चरकसंहिता
चिकित्सास्थानम् ।
अष्टविंशोऽध्याय: ।
अथातो वातव्याधिचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम् ।
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तित: ॥३॥
अव्याहतगतिर्यस्य स्थानस्थ: प्रकृतौ स्थित: ।
वायु: स्यात्सोऽधिकं जीवेद्वीतरोग: समा: शतम् ॥४॥
प्राणोदानसमानाख्यव्यानापानै: स पञ्चधा ।
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ॥५॥
स्थानं प्राणस्य मूर्धोर:कण्ठजिह्वास्यनासिका: ।
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च ॥६॥
उदानस्य पुन: स्थानं नाभ्युर: कण्ठ एव च ।
वाक्प्रवृत्ति: प्रयत्नौर्जोबलवर्णादि कर्म च ॥७॥
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठित: ।
अन्तरग्नेश्च पार्श्वस्थ: समानोऽग्निबलप्रद: ॥८॥
देहं व्याप्नोति सर्वं तु व्यान: शीघ्रगतिर्नृणाम् ।
गतिप्रसारणाक्षेपनिमेषादिक्रिय: सदा ॥९॥
वृषणौ बस्तिमेढ्रं च नाभ्यूरू वंक्षणौ गुदम् ।
अपानस्थानमन्त्रस्थ: शुक्रमूत्रशकृन्ति च ॥१०॥
सृजत्यार्तवगर्भौ च युक्ता: स्थानस्थिताश्च ते ।
स्वकर्म कुर्वते देहो धार्यते तैरनामय: ॥११॥
विमार्गस्था ह्ययुक्ता वा रोगै: स्वस्थानकर्मजै: ।
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ॥१२॥
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानत: ।
अशीतिर्नखभेदाद्या रोगा: सूत्रे निदर्शिता: ॥१३॥
तानुच्यमानान् पर्यायै: सहेतूपक्रमाञ्छृणु ।
केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम् ॥१४॥
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरै: ।
विषमादुपचाराच्च दोषासृक्स्रवणादति ॥१५॥
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितै: ।
धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात् ॥१६॥
दु:खशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि ।
वेगसंधारणादामादभिघातादभोजनात् ॥१७॥
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात् ।
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली ॥१८॥
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान् ।
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् ॥१९॥
आत्मरूपं तु तद्व्यक्तमपायो लघुता पुन: ।
सङ्कोच: पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि ॥२०॥
लोमहर्ष: प्रलापश्च पाणिपृष्ठशिरोग्रह: ।
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता ॥२१॥
गर्भशुक्ररजोनाश: स्पन्दनं गात्रसुप्तता ।
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् ॥२२॥
भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च ।
एवंविधानि रूपाणि करोति कुपितोऽनिल: ॥२३॥
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत् ।
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसो: ॥२४॥
ब्रध्नहृद्रोगगुल्मार्श:पार्श्वशूलं च मारुते ।
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने ॥२५॥
वेदनाभि: परीतश्च स्फुटन्तीवास्य सन्धय: ।
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्करा: ॥२६॥
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदस्थिते ।
हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिका: ॥२७॥
कास: कण्ठस्यशोषश्च श्वासश्चामाशयस्थिते ।
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च ॥२८॥
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ।
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरण: ॥२९॥
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते ।
आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले ॥३०॥
रुजस्तीव्रा: ससंतापा वैवर्ण्यं कृशताऽरुचि: ।
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ॥३१॥
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा ।
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले ॥३२॥
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षय: ।
अस्वप्न: संतता रुक् च मज्जास्थिकुपितेऽनिले ॥३३॥
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा ।
विकृतिं जनयेच्चापि शुक्रस्थ: कुपितोऽनिल: ॥३४॥
बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च ।
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिल: ॥३५॥
शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा ।
सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते ॥३६॥
वातपूर्णदृतिस्पर्श: शोथ: सन्धिगतेऽनिले ।
प्रसारणाकुञ्चनयो: प्रवृत्तिश्च सवेदना ॥३७॥
(इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च ।)
अतिवृद्ध: शरीरार्धमेकं वायु: प्रपद्यते ।
यदा तदोपशोष्यासृग्बाहुं पादं च जानु च ॥३८॥
तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च ।
वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा ॥३९॥
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम् ।
स्तब्धं नेत्रं कथयत: क्षवथुश्च निगृह्यते ॥४०॥
दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्य वाक् ।
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वर: ॥४१॥
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् ।
अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम् ॥४२॥
मन्ये संश्रित्य वातोऽन्तर्यदा नाडी: प्रपद्यते ।
मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञितम् ॥।४३॥
अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम् ।
दन्तानां दंशनं लाला पृष्ठायाम: शिरोग्रह: ॥४४॥
जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम् ।
(इत्युक्तस्त्वन्तरायामो बहिरायाम उच्यते ॥४५॥)
पृष्ठमन्याश्रिता बाह्या: शोषयित्वा सिरा बली ।
वायु: कुर्याद्धनुस्तम्भं बहिरायामसंज्ञकम् ॥४६॥
चापवन्नाम्यमानस्य पृष्ठतो नीयते शिर: ।
उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते ॥४७॥
दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रह: ।
जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति ॥४८॥
हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू ।
विवृतास्यत्वमथवा कुर्यात् स्तब्धमवेदनम् ॥४९॥
हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम् ।
मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिल: ॥५०॥
पाणिपादं च संशोष्य सिरा: सस्नायुकण्डरा: ।
पाणिपादशिर:पृष्ठश्रोणी: स्तभ्नाति मारुत:॥५१॥
दण्डवत्स्तब्धगात्रस्य दण्डक: सोऽनुपक्रम:।
स्वस्थ: स्यादर्दितादीनां मुहुर्वेगे गतेऽगते ॥५२॥
पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत् ।
हत्वैकं मारुत: पक्षं दक्षिणं वाममेव वा ॥५३॥
कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तम्भमेव च ।
गृहीत्वाऽर्धं शरीरस्य सिरा: स्नायूर्विशोष्य च ॥५४॥
पादं संकोचयत्येकं हस्तं वा तोदशूलकृत् ।
एकाङ्गरोगं तं विद्यात् सर्वाङ्गं सर्वदेहजम् ॥५५॥
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् ।
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहु: ॥५६॥
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता ।
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ॥५७॥
स्थानानामनुरूपैश्च लिङ्गै: शेषान् विनिर्दिशेत् ।
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ॥५८॥
वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा) ।
वातपित्तकफा देहे सर्वस्रोतोऽनुसारिण: ॥५९॥
वायुरेव हि सूक्ष्मत्वाद्द्वयोस्तत्राप्युदीरण: ।
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान् ॥६०॥
करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत् ।
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तम: ॥६१॥
कट्वम्ललवणोष्णैश्च विदाह: शीतकामिता ।
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ॥६२॥
लङ्घनायासरूक्षोष्णकामिता च कफावृते ।
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ॥६३॥
भवेत् सराग: श्वयथुर्जायन्ते मण्डलानि च ।
कठिनाश्च विवर्णाश्च पिडका: श्वयथुस्तथा ॥६४॥
हर्ष: पिपीलिकानां च संचार इव मांसगे ।
चल: स्निग्धो मृदु: शीत: शोफोऽङ्गेष्वरुचिस्तथा ॥६५॥
आढ्यवात इति ज्ञेय: स कृच्छ्रो मेदसाऽऽवृत: ।
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ॥६६॥
संभज्यते सीदति च सूचीभिरिव तुद्यते ।
मज्जावृते विनाम: स्याज्जृम्भणं परिवेष्टनम् ॥६७॥
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् ।
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ॥६८॥
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले ।
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृत्तेऽनिले ॥६९॥
वर्चसोऽतिविबन्धोऽध: स्वे स्थाने परिकृन्तति ।
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नर: ॥७०॥
चिरात् पीडितमन्नेन दु:खं शुष्कं शकृत् सृजेत् ।
श्रोणीवंक्षणपृष्ठेषु रुग्विलोमश्च मारुत: ॥७१॥
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले ।
सन्धिच्युतिर्हनुस्तम्भ: कुञ्चनं कुब्जताऽर्दित: ॥७२॥
पक्षाघातोऽङ्गसंशोष: पङ्गुत्वं खुडवातता ।
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ॥७३॥
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा ।
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ॥७४॥
क्रियामत: परं सिद्धां वातरोगापहां शृणु ।
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् ॥७५॥
वायुं सर्पिर्वसातैलमज्जपानैर्नरं तत: ।
स्नेहक्लान्तं समाश्वास्य पयोभि: स्नेहयेत् पुन: ॥७६॥
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतै: ।
पायसै: कृशरै: साम्ललवणैरनुवासनै: ॥७७॥
नावनैस्तर्पणैश्चान्नै: सुस्निग्धं स्वेदयेत्तत: ।
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करै: ॥७८॥
तथाऽन्यैर्विविधै: स्वेदैर्यथायोगमुपाचरेत् ।
स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा ॥७९॥
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत् ।
हर्षतोदरुगायामशोथस्तम्भग्रहादय: ॥८०॥
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते ।
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजित: ॥८१॥
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत् ।
असकृत्तं पुन: स्नेहै: स्वेदैश्चाप्युपपादयेत् ॥८२॥
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामया: ।
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति ॥८३॥
मृदुभि: स्नेहसंयुक्तैरौषधैस्तं विशोधयेत् ।
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा ॥८४॥
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम् ।
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चित: ॥८५॥
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् ।
दुर्बलो योऽविरेच्य: स्यात्तं निरूहैरुपाचरेत् ॥८६॥
पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम् ।
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ ॥८७॥
स्वाद्वम्ललवणस्निग्धैराहारै: सततं पुन: ।
नावनैर्धूमपानैश्च सर्वानेवोपपादयेत् ॥८८॥
इति सामान्यत: प्रोक्तं वातरोगचिकित्सितम् ।
विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नर: ॥८९॥
पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान् ।
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम् ॥९०॥
आमाशयस्थे शुद्धस्य यथादोषहरी: क्रिया:।
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तय: सानुवासना: ॥९१॥
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते ।
शीता: प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥९२॥
विरेको मांसमेद:स्थे निरूहा: शमनानि च ।
बाह्याभ्यन्तरत: स्नेहैरस्थिमज्जगतं जयेत् ॥९३॥
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् ।
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम् ॥९४॥
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम् ।
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ॥९५॥
सिताकाश्मर्यमधुकैर्हितमुत्थापने पय: ।
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ॥९६॥
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभि: ।
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम् ॥९७॥
तैलं संकुचितेऽभ्यङ्गो माषसैन्धवसाधितम् ।
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम्॥९८॥
बस्तिकर्म त्वधो नाभे: शस्यते चावपीडक: ।
अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च ॥९९॥
नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिता: ।
स्वेदनं स्नेहसंसक्तं पक्षाघाते विरेचनम् ॥१००॥
अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च ।
गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम् ॥१०१॥
पायसै: कृशरैर्मांसै: शस्तं तैलघृतान्वितै: ।
व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च ॥१०२॥
प्रदेशिनीभ्यां चोन्नाम्य चिबुकोन्नामनं हितम् ।
स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत् ॥१०३॥
प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत् ।
सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तय: ॥१०४॥
स्निग्धा: स्वेदा निवातं च स्थानं प्रावरणानि च ।
रसा: पयांसि भोज्यानि स्वाद्वम्ललवणानि च ॥१०५॥
बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम् ।
बलाया: पञ्चमूलस्य दशमूलस्य वा रसे ॥१०६॥
अजशीर्षाम्बुजानूपमांसादपिशितै: पृथक् ।
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान् ॥१०७॥
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम् ।
एतैरेवोपनाहांश्च पिशितै: संप्रकल्पयेत् ॥१०८॥
घृततैलयुतै: साम्लै: क्षुण्णस्विन्नैरनस्थिभि: ।
पत्रोत्क्वाथपयस्तैलद्रोण्य: स्युरवगाहने ॥१०९॥
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम् ।
आनूपौदकमांसानि दशमूलं शतावरीम् ॥११०॥
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम् ।
वसादध्यारनालाम्लै: सह कुम्भ्यां विपाचयेत् ॥१११॥
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम् ।
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च ॥११२॥
मुस्तं किण्वं तिला: कुष्ठं सुराह्वं लवणं नतम् ।
दधिक्षीरचतु:स्नेहै: सिद्धं स्यादुपनाहनम् ॥११३॥
उत्कारिकावेसवारक्षीरमाषतिलौदनै: ।
एरण्डबीजगोधूमयवकोलस्थिरादिभि: ॥११४॥
सस्नेहै: सरुजं गात्रमालिप्य बहलं भिषक् ।
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत् ॥११५॥
क्षीराम्बुना तत: सिक्तं पुनश्चैवोपनाहितम् ।
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभि: ॥११६॥
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान् ।
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि ॥११७॥
पायसै: कृशरैश्चैव कारयेत् स्नेहसंयुतै: ।
रूक्षशुद्धानिलार्तानामत: स्नेहान् प्रचक्ष्महे ॥११८॥
विविधान् विविधव्याधिप्रशमायामृतोपमान् ।
द्रोणेऽम्भस: पचेद्भागान् दशमूलाच्चतुष्पलान् ॥११९॥
यवकोलकुलत्थानां भागै: प्रस्थोन्मितै: सह ।
पादशेषे रसे पिष्टैर्जीवनीयै: सशर्करै: ॥१२०॥
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभि: ।
सक्षीरै: सर्पिष: प्रस्थ: सिद्ध: केवलवातनुत् ॥१२१॥
निरत्यय: प्रयोक्तव्य: पानाभ्यञ्जनबस्तिषु ।
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम् ॥१२२॥
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम् ।
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् ॥१२३॥
तस्य शुक्ति: प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले ।
ग्राम्यानूपौदकानां तु भित्त्वाऽस्थीनि पचेज्जले ॥१२४॥
तं स्नेहं दशमूलस्य कषायेण पुन: पचेत् ।
जीवकर्षभकास्फोताविदारीकपिकच्छुभि: ॥१२५॥
वातघ्नै र्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम् ।
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात् ॥१२६॥
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम् ।
ये स्यु: प्रक्षीणमज्जान: क्षीणशुक्रौजसश्च ये ॥१२७॥
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम् ।
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा ॥१२८॥
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते।
प्रस्थ: स्यात् त्रिफलायास्तु कुलत्थकुडवद्वयम् ॥१२९॥
कृष्णगन्धात्वगाढक्यो: पृथक् पञ्चपलं भवेत् ।
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम् ॥१३०॥
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक् ।
सुरारनालदध्यम्लसौवीरकतुषोदकम् ॥१३१॥
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम् ।
मज्जानं च पयश्चैव जीवनीयपलानि षट् ॥१३२॥
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत् ।
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु ॥१३३॥
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत् ।
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं तत: ॥१३४॥
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु ।
हितं पामापचीनां च पानाभ्यञ्जनपूरणम् ॥१३५॥
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत् ।
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि ॥१३६॥
तस्याम्लस्य त्रिभि: प्रस्थैस्तैलप्रस्थं विपाचयेत् ।
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरै: ॥१३७॥
सुपिष्टै: पलिकै: पानात्तदभ्यङ्गाच्च वातनुत् ।
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् ॥१३८॥
पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत् ।
पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत् ॥१३९॥
संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषत: ।
यवकोलकुलत्थानां श्रेयस्या: शुष्कमूलकात् ॥१४०॥
बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत् ।
तेन तैलं कषायेण फलाम्लै: कटुभिस्तथा ॥१४१॥
पिष्टै: सिद्धं महावातैरार्त: शीते प्रयोजयेत् ।
सर्ववातविकाराणां तैलान्यन्यान्यत: शृणु ॥१४२॥
चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च ।
रज:शुक्रप्रदोषघ्नान्यपत्यजननानि च ॥१४३॥
निरत्ययानि सिद्धानि सर्वदोषहराणि च ।
सहाचरतुलायाश्च रसे तैलाढकं पचेत् ॥१४४॥
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम् ।
सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक् ॥१४५॥
विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत् ।
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह ॥१४६॥
षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा ।
तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु ॥१४७॥
जीर्णे तैले च दुग्धेन पेयाकल्प: प्रशस्यते ।
बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम् ॥१४८॥
जलाढकशते पक्त्वा दशभागस्थिते रसे ।
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समै: ॥१४९॥
पचेत् साजपयोऽर्धांशै: कल्कैरेभि: पलोन्मितै: ।
शटीसरलदार्वेलामज्जिष्ठागुरुचन्दनै: ॥१५०॥
पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभि: ।
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकै: ॥१५१॥
पलाशरसकस्तूरीनलिकाजातिकोषकै: ।
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभि: ॥१५२॥
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकै: ।
लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभि: ॥१५३॥
स्थौणेयतगरध्यामवचामदनपल्लवै: ।
सनागकेशरै: सिद्धे क्षिपेच्चात्रावतारिते ॥१५४॥
पत्रकल्कं तत: पूतं विधिना तत् प्रयोजयेत् ।
श्वास कासं ज्वरं हिक्कां छर्दिं गुल्मान् क्षतं क्षयम् ॥१५५॥
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत् ।
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ॥१५६॥
(अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम् ।)
इति बलातैलम् ।
अमृतायास्तुला: पञ्च द्रोणेष्वष्टस्वपां पचेत् ॥१५७॥
पादशेषे समक्षीरं तैलस्य व्द्याढकं पचेत् ।
एलामांसीनतोशीरसारिवाकुष्ठचन्दनै: ॥१५८॥
बलातामलकीमेदाशतपुष्पर्धिजीवकै: ।
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखै: ॥१५९॥
महाश्रावणिजीवन्तीविदारीकपिकच्छुभि: ।
शतावरीमहामेदाकर्कटाख्याहरेणुभि: ॥१६०॥
वचागोक्षुरकैरण्डरास्नाकालासहाचरै: ।
वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकै: ॥१६१॥
सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकै: ।
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च ॥१६२॥
कल्कैस्तत् क्षीणवीर्याग्निबलसंमूढचेतस: ।
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत् ॥१६३॥
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम् ।
(कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम् ॥१६४॥)
इत्यमृताद्यं तैलम् ।
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत् ।
गन्धैर्हैमवतै: पिष्टैरेलाद्यैश्चानिलार्तिनुत् ॥१६५॥
कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये ।
क्वाथकल्कपयोभिर्वा बलदीनां पचेत् पृथक् ॥१६६॥
इति रास्नातैलम् ।
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम् ।
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवै: ॥१६७॥
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकै: ।
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजै: ॥१६८॥
पुष्कराह्वशटीबिल्वशताह्वानतदारुभि: ।
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान् ॥१६९॥
इति मूलकाद्यं तैलम् ।
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च ।
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत् ॥१७०॥
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा ।
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम् ॥१७१॥
इति वृषमूलादितैलम् ।
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृता: ॥१७२॥
स्योनाकदारुशम्पाकहयगन्धात्रिकण्टका: ।
एषां दशपलान् भागान् कषायमुपकल्पयेत् ॥१७३॥
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकै: ।
दध्यारनालभाषाम्बुमूलकेक्षुरसै: शुभै: ॥१७४॥
पृथक् प्रस्थोन्मितै: सार्धं तैलप्रस्थं विपाचयेत् ।
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् ॥१७५॥
एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम् ।
इति मूलकतैलम् ।
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयो: ।
रसेन मूलकानां च तैलं दधिपयोन्वितम् ॥१७६॥
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम् ।
लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत् ॥१७७॥
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च ।
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम् ॥१७८॥
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम् ।
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत् ॥१७९॥
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च ।
तानि चानिलशान्त्यर्थं सिद्धिकाम: प्रयोजयेत् ॥१८०॥
नास्ति तैलात् परं किंचिदौषधं मारुतापहम् ।
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्बलवत्तरम् ॥१८१॥
गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रश: ।
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् ॥१८३॥
क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते ।
वाते पित्तादिभि: स्रोत:स्वावृतेषु विशेषत: ॥१८४॥
पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम् ।
व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते ॥१८४॥
धन्वमांसं यवा: शालिर्यापना: क्षीरबस्तय: ।
विरेक: क्षीरपानं च पञ्चमूलीबलाशृतम् ॥१८५॥
मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम् ।
पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा ॥१८६॥
कफावृते यवान्नानि जाङ्गला मृगपक्षिण: ।
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ॥१८७॥
जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम् ।
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ॥१८८॥
आमाशयगतं मत्वा कफं वमनमाचरेत् ॥१८९॥
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा ।
स्वेदैर्विष्यन्दित: श्लेष्मा यदा पक्वाशये स्थित: ॥१९०॥
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत् ।
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतै: ॥१९१॥
निरूहै: पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतै: ।
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् ॥१९२॥
शिरोगते तु सकफे धूमनस्यादि कारयेत् ।
हृते पित्ते कफे य: स्यादुर:स्रोतोऽनुगोऽनिल: ॥१९३॥
सशेष: स्यात् क्रिया तत्र कार्या केवलवातिकी ।
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम् ॥१९४॥
प्रमेहवातमेदोघ्नीमामवाते प्रयोजयेत् ।
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिता: ॥१९५॥
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते ।
अन्नावृते तदुल्लेख: पाचनं दीपनं लघु ॥१९६॥
मूत्रलानि तु मूत्रेण स्वेदा: सोत्तरबस्तय: ।
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया ॥१९७॥
स्वस्थानस्थो बली दोष: प्राक् तं स्वैरौषधैर्जयेत् ।
वमनैर्वा विरेकैर्वा बस्तिभि: शमनेन वा ॥१९८॥
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् ।)
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु ॥१९९॥
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ !।
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च ॥२००॥
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् ।
विंशतिर्वरणान्येतान्युल्बणानां परस्परम् ॥२०१॥
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् ।
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् ॥२०२॥
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम् ।
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोष: सुप्तगात्रता ॥२०३॥
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् ।
प्राणावृते समाने स्युर्जडगद्गदमूकता: ॥२०४॥
चतुष्प्रयोगा: शस्यन्ते स्नेहास्तत्र सयापना: ।
समानेनावृतेऽपाने ग्रहणीपार्श्वहृद्गदा: ॥२०५॥
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते ।
शिरोग्रह: प्रतिश्यायो नि:श्वासोच्छ्वाससंग्रह: ॥२०६॥
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते ।
तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा ॥२०७॥
कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा ।
उदानेनावृते प्राणे तं शनै: शीतवारिणा ॥२०८॥
सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत् ।
ऊर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदा: ॥२०९॥
स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम् ।
मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते ॥२१०॥
वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम् ।
वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिका: ॥२११॥
लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत् ।
अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम् ॥२१२॥
अतिप्रवृत्तिस्तत्रापि सर्वं संग्रहणं मतम् ।
मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षय: ॥२१३॥
समानेनावृते व्याने व्यायामो लघुभोजनम् ।
स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम् ॥२१४॥
उदानेनावृते व्याने तत्र पथ्यं मितं लघु ।
पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणै: ॥२१५॥
(एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता ।
यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम् ॥२१६॥
सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये ।)
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ॥२१७॥
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम् ।
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि सर्वश: ॥२१८॥
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत् ।
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ॥२१९॥
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत् ।
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा ॥२२०॥
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान् ।
मूर्च्छा दाहो भ्रम: शूलं विदाह: शीतकामिता ॥२२१॥
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते ।
ष्ठीवनं क्षवथूद्गारनि:श्वासोच्छ्वाससंग्रह: ॥२२२॥
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च ।
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरस: क्लम: ॥२२३॥
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते ।
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रह: ॥२२४॥
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते ।
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव च ॥२२५॥
पित्तावृते समाने स्यादुपघातस्तथोष्मण: ।
अस्वेदो वह्निमाद्यं च लोमहर्षस्तथैव च ॥२२६॥
कफावृते समाने स्याद्गात्राणां चातिशीतता ।
व्याने पित्तावृते तु स्याद्दाह: सर्वाङ्गग: क्लम: ॥२२७॥
गात्रविक्षेपसङ्गश्च ससंताप: सवेदन: ।
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुज: ॥२२८॥
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिक: ।
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयो: ॥२२९॥
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम् ।
भिन्नामश्लेष्मसंसृष्टगुरुवर्च:प्रवर्तनम् ॥२३०॥
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागम: ।
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ॥२३१॥
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् ।
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ॥२३२॥
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् ।
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ॥२३३॥
गरीयस्त्वेन पश्यन्ति भिषज: शास्त्रचक्षुष: ।
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ॥२३४॥
स्यात्तयो: पीडनाद्धानिरायुषश्च बलस्य च ।
सर्वेऽप्येतेऽपरिज्ञाता: परिसंवत्सरास्तथा ॥२३५॥
उपेक्षणादसाध्या: स्युरथवा दुरुपक्रमा: ।
हृद्रोगो विद्रधि: प्लीहा गुल्मोऽतीसार एव च ॥२३६॥
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् ।
तस्मादावरणं वैद्य: पवनस्योपलक्षयेत् ॥२३७॥
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा ।
भिषग्जितमत: सम्यगुपलक्ष्य समाचरेत् ॥२३८॥
अनभिष्यन्दिभि: स्निग्धै: स्रोतसां शुद्धिकारकै: ।
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ॥२३९॥
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम् ।
यापना बस्तय: प्रायो मधुरा: सानुवासना: ॥२४०॥
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम् ।
रसायनानां सर्वेषामुपयोग: प्रशस्यते ॥२४१॥
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा ।
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नर: ॥२४२॥
अभयामलकीयोक्तमेकादशसिताशतम् ।
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम् ॥२४३॥
वातानुलोमनं यच्च पक्वाशयविशोधनम् ।
इति संक्षेपत: प्रोक्तमावृतानां चिकित्सितम् ॥२४४॥
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत् ।
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभि: ॥
कफावृते कफघ्नैस्तु मारुतस्यानुलोमनै: ॥२४५॥
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गति: ।
तथा शरीरे वातस्य पित्तस्य च कफस्य च ॥२४६॥
क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक् ।
विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु ॥२४७॥
तत्र श्लोकौ–
पञ्चात्मन: स्थानवशाच्छरीरे
स्थानानि कर्माणि च देहधातो: ।
प्रकोपहेतु: कुपितश्च रोगान्
स्थानेषु चान्येषु वृतोऽवृतश्च ॥२४८॥
प्राणेश्वर: प्राणभृतां करोति
क्रिया च तेषामखिला निरुक्ता ।
तां देशसात्म्यर्तुबलान्यवेक्ष्य
प्रयोजयेच्छास्त्रमतानुसारी ॥२४९॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं
नामाष्टाविंशोऽध्याय: ॥२८॥
Last updated on July 1st, 2021 at 07:03 am