चरकसंहिता
चिकित्सास्थानम् ।
षोडशोऽध्याय: ।
अथात: पाण्डुरोगचिकित्सितं व्याख्यास्याम:॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
पाण्डुरोगा: स्मृता: पञ्च वातपित्तकफैस्त्रय: ।
चतुर्थ: सन्निपातेन पञ्चमो भक्षणान्मृद: ॥३॥
दोषा: पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु ।
शैथिल्यं तस्य धातूनां गौरवं चोपजायते ॥४॥
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणा: ।
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात् ॥५॥
सोऽल्परक्तोऽल्पमेदस्को नि:सार: शिथिलेन्द्रिय: ।
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम् ॥६॥
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात् ।
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ॥७॥
विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा ।
प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात् ॥८॥
कामचिन्ताभयक्रोधशोकोपहतचेतस: ।
समुदीर्णं यदा पित्तं हृदये समवस्थितम् ॥९॥
वायुना बलिना क्षिप्तं संप्राप्य धमनीर्दश ।
प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम् ॥१०॥
प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत् ।
पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि ॥११॥
स पाण्डुरोग इत्युक्त:
तस्य लिङ्गं भविष्यत: ।
हृदयस्पन्दनं रौक्ष्यं स्वेदाभाव: श्रमस्तथा ॥१२॥
संभूतेऽस्मिन् भवेत् सर्व: कर्णक्ष्वेडी हतानल: ।
दुर्बल: सदनोऽन्नद्विट् श्रमभ्रमनिपीडित: ॥१३॥
गात्रशूलज्वरश्वासगौरवारुचिमान्नर: ।
मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव ॥१४॥
शूनाक्षिकूटो हरित: शीर्णलोमा हतप्रभ: ।
कोपन: शिशिरद्वेषी निद्रालु: ष्ठीवनोऽल्पवाक् ॥१५॥
पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च ।
भवन्त्यारोहणायासैर्विशेषश्चास्य वक्ष्यते ॥१६॥
आहारैरुपचारैश्च वातलै: कुपितोऽनिल: ।
जनयेत्कृष्णपाण्डुत्वं तथा रूक्षारुणाङ्गताम् ॥१७॥
अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम् ।
वर्च:शोषास्यवैरस्यशोफानाहबलक्षयान् ॥१८॥
पित्तलस्याचितं पित्तं यथोक्तै: स्वै: प्रकोपणै: ।
दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते ॥१९॥
स पीतो हरिताभो वा ज्वरदाहसमन्वित: ।
तृष्णामूर्च्छापिपासार्त: पीतमूत्रशकृन्नर: ॥२०॥
स्वेदन: शीतकामश्च न चान्नमभिनन्दति ।
कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च ॥२१॥
उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते ।
दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च ॥२२॥
विवृद्ध: श्लेष्मलै: श्लेष्मा पाण्डुरोगं स पूर्ववत् ।
करोति गौरवं तन्द्रां छर्दिं श्वेतावभासताम् ॥२३॥
प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम् ।
श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम् ॥२४॥
शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम् ।
श्वयथुं मधुरास्यत्वमिति पाण्ड्वामय: कफात् ॥२५॥
सर्वान्नसेविन: सर्वे दुष्टा दोषास्त्रिदोषजम् ।
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदु:सहम् ॥२६॥
मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मल: ।
कषाया मारुतं, पित्तमूषरा, मधुरा कफम् ॥२७॥
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत् ।
पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि च ॥२८॥
इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा ।
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥२९॥
शूनगण्डाक्षिकूटभ्रू: शूनपान्नाभिमेहन: ।
क्रिमिकोष्ठोऽतिसार्येत मलं सासृक् कफान्वितम् ॥३०॥
पाण्डुरोगिश्चरोत्पन्न: खरीभूतो न सिध्यति ।
कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति ॥३१॥
बद्धाल्पविट्कं सकफं हरितं योऽतिसार्यते ।
दीन: श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृष्यार्दित: ॥३२॥
स नास्त्यसृक्क्षयाद्यश्च पाण्डु: श्वेतत्वमाप्नुयात् ।
इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम् ॥३३॥
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते ।
तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते ॥३४॥
हारिद्रनेत्र: स भृशं हारिद्रत्वङ्नखानन: ।
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रिय: ॥३५॥
दाहविपाकदौर्बल्यसदनारुचिकर्षित: ।
कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ॥३६॥
कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला ।
कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानव: ॥३७॥
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति ।
दाहारुचितृषानाहतन्द्रामोहसमन्वित: ॥३८॥
नष्टाग्निसंज्ञ: क्षिप्रं हि कामलावान् विपद्यते ।
साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम् ॥३९॥
तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकै: ।
संशोध्यो मृदुभिस्तिक्तै: कामली तु विरेचनै: ॥४०॥
ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत् ।
शालीन् सयवगोधूमान् पुराणान् यूषसंहितान् ॥४१॥
मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितै: ।
यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत् ॥४२॥
पञ्चगव्यं महातिक्तं कल्याणकमथापि वा ।
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे ॥४३॥
दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम् ।
चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ॥४४॥
तै: कल्कैर्विंशतिपलं घृतस्य सलिलाढके ।
सिद्धं हृत्पाण्डुगुल्मार्श: प्लीहवातकफार्तिनुत् ॥४५॥
दीपनं श्वासकासघ्नं मूढवाते च शस्यते ।
दु:खप्रसविनीनां च वन्ध्यानां चैव गर्भदम् ॥४६॥
इति दाडिमाद्यं घृतम् ।
कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम् ।
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा ॥४७॥
कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च ।
तै: कार्षिकैर्घृतप्रस्थ: सिद्ध: क्षीरचतुर्गुण: ॥४८॥
रक्तपित्तं ज्वरं दाहं श्वयथुं सभगन्दरम् ।
अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा ॥४९॥
इति कटुकाद्यं घृतम् ।
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान् ।
प्रस्थ: सिद्धो घृतात् पेय: स पाण्ड्वामयगुल्मनुत् ॥५०॥
इति पथ्याघृतम् ।
दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभि: ।
तद्वत्प्रस्थो घृतात्सिद्ध: प्लीहपाण्ड्वर्तिशोफजित् ॥५१॥
इति दन्तीघृतम्।
पुराणसर्पिष: प्रस्थो द्राक्षार्धप्रस्थसाधित: ।
कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापह: ॥५२॥
इति द्राक्षाघृतम् ।
हरिद्रात्रिफलानिम्बबलामधुकसाधितम् ।
सक्षीरं माहिषं सर्पि: कामलाहरमुत्तमम् ॥५३॥
इति हरिद्रादिघृतम् ।
गोमूत्रे द्विगुणे दार्व्या: कल्काक्षद्वयसाधित: ।
दार्व्या: पञ्चपलक्वाथे कल्के कालीयके पर: ॥५४॥
माहिषात् सर्पिष: प्रस्थ: पूर्व: पूर्वे परे पर: ।
स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत् ॥५५॥
पयसा मूत्रयुक्तेन बहुश: केवलेन वा ।
दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम् ॥५६॥
द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम् ।
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिक: पिबेत् ॥५७॥
कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम् ।
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य च ॥५८॥
सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम् ।
दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा ॥५९॥
कामली त्रिवृतां वाऽपि त्रिफलाया रसै: पिबेत् ।
विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान् ॥६०॥
कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा ।
कर्षौ मधुरसाया द्वौ सर्वमेतत् सुखाम्बुना ॥६१॥
मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु ।
कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम् ॥६२॥
गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत् ।
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥६३॥
शीतं मधुयुतं प्रात: कामलार्त: पिबेन्नर: ।
क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा ॥६४॥
पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम् ।
तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान् ॥६५॥।
मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत् ।
स्वर्णक्षीरी त्रिवृच्छ्यामे भद्रदारु सनागरम् ॥६६॥
गोमूत्राञ्जलिना पिष्टं मूत्रे वा क्वथितं पिबेत् ।
क्षीरमेभि: शृतं वाऽपि पिबेद्दोषानुलोमनम् ॥६७॥
हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत् ।
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥६८॥
सप्तरात्रं गवां मूत्रे भावितं वाऽप्ययोरज: ।
पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद्भिषक् ॥६९॥
त्र्यूषणत्रिफलामुस्तविडङ्गचित्रका: समा: ।
नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥७०॥
भक्षयेत् पाण्डुहृद्रोगकुष्ठार्श:कामलापहम् ।
नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम् ॥७१॥
इति नवायसचूर्णम् ।
गुडनागरमण्डूरतिलांशान्मानत: समान् ।
पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे ॥७२॥
त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ ।
दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च ॥७३॥
एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक् ।
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ॥७४॥
गोमूत्रेऽष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्तत: ।
उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना ॥७५॥
उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम् ।
मण्डूरवटका ह्येते प्राणदा: पाण्डुरोगिणाम् ॥७६॥
कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान् ।
अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च ॥७७॥
इति मण्डूरवटका: ।
ताप्यद्रिजतुरूप्यायोमला: पञ्चपला: पृथक् ।
चित्रकत्रिफलाव्योषविडङ्गै: पलिकै: सह ॥७८॥
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाऽऽप्लुता: ।
अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना ॥७९॥
कुलत्थकाकमाच्यादिकपोतपरिहारिणा ।
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ॥८०॥
भागश्चित्रकमूलस्य विडङ्गानां तथैव च ।
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च ॥८१॥
माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा ।
अष्टौ भागा: सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम् ॥८२॥
माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे ।
उदुम्बरसमां मात्रां तत: खादेद्यथाग्नि ना ॥८३॥
दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम् ।
वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम् ॥८४॥
योगराज इति ख्यातो योगोऽयममृतोपम: ।
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ॥८५॥
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ।
कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम् ॥८६॥
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ।
इति योगराज: ।
कौटजत्रिफलानिम्बपटोलघननागरै: ॥८७॥
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा ।
शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥८८॥
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता।
निदिग्ध्या: फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम् ॥८९॥
चूर्णितं मधुन: कुर्यात्त्रिपलेनाक्षिकान् गुडान् ।
दाडिमाम्बुपय: पक्षिरसतोयसुरासवान् ॥९०॥
तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा ।
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान् ॥९१॥
पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् ।
कासासृग्दरपित्तासृक्शोथगुल्मगलामयान् ॥९२॥
ते च सर्वव्रणान् हन्यु: सर्वरोगहरा: शिवा: ।
इति शिलाजतुवटका: ।
पुनर्नवा त्रिवृद्व्याेषविडङ्गं दारु चित्रकम् ॥९३॥
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गका: ।
पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम् ॥९४॥
मण्डूरं द्विगुणं चूर्णाद्गाेमूत्रे व्द्याढके पचेत् ।
कोलवद्गुटिका: कृत्वा तक्रेणालोड्य ना पिबेत् ॥९५॥
ता: पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम् ।
श्वयथुं ग्रहणीदोषं हन्यु: कुष्ठं क्रिमींस्तथा ॥९६॥
इति पूनर्नवमण्डूरम् ।
दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रज: ।
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान् ॥९७॥
तुल्या अयोरज:पथ्याहरिद्रा: क्षौद्रसर्पिषा ।
चूर्णिता: कामली लिह्याद्गुडक्षौद्रेण वाऽभया: ॥९८॥
त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरज: ।
चूर्णितं क्षौद्रसर्पिर्भ्यां स लेह: कामलापह: ॥९९॥
द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम् ।
प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम् ॥१००॥
धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत् ।
शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं तत: ॥१०१॥
हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम् ।
इति धात्र्यवलेह: ।
त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु च ॥१०२॥
विडङ्गान्यथ मुस्तं च वत्सकं चेति चूर्णयेत् ।
मण्डूरतुल्यं तच्चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥१०३॥
शनै: सिद्धास्तथा शीता: कार्या: कर्षसमा गुडा: ।
यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहा: ॥१०४॥
ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिन: स्मृता: ।
इति मण्डूरवटका: ।
मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरज: ॥१०५॥
लोध्रं चैतेषु गौड: स्यादरिष्ट: पाण्डुरोगिणाम् ।
इति गौडोऽरिष्ट:।
बीजकात्षोडशपलं त्रिफलायाश्च विंशति: ॥१०६॥
द्राक्षाया: पञ्च लाक्षाया: सप्त द्रोणे जलस्य तत् ।
साध्यं पादावशेषे तु पूतशेषे समावपेत् ॥१०७॥
शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्षिकम् ।
व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम् ॥१०८॥
मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने ।
यवेषु दशरात्रं तद्ग्रीष्मे द्वि: शिशिरे स्थितम् ॥१०९॥
पिबेत्तद्ग्रहणीपाण्डुरोगार्श:शोथगुल्मनुत् ।
मूत्रकृच्छाश्मरीमेहकामलासन्निपातजित् ॥११०॥
बीजकारिष्ट इत्येष आत्रेयेण प्रकीर्तित: ।
इति बीजकारिष्ट: ।
धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम् ॥१११॥
क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च ।
शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम् ॥११२॥
प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशन: ।
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान् ॥११३॥
कासहिक्कारुचिश्वासांश्चैषोऽरिष्ट: प्रणाशयेत् ।
इति धात्र्यरिष्ट: ।
स्थिरादिभि: शृतं तोयं पानाहारे प्रशस्यते ॥११४॥
पाण्डूनां, कामलार्तानां मृद्वीकामलकीरस: ।
पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्षिणा ॥११५॥
विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति ।
वातिके स्नेहभूयिष्ठं, पैत्तिके तिक्तशीतलम् ॥११६॥
श्लैष्मिके कटुतिक्तोष्णं, विमिश्रं सान्निपातिके।
निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक् ॥११७॥
युक्तिज्ञ: शोधनैस्तीक्ष्णै: प्रसमीक्ष्य बलाबलम् ।
शुद्धकायस्य सर्पींषि बलाधानानि योजयेत् ॥११८॥
व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे ।
मुस्तान्ययोरज: पाठा विडङ्गं देवदारु च ॥११९॥
वृश्चिकाली च भार्गी च सक्षीरैस्तै: समैर्घृतम् ।
साधयित्वा पिबेद्युक्त्या नरो मुद्दोषपीडित: ॥१२०॥
तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलै: ।
मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिन: ॥१२१॥
द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनै: ।
विडङ्गैलातिविषया निम्बपत्रेण पाठया ॥१२२॥
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा ।
यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम् ॥१२३॥
क्रियाविशेष एषोऽस्य मतो हेतुविशेषत: ।
तिलपिष्टनिभं यस्तु वर्च: सृजति कामली ॥१२४॥
श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत् ।
रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहै: ॥१२५॥
कफसंमूर्च्छितो वायु: स्थानात् पित्तं क्षिपेद्बली ।
हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नर: ॥१२६॥
भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च ।
दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरै: ॥१२७॥
क्रमेणाल्पेऽनुसज्येत पित्ते शाखासमाश्रिते ।
बर्हितित्तिरिदक्षाणां रूक्षाम्लै: कटुकै रसै: ॥१२८॥
शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत् ।
मातुलुङ्गरसं क्षौद्रपिप्पलीमरिचान्वितम् ॥१२९॥
सनागरं पिबेत् पित्तं तथाऽस्यैति स्वमाशयम् ।
कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रम: ॥१३०॥
आपित्तरागाच्छकृतो वायोश्चाप्रशमाद्भवेत् ।
स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते ॥१३१॥
निवृत्तोपद्रवस्य स्यात् पूर्व: कामलिको विधि: ।
यदा तु पाण्डोर्वर्ण: स्याद्धरितश्यावपीतक: ॥१३२॥
बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वर: ।
स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णाऽरुचिर्भ्रम: ॥१३३॥
हलीमकं तदा तस्य विद्यादनिलपित्तत: ।
गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम् ॥१३४॥
स पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु ।
विरिक्तो मधुरप्रायं भजेत् पित्तानिलापहम् ॥१३५॥
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च ।
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान् ॥१३६॥
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये ।
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम् ॥१३७॥
पयसा च प्रयुञ्जीत यथादोषं यथाबलम् ।
तत्र श्लोकौ–
पाण्डो: पञ्चविधस्योक्तं हेतुलक्षणभेषजम् ॥१३८॥
कामला द्विविधा तेषां साध्यासाध्यत्वमेव च ।
तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमक: ।
तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम् ॥१३९॥
इत्याग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्याय: ॥१६॥
Last updated on June 23rd, 2021 at 12:03 pm