सुश्रुतसंहिता ।
अथ निदानस्थानं
नवमोऽध्यायः ।
अथातो विद्रधीनां निदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः |
शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम् ||३||
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः |
दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||४||
महामूलं रुजावन्तं वृत्तं चा(वाऽ)प्यथवाऽऽयतम् |
तमाहुर्विद्रधिं धीरा, विज्ञेयः स च षड्विधः ||५||
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा |
षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||६||
कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः |
चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||७||
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् |
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||८||
शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः |
चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः ||९||
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |
नानावर्णरुजास्रावो घाटालो विषमो महान् ||१०||
विषमं पच्यते चापि विद्रधिः सान्निपातिकः |
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ||११||
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् |
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||१२||
एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः |
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः ||१३||
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |
उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः ||१४||
आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते |
गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात् ||१५||
अतिव्यवायव्यायामवेगाघातविदाहिभिः |
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||१६||
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् |
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१७||
वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा |
तेषां लिङ्गानि जानीयाद्बाह्यविद्रधिलक्षणैः ||१८||
आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत् |
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः ||१९||
गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता |
नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् ||२०||
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ |
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् ||२१||
सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः |
श्वासो यकृति तृष्णा च पिपासाक्लोमजेऽधिका ||२२||
आमो वा यदि वा पक्वो महान् वा यदि वेतरः |
सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते ||२३||
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |
जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति ||२४||
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः |
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||२५||
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः |
दाहज्वरकरो घोरो जायते रक्तविद्रधिः ||२६||
अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम् |
रक्तजं विद्रधिं कुर्यात् कुक्षौ मक्कल्लसञ्ज्ञितम् ||२७||
सप्ताहान्नोपशान्तश्चेत्ततोऽसौ सम्प्रपच्यते |
विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः ||२८||
गुल्मदोषसमुत्थानाद्विद्रधेर्गुल्मकस्य च |
कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च ||२९||
न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः |
गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते ||३०||
विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा |
एवम्प्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति ||३१||
मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः |
मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति ||३२||
गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते |
विद्रधिः पच्यते तस्माद्गुल्मश्चापि न पच्यते ||३३||
हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः |
अथ मज्जपरीपाको घोरः समुपजायते ||३४||
सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा |
ततः स व्याधिना तेन ज्वलनेनेव दह्यते ||३५||
अस्थि(थ) मज्जोष्मणा तेन शीर्यते दह्यमानवत् |
विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् ||३६||
अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा |
ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ||३७||
भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः |
विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् ||३८||
इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमोऽध्यायः ||९||
Last updated on May 31st, 2021 at 05:34 am