीकरणमष्टममङ्गं समाप्तम्‌।

समाप्तं चेदं षष्ठमुत्तरस्थानम्‌ ।

Last updated on July 6th, 2021 at 12:25 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi