चरकसंहिता
चिकित्सास्थानम् ।
प्रथमोऽध्याय:।
रसायनाध्याये प्रथम: पाद: ।
अथातोऽभयामलकीयं रसायनपादं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् । प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥१॥
विद्याद्भेषजनामानि भेषजं द्विविधं च तत् । स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत् ॥४॥
अभेषजं च द्विविधं बाधनं सानुबाधनम् ।
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥५॥
प्राय:, प्रायेण रोगाणां द्वितीयं प्रशमे मतम् । प्राय:शब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत् ॥
दीर्घमायु: स्मृतिं मेधामारोग्यं तरुणं वय: । प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥७॥
वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् । लाभोपायो हि शस्तानां रसादीनां रसायनम्॥८॥
अपत्यसंतानकरं यत् सद्य: संप्रहर्षणम् । वाजीवातिबलो येन यात्यप्रतिहत: स्त्रिय: ॥९॥
भवत्यतिप्रिय: स्त्रीणां येन येनोपचीयते । जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥१०॥
प्रभूतशाख: शाखीव येन चैत्यो यथा महान् । भवत्यर्च्यो बहुमत: प्रजानां सुबहुप्रज: ॥११॥
संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते । यश: श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥१२॥
स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम् । यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥१३॥
चिकित्सितार्थ एतावान् विकाराणां यदौषधम् । रसायनविधिश्चाग्रे वाजीकरणमेव च ॥१४॥
अभेषजमिति ज्ञेयं विपरीतं यदौषधात् तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥१५॥
रसायनानां द्विविधं प्रयोगमृषयो विदु: । कुटीप्रावेशिकं चैव वातातपिकमेव च ॥१६॥
कुटीप्रावेशिकस्यादौ विधि: समुपदेक्ष्यते । नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥१७॥
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम् ॥१८॥
विस्तारोत्सेधसंपन्नां त्रिगर्भां सूक्ष्मलोचनाम् । घनभित्तिमृतुसुखां सुस्पष्टां मनस: प्रियाम् ॥१९॥
शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम् । इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥२०॥
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते । मुहूर्तकरणोपेते प्रशस्ते कृतवापन: ॥२१॥
धृतिस्मृतिबलं कृत्वा श्रद्दधान: समाहित:। विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन् ॥२२॥
देवता: पूजयित्वाऽग्ने द्विजातींश्च प्रदक्षिणम् । देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् ॥२३॥
तस्यां संशोधनै: शुद्ध: सुखी जातबल: पुन:। रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥२४॥
हरीतकीनां चूर्णानि सैन्धवामलके गुडम् । वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥२५॥
पिबेदुष्णाम्बुना जन्तु: स्नेहस्वेदोपपादित: । तेन शुद्धशरीराय कृतसंसर्जनाय च ॥२६॥
त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा । सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चस: ॥२७॥
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् । वय:प्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥२८॥
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् । दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ॥२९॥
आयुष्यां पौष्टिकीं धन्यां वयस: स्थापनीं पराम् । सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥३०॥
कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् । अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥३१॥
हृद्रोगं सशिरोरोगमतीसारमरोचकम् । कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ॥३२॥
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् । श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ॥३३॥
स्त्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसो: । स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥३४॥
(अजीर्णिनो रूक्षभुज: स्त्रीमद्यविषकर्शिता: । सेवेन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये ॥३५॥
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि । यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्यय: ॥३६॥
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशै: । हरीतकीनां शस्यानि भिषगामलकस्य च ॥३७॥
ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तम: । तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥३८॥
आपूर्णरसवीर्याणी काले काले यथाविधि । आदित्यपवनच्छायासलिलप्रीणितानि च ॥३९॥
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च । तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥४०॥
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् । हरीतकीसहस्त्रं च त्रिगुणामलकं नवम् ॥४१॥
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् । विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् । पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च ॥४३॥
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥४४॥
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् । भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि ॥४५॥
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् । हरीतकीश्च ता: सर्वा: सर्वाण्यामलकानि च ॥४६॥
तानि सर्वाण्यस्थीनि फलान्यापोथ्य कूर्चनै: । विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥४७॥
मण्डूकपर्ण्या: पिप्पल्या: शङ्खपुष्प्या: प्लवस्य च । मुस्तानां सविडङ्गनां चन्दनागुरुणोस्तथा ॥४८॥
मधुकस्य हरिद्राया वचाया: कनकस्य च । भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥४९॥
सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम् । तैलस्य व्द्याढकं तत्र दद्यात् त्रीणि च सर्पिष: ॥५०॥
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना । ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥५१॥
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने । तिष्ठेत्संमूर्च्छितं तस्य मात्रां काले प्रयोजयेत् ॥५२॥
या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति । षष्टिक: पयसा चात्र जीर्णे भोजनमिष्यते ॥५३॥
वैखानसा वालखिल्यास्तथा चान्ये तपोधना: । रसायनमिदं प्राश्य बभूवुरमितायुष: ॥५४॥
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वय: । वीततन्द्राक्लमश्वासा निरातङ्काः समाहिता: ॥५५॥
मेधास्मृतिबलोपेताश्चिररात्रं तपोधना: । ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥५६॥
रसायनमिदं ब्राह्ममायुष्काम: प्रयोजयेत् । दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते ॥५७॥
(इति ब्राह्मरसायनम्)
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् । तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचा- विडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरस- परिपीतमनातपशुष्कं द्विगुणितसर्पिषा वा क्षौद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरध: स्थापयेदन्तर्भूमे: पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रात: प्रात: प्रयुञ्जानोऽग्निबलमभिसमीक्ष्यजीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥५८॥
भवन्ति चात्र –
इदं रसायनं ब्राह्मं महर्षिगणसेवितम् । भवत्यरोगो दीर्घायु: प्रयुञ्जानो महाबल: ॥५९॥
कान्त: प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युति: । श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥६०॥
धरणीधरसारश्च वायुना समविक्रम: । स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥६१॥
(इति द्वितीयं ब्राह्मरसायनम्)
बिल्वोऽग्निमन्थ: श्योनाक: काश्मर्य: पाटलिर्बला । पर्ण्यश्चतस्र: पिप्पल्य: श्वदंष्ट्रा बृहतीद्वयम् ॥६२॥
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु । अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ॥६३॥
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् । विदारी वृषमूलानि काकोली काकनासिका ॥६४॥
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च । पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥६५॥
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषो: ॥६६॥
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् । मत्स्याण्डिकाया: पूताया लेहवत्साधु साधयेत् ॥६७॥
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् । चतुष्पलं तुगाक्षीर्या: पिप्पलीद्विपलं तथा ॥६८॥
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् । इत्ययं च्यवनप्राश: परमुक्तो रसायन: ॥६९॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धन: ॥७०॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ॥७१॥
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् । अस्य प्रयोगाच्च्यवन: सुवृद्धोऽभूत् पुनर्युवा ॥७२॥
मेधां स्मृतिं कान्तिमनामयत्वमायु:प्रकर्षं बलमिन्द्रियाणाम् ॥
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥७३॥
रसायनस्यास्य नर: प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् ।
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥७४॥
(इति च्यवनप्राश: ।)
अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना तस्यान्ते यवाग्वादिभि: प्रत्यवस्थापनम्, अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य, प्रतिभोजनं यूषेण पयसा वा पष्टिक: ससर्पिष्कः, अत: परं यथासुखविहार: कामभक्ष्य: स्यात् । अनेन प्रयोगेणर्षय: पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकारा: परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तप: ॥७५॥
(इति चतुर्थामलकरसायनम।)
हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्क संप्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसंप्रयुक्तेन च सर्पिष: कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यांशालि षष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचार व्यपगतभय: शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भ: परमायुरवाप्नुयात् ॥७६॥ (इति पञ्चमो हरीतकीयोग:।)
हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसंप्रयुक्तं पाणितलमात्रं प्रात: प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति, श्रुतमवतिष्ठते, सर्वामया: प्रशाम्यान्ति, विषमविषं भवति गात्रे, गात्रमश्मवत् स्थिरीभवति, अधृष्यो भूतानां भवति ॥७७॥
भवन्ति चात्र –
यथाऽमराणाममृतं यथा भोगवतां सुधा । तथाऽभवन्महर्षीणां रसायनविधि: पुरा ॥७८॥
न जरां न च दौर्बल्यं नातुर्यं निधनं न च । जग्मुर्वर्षसहस्राणि रसायनपरा: पुरा ॥७९॥
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥८०॥
तत्र श्लोक: –
अभयामलकीयेऽस्मिन् षड्योगा: परिकीर्तिता: । रसायनानां सिद्धानामायुर्यैरनुवर्तते ॥८१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपाद: प्रथम: ॥१॥
चरकसंहिता
चिकित्सास्थानम् ।
रसायनाध्याये द्वितीय: पाद:।
अथात: प्राणकामीयं रसायनपादं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
प्राणकामा: शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयस: स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् । अनेन च्यवनादयो महर्षय: पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवु:, स्थिरसमसुविभक्तमांसा:, सुसंहतस्थिरशरीरा:,सुप्रसन्नबलवर्णेन्द्रिया:,सर्वत्राप्रतिहतपराक्रमा:,क्लेशसहाश्च। सर्वेशरीरदोषा भवन्ति ग्राम्याहारादम्ललवण- कटुकक्षारशुष्कशाकमांसतिलपलपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोध- शोकलोभमोहायासबहुलानाम्; अतो निमित्तं हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धय:, विदह्यते रक्तं, विष्यन्दते चानल्पं मेद:, न सन्धीयतेऽस्थिषु मज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योज:; स एवंभूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साह: श्वसिति, असमर्थश्चेष्टानां शरीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति । तस्मादेतान् दोषानवेक्षमाण: सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच ॥३॥
आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसंप्रयुक्तेन सर्पिष: साधयेदाढकम्, अत: परं विदारीस्वरसेन जीवन्तीकल्कसंप्रयुक्तेन, अत: परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरी कल्कसंयुक्तेन; अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत्; तद्यथोक्तेन विधिना यथाग्नि प्रात: प्रात: प्रयोजयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् । अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति, श्रुतमवतिष्ठते, सर्वामया: प्रशाम्यन्ति, अप्रतिहतगति: स्त्रीषु, अपत्यवान् भवतीति ॥४॥
भवतश्चात्र –
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च ।
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ॥५॥
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य ॥६॥
(इत्यामलक घृतम्)
आमलकसहस्रं पिप्पलीसहस्रसंप्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्, तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमे: । तस्योत्तरकालमग्निबलसमां मात्रां खादेत्, पौर्वाह्णिक: प्रयोगो नापराह्णिक:, सात्म्यापेक्षश्चाहारविधि:। अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीत समानं पूर्वेण ॥७॥ (इत्यामलकावलेहः)
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्; तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत्; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥८॥
(इत्यामलकचूर्णम्)
विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलाया: सर्पिस्तैलमध्वाढकै: षड्भिरेकीकृतं घृतभानजस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशी: ॥९॥
(इति विडङ्गावलेह: ।)
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुन: सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोग:, अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥१०॥
(इत्यामलकावलेहोऽपर:।)
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशान- चैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराण- पर्णान्यसंजातान्यपर्णानि तपसि तपस्ये वा मासे शुचि: प्रयत: कृतदेवार्चन: स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबला- मूलान्युद्धरेत्, तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रात: प्रयोजयेत्, चूर्णीकृतानि वा पिबेत् पयसा, मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् । संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥११॥
(इति नागबलारसायनम् ।)
बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसा: पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याता: । स्वरसानामलाभे त्वयं स्वरसविधि:-चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ॥१२॥
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीर: । पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिंषाऽन्तर्मुखमभ्यज्य । तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशत: प्रयोज्यानि, नात: परमुत्कर्ष: । प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोग: । जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनमुपचार:, प्रयोगान्ते च द्विस्तावत् पयसैवोपचार: । तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥१३॥
( इति भल्लातकक्षीरम् ।)
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत्; तेषां य: स्वरस: कुम्भं प्रपद्येत, तमष्टभागमधुसंप्रयुक्तं द्विगुणघृतमद्यात्; तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ॥१४॥
(इति भल्लातकक्षौद्रम् ।)
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ॥१५॥
(इति भल्लातकतैलम् । )
भल्लातकसर्पि:, भल्लातकक्षीरं, भल्लातक्षौद्रं, गुडभल्लातकं, भल्लातकयूष:, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तव:,भल्लातकलवणं, भल्लातकतपर्णम्, इति भल्लातकविधानमुक्तं भवति ॥१६॥
भवन्ति चात्र –
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च । भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥१७॥
एते दशविधास्त्वेषां प्रयोगा: परिकीर्तिता: । रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत् ॥१८॥
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन ।
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ॥१९॥
(इति भल्लातकविधि: ।)
प्राणकामा: पुरा जीर्णायवनाद्या महर्षय: । रसायनै: शिवैरेतैर्बभूवुरमितायुष: ॥२०॥
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च । दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गता: ॥२१॥
तस्मादायु:प्रकर्षार्थं प्राणकामै: सुखार्थिभि: । रसायनविधि: सेव्यो विधिवत्सुसमाहितै: ॥२२॥
तत्र श्लोक:–
रसायानानां संयोगा: सिद्धा भूतहितैषिणा । निर्दिष्टा: प्राणकामीये सप्तत्रिंशन्महर्षिणा ॥२३॥
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीय: ॥२॥
चरकसंहिता
चिकित्सास्थानम् ।
रसायनाध्याये तृतीय: पाद:।
अथात: करप्रचितीयं रसायनपादं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थनं शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रि:सप्तकृत्व: स्वरसपरिपीतानां पुन: शुष्कचूर्णिकृतानामाढकमेकं ग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजनननानां शुक्रजननानां वय:स्थापनानां षड्विरेचनशताश्रितियोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुश: कृत्तानामभयाबिभीतकपिप्पलीवचाचव्याचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमय:स्थाल्यां निधापयेत् सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसंप्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति ॥३॥
भवन्ति चात्र –
एतद्रसायनं पूर्वं वसिष्ठ: कश्यपोऽङ्गिरा: । जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधा: ॥४॥
प्रयुज्य प्रयता मुक्ता: श्रमव्याधिजराभयात् । यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबला: ॥५॥
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम् । जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ॥६॥
(इत्यामलकायसं ब्राह्मरसायनम्)
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च । रसायनविधानेन कालयुक्तेन चायुषा ॥७॥
स्थिता महर्षय: पूर्वं, नहि किञ्चद्रसायनम् । ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्॥८॥
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा । सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रिय: ॥९॥
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्।
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम् ॥१०॥
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम् । गृहित्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ॥११॥
तदा ह्यवश्यममृतं वसत्यामलके क्षणम् । शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥१२॥
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् । जीवेद्वर्षसहस्राणि तावन्त्यागतयौवन: ॥१३॥
सौहित्यमेषां गत्वा तु भवत्यमरसन्तिभ: । स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी ॥१४॥
(इति केवलामलकरसायनम् ।)
त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे । क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥१५॥
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् । चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥१६॥
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् । तानि चूर्णानि मधुना रसेनामलकस्य च ॥१७॥
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते । संवत्सरं निधेयानि यवपल्ले तथैव च ॥१८॥
दद्यादालोडनं मासे सर्वत्रालोडयन् बुध: । संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥१९॥
प्रात: प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् । एष एव च लौहानां प्रयोग: संप्रकीर्तित: ॥२०॥
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना । स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रिय:॥२१॥
धीमान् यशस्वी वाक्सिद्ध: श्रुतधारी महाधन: ।
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम् ॥२२॥
अनेनैव विधानेन हेम्नश्च रजतस्य च आयु:प्रकर्षकृत्सिद्ध: प्रयोग: सर्वरोगनुत् ॥२३॥
(इति लौहादिरसायनम् )
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला। पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥२४॥
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना । द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च ॥२५॥
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत् । घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ॥२६॥
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् । आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् ॥२७॥
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम् । नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्॥२८॥
श्वित्रं सकुष्ठं जठराणि गुल्मा: प्लीहा पुराणो विषमज्वरश्च ।
मेधास्मृतिज्ञानहराश्च रोगा: शाम्यन्त्यनेनातिबलाश्च वाता: ॥२९॥
(इत्यैन्द्रं रसायनम् )
मण्डूकपर्ण्या: स्वरस: प्रयोज्य: क्षीरेण यष्टीमधुकस्य चूर्णम्।
रसो गुडूच्यास्तु समूलपुष्प्या: कल्क: प्रयोज्य: खलु शङ्खपुष्प्या: ॥३०॥
आयु:प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥३१॥
(इति मेध्यरसायनानि ।)
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा । रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥३२॥
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च । पिप्पल्य: किंशुकक्षारभाविता घृतभर्जिता:॥३३॥
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा । जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्॥३४॥
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् । वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ॥३५॥
(इति पिप्पलीरसायनम् )
क्रमवृद्धया दशाहानि दशपैप्पलिकं दिनम् । वर्धयेत् पयसा सांर्ध तथैवापनयेत् पुन: ॥३६॥
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा । पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ॥३७॥
पिष्टास्ता बलिभि: सेव्या:, शृता मध्यबलैर्नरै: । चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति ॥३८॥
दशपैप्पलिक: श्रेष्ठो मध्यम: षट् प्रकीर्तित:। प्रयोगो यस्त्रिपर्यन्त: स कनीयान् स चाबलै: ॥३९॥
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशम् । वयस: स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥४०॥
(इति पिप्पलीवर्धमानं रसायनम्। )
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥४१॥
प्रयोजयन् समामेकां त्रिफलाया रसायनम् । जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥४२॥
(इति त्रिफलारसायनम्)
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्।
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ॥४३॥
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते ।
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समा: शतम् ॥४४॥
(इति त्रिफलारसायनमपरम्।)
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा ।
त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ॥४५॥
(इति त्रिफलारसायनमपरम्।)
सर्वलोहै: सुवर्णेन वचया मधुसर्पिषा ।
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ॥ ४६॥
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा ।
भवत्यायु:प्रदा धन्या जरारोगनिबर्हणी ॥४७॥
(इति त्रिफलारसायनमपरम्।)
अनम्लं च कषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य संभव: ॥४८॥
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि ।
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत् ॥४९॥
वात पित्त कफघ्नैश्च निर्यूहैस्तत् सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥५०॥
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ॥५१॥
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतै: सह ।
तत् पीतं पयसा दद्याद्दीर्घमायु: सुखान्वितम् ॥५२॥
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत् ॥५३॥
प्रयोग: सप्तसप्ताहास्त्रयश्चैकश्च सप्तक: ।
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥५४॥
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता ।
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यत: परम् ॥५५॥
हेमाद्या: सूर्यसंतप्ता: स्रवन्ति गिरिधातव: ।
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥५६॥
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च य: ।
कटुर्विपाके शीतश्च सुवर्णस्य निस्रव: ॥५७॥
रूपस्य कटुक: श्वेत: शीत: स्वादु विपच्यते ।
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्ण: पच्यते कटु ॥५८॥
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वित: ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठ: स चायस: ॥५९॥
गोमूत्रगन्धय: सर्वे सर्वकर्मसु यौगिका: ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥६०॥
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषत: प्रशस्यन्ते मला हेमादिधातुजा: ॥६१॥
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत् ॥६२॥
ते अत्यन्तविरुद्धत्वादश्मनो भेदना: परम् ।
लोके दृष्टास्ततस्तेषां प्रयोग: प्रतिषिध्यते ॥६३॥
पयांसि तक्राणि रसा: सयूषास्तोयं समूत्रा विविधा: कषाया:।
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्या: प्रसमीक्ष्य कार्यम् ॥६४॥
न सोऽस्ति रोगो भुवि साध्यरूप: शिलाह्वयं यं न जयेत् प्रसह्य ।
तत् कालयोगैर्विधिभि: प्रयुक्तं स्वस्थस्य चोर्जा विपुलां ददाति ॥६५॥
(इति शिलाजतुरसायनम्)
तत्र श्लोक: –
करप्रचितिके पादे दश षट् च महर्षिणा ।
रसायनानां सिद्धानां संयोगा: समुदाहृता: ॥६६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये
करप्रचितीयो नाम रसायनपादस्तृतीय: ॥१॥
चरकसंहिता
चिकित्सास्थानम् ।
रसायनाध्याये चतुर्थ: पाद:।
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय:॥२॥
ऋषय: खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहारा: सन्त: सांपन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवु: । ते सर्वासामितिकर्तव्यतानामसमर्था: सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यम- सुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधि- प्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षय: ॥३॥
तानिन्द्र: सहस्रदृगमरगुरुरब्रवीत्–स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् । अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृत: पुण्यकृद्भिरनुग्रह: प्रजानां, स्वशरीरमवेक्षितुं काल: कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मन: प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतममायु:प्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्त: श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥४॥
तुच्छ्रुत्वा विबुधपतिवचनमृषय: सर्व एवामरवरमृग्भिस्तुष्टुवु:, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ॥५॥
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्य: संक्रम्योवाच –एतत् सर्वमनुष्ठेयम्, अयं च शिव: कालो रसायनानां, दिव्यश्चौषधयो हिमवत्प्रभवा: प्राप्तवीर्या:; तद्यथा–ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, मेहामेदा, जीवनीयाश्चान्या: पयसा प्रयुक्ता: षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसंपदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धा: ॥६॥
( इतीन्द्रोक्तं रसायनम् )
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च, नारीनामौषधि: ‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा, काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधि: सर्पाकारा, सोमो नामौषधिराज: पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधि: पद्माकारा पद्मरक्ता पद्मगन्धा च, अजा नामौषधि: ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति, आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्या: स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासा: शयीत, तत्र प्रलीयते, षण्मासेन पुन: संभवति, तस्याजं पय: प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभि:, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षु: श्रोत्रं च भवति, गतिर्योजनसहस्रं, दशवर्षसहस्राण्यायुरनुपद्रवं चेति ॥७॥
भवन्ति चात्र –
दिव्यानामोषधीनां य: प्रभाव: स भवद्विधै:।
शक्य: सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभि: ॥८॥
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि । भवतां निखिलं श्रेय: सर्वमेवोपपत्स्यते ॥९॥
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभि: । शक्या ओषधयो ह्येता: सेवितुं विषयाभिजा: ॥१०॥
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा । मृदुवीर्यतरास्तासां विधिर्ज्ञेय: स एव तु ॥११॥
पर्येष्टुं ता: प्रयोक्तुं वा येऽसमर्था: सुखार्थिन: । रसायनविधिस्तेषामयमन्य: प्रशस्यते ॥१२॥
बल्यानां जीवनीयानां बृंहणीयाश्च या दश । वयस: स्थापनानां च खदिरस्यासनस्य च॥१३॥
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च । मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ॥१४॥
शतावर्या: पयस्याया: पिपल्या जोङ्गकस्य च । ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च॥१५॥
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च ।
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ॥१६॥
रसा: पृथक् पृथग्ग्राह्या: पलाशक्षार एव च ।
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ॥१७॥
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिष: । तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत् ॥१८॥
तत्रामलकचूर्णानामाढकं शतभावितम् । स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥१९॥
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् । तुगाक्षीर्या: सपिप्पल्या: स्थाप्यं संमूर्च्छितं च तत् ॥२०॥
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते । मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत् ॥२१॥
हेमताम्रप्रवालानामयस: स्फटिकस्य च । मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च ॥२२॥
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम् । जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ॥२३॥
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम् । सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ॥२४॥
परमूर्जस्करं चैव वर्णस्वरकरं तथा । विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥२५॥
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके ।
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम् ॥२६॥
(इतीन्द्रोक्तरसायनमपरम्)
समर्थानामरोगाणां धीमतां नियतात्मनाम् । कुटीप्रवेश: क्षणिनां परिच्छदवतां हित: ॥२७॥
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधि: ।
तयो: श्रेष्ठतर: पूर्वो विधि: स तु सुदुष्कर: ॥२८॥
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि । यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ॥
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् । अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥३०॥
जपशौचपरं धीरं दाननित्यं तपस्विनम् । देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ॥३१॥
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् । समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ॥३२॥
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम् । शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम् ॥३३॥
उपासितारं वृद्धानामास्तिकानां जितात्मनाम् । धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥३४॥
गुणैरेतै: समुदितै: प्रयुङ्क्ते यो रसायनम् । रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ॥३५॥ (इत्याचाररसायनम्)
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान् । रसायनगुणैर्जन्तुर्युज्यते न कदाचन ॥३६॥
योगा ह्यायु: प्रकर्षार्था जरारोगनिबर्हणा: । मन:शरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥३७॥
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु । अरुजेभ्योऽद्विजातिभ्य: शुश्रूषा येषु नास्ति च ॥३८॥
ये रसायनसंयोगा वृष्ययोगाश्च ये मता: । यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ॥३९॥
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम् । आश्विनाविव देवेन्द्र: पूजयेदतिशक्तित: ॥४०॥
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ । यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥४१॥
प्रशीर्णा दशना: पूष्णो नेत्रे नष्टे भगस्य च । वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सित: ॥४२॥
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा । सोमाभिपतितश्चन्द्र: कृतस्ताभ्यां पुन:सुखी ॥४३॥
भार्गवश्च्यवन: कामी वृद्ध: सन् विकृतिं गत: । वीतवर्णस्वरोपेत: कृतस्ताभ्यां पुनर्युवा ॥४४॥
एतैश्चान्यैश्च बहुभि: कर्मभिर्भिषगुत्तमौ । बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ॥४५॥
ग्रहा: स्तोत्राणि मन्त्राणि तथा नानाहवींषि च ।
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभि: ॥४६॥
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते ।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ॥४७॥
इन्द्राग्नी चाश्वनौ चैव स्तूयन्ते प्रायशो द्विजै: ।
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवता: ॥४८॥
अजरैरमरैस्तावद्विबुधै: साधिपैर्ध्रुवै: ।
पूज्येते प्रयतैरेवमश्विनौ भिषजाविति ॥४९॥
मृत्युव्याधिजरावश्यैर्दु:खप्रायै: सुखार्थिभि: ।
किं पुनर्भिषजो मर्त्यै: पूज्या: स्युर्नातिशक्तित: ॥५०॥
शीलवान्मतिमान् युक्तो द्विजाति: शास्त्रपारग: ।
प्राणिभिर्गुरुवत् पूज्य प्राणाचार्य: स हि स्मृत: ।५१॥
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते । अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥५२॥
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा । ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विज: स्मृत:॥५३॥
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत् । प्राणाचार्यं बुध: कश्चिदिच्छन्नायुरनित्वरम् ॥५४॥
चिकित्सितस्तु संश्रुत्य यो वाऽसंश्रुत्य मानव: ।
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृति: ॥५५॥
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम् ॥५६॥
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभि: । प्रकाशितो धर्मपरैरिच्छद्भि: स्थानमक्षरम् ॥५७॥
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति । वर्तते यश्चिकित्सायां स सर्वमतिवर्तते ॥५८॥
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम् । ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ॥५९॥
दारुणै: कृष्यमाणानां गदैर्वैवस्वतक्षयम् । छित्त्वा वैवस्वतान् पाशान् जीवितं य: प्रयच्छति ॥६०॥
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते । न हि जीवितदानाद्धि दानमन्यद्विशिष्यते ॥६१॥
परो भूतदया धर्म इति मत्वा चिकित्सया । वर्तते य: स सिद्धार्थ: सुखमत्यन्तमश्नुते ॥६२॥
तत्र श्लोकौ –
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम् । अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥६३॥
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वर: । आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ॥६४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थ: ॥४
समाप्तश्चायं रसायनाध्यायः ॥
Last updated on June 15th, 2021 at 12:08 pm