विषय सूची पर जायें

11. संधि सित असित रोग प्रतिषेध - उत्तर - अ.हृ"

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

सन्धिसितासितरोगप्रतिषेधं एकादशोऽध्यायः।

अथातः सन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः॥

उपनाहं भिषक्‌ स्विन्नं भिन्नं व्रीहिमुखेन च।

लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत्‌॥१॥

पिप्पलीक्षौद्रसिन्धूत्थैर्बध्नीयात्पूर्ववत्ततः।

पटोलपत्रामलकक्वाथेनाश्च्योतयेच्च तम्‌॥२॥

पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः।

वृद्धिपत्रेण वर्ध्याऽर्धे स्यादश्रुगतिरन्यथा॥३॥

चिकित्सा चार्मवत्क्षौद्रसैन्धवप्रतिसारिता।

पूयालसे सिरां विध्येत्ततस्तमुपानाहयेत्‌॥४॥

कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि।

सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः॥५॥

चूर्णाञ्जनं प्रयुञ्जीत सक्षौद्रैर्वा रसक्रियाम्‌।

कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च॥६॥

त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत्‌।

पित्ताभिष्यन्दवच्छुक्तिं बलासाह्वयपिष्टके॥७॥

कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत्‌।

बीजपूररसाक्तं च व्योषकट्‌फलमञ्जनम्‌॥८॥

जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः।

पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम्‌॥९॥

रक्तस्यन्दवदुत्पातहर्षजालार्जुनक्रिया।

सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम्‌॥१०॥

सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम्‌।

अर्जुने शर्करामस्तुक्षौद्रैराश्च्योतनं हितम्‌॥११॥

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाऽञ्जनम्‌।

मधुना चाञ्जनं शङ्खः फेनो वा सितया सह॥१२॥

अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत्‌।

रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम्‌॥१३॥

उत्तानस्येतरत्‌ स्विन्नं ससिन्धूत्थेन चाञ्जितम्‌।

रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत्‌॥१४॥

इत्थं संरोषिताक्षस्य प्रचलेऽर्माधिमांसके।

घृतस्य निश्चलं मूर्ध्नि  वर्त्मनोश्च विशेषतः॥१५॥

अपाङ्गमीक्षमाणस्य वृद्धेऽर्मणि कनीनकात्‌।

वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम्‌॥१६॥

नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः।

समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम्‌॥१७॥

कनीनकमुपानीय चतुर्भागावशेषितम्‌।

छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः॥१८॥

कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते।

वृद्धेऽर्मणि तथाऽपाङ्गात्पश्यतोऽस्य कनीनकम्‌॥१९॥

सम्यक्‌ छिन्नं मधुव्योषसैन्धवप्रतिसारितम्‌।

उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा॥२०॥

बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च।

करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा॥२१॥

सक्षौद्रैर्द्विनिशारोध्रपटोलीयष्टिकिंशुकैः।

कुरण्टमुकुलोपेतैर्मुञ्चैदेवाह्नि सप्तमे॥२२॥

सम्यक्‌ छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान्‌ गदान्‌।

सेकाञ्जनप्रभृतिभिर्जयेल्लेखनबृंहणैः॥२३॥

सितामनःशिलैलेयलवणोत्तमनागरम्‌।

अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम्‌॥२४॥

अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशेषजित्‌।

त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम्‌॥२५॥

शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः।

पृथक्शेषौषधरसैः पृथगेव च भाविता॥२६॥

सा मषी शोषिता पेष्या भूयो द्विलवणान्विता।

त्रीण्येतान्यञ्जनान्याह लेखनानि परं निमिः॥२७॥

सिराजाले सिरा यास्तु कठिना लेखनौषधैः।

न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम्‌॥२८॥

दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम्‌।

तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते॥२९॥

त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत्‌।

सिरायाऽनु हरेद्रक्तं जलौकोभिश्च लोचनात्‌॥३०॥

सिद्धेनोत्पलकाकोलीद्राक्षायष्टिविदारिभिः।

ससितेनाजपयसा सेचनं सलिलेन वा॥३१॥

रागाश्रुवेदनाशान्तो परं लेखनमञ्जनम्‌।

वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः॥३२॥

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम्‌।

दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः॥३३॥

सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः।

क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवर्तयेत्‌॥३४॥

तमालपत्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम्‌।

ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी॥३५॥

रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्यूषणं त्रुटिः।

करञ्जबीजं लशुनो व्रणसादि च भेषजम्‌॥३६॥

सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नमञ्जनम्‌।

निमन्मुन्नमयेत्स्नेहपाननस्यरसाञ्जनैः॥३७॥

सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम्‌।

शुद्धशुक्रे निशायष्टीसारिवाशाबराम्भसा॥३८॥

सेचनं रोध्रपोटल्या कोष्णाम्भोमग्नयाऽथवा।

बृहतीमूलयष्ट्याह्वताम्रसैन्धवनागरैः॥३९॥

धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम्‌।

यवाज्यामलकीपत्रैर्बहुशो धूपयेत्ततः॥४०॥

तत्र कुर्वीत गुटिकास्ता जलक्षौद्रपेषिताः।

महानीला इति ख्याताः शुद्धशुक्रहराः परम्‌॥४१॥

स्थिरे शुक्रे घ्नो चास्य बहुशोऽपहरेदसृक्‌।

शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः॥४२॥

कुर्यान्मरिचवैदेहीशिरीषफलसैन्धवैः।

हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा॥४३॥

कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ।

शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः॥४४॥

सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः।

धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः॥४५॥

उषितः शोषितश्चूर्णः शुक्रहर्षणमञ्जनम्‌।

मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः॥४६॥

सारो मधूकान्मधुमान्‌ मज्जा वाऽक्षात्समाक्षिका।

गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः॥४७॥

वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी।

उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर्लिखेत्‌॥४८॥

सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत्‌।

पुण्ड्र्यष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम्‌॥४९॥

कल्कितं छागदुग्धेन सघृतैर्धूपितं यवैः।

धात्रीपत्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम्‌॥५०॥

अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत्‌।

अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे॥५१॥

वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः।

कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम्‌॥५२॥

नालिकेरास्थिभल्लाततालवंशकरीरजम्‌।

भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्‌॥५३॥

चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम्‌।

साध्येषु साधनायालमिदमेव च शीलितम्‌॥५४॥

अजकां पार्श्वतो विध्वा सूच्या विस्राव्य चोदकम्‌।

समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्‌॥५५॥

व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च।

सप्तरात्राद्‌ व्रणे रूढे कृष्णभागे समे स्थिरे॥५६॥

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा।

तथाऽपि पुनराध्माने भेदच्छेदादिकां क्रियाम्‌॥५७॥

युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्‌॥५७.१.२॥

नित्यं च शुक्रेषु शृतं यथास्वं

पाने च मर्शे च घृतं विदध्यात्‌।

न हीयते लब्धबला तथाऽन्त-

स्तीक्ष्णाञ्जनैर्दृक्‌ सततं प्रयुक्तैः॥५८.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगप्रतिषेधो नाम एकादशोऽध्यायः॥११॥

Last updated on September 2nd, 2021 at 10:44 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi