चरकसंहिता
चिकित्सास्थानम् ।
चतुर्विंशोऽध्याय: ।
अथातो मदात्ययचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सुरै: सुरेशसहितैर्या पुरा परिपूजिता ।
सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता ॥३॥
यज्ञौही या यया शक्र: सोमातिपतितो भृशम् ।
निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृत: ॥४॥
विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभि: ।
दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये ॥५॥
योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या ।
भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात् ॥६॥
या देवानमृतं भूत्वा स्वधा भूत्वा पितॄंश्च या ।
सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमै: ॥७॥
आश्विनं या महत्तेजो बलं सारस्वतं च या ।
वीर्यमैन्द्रं च या सिद्धा सोम: सौत्रामणौ च या ॥८॥
शोकारतिभयोद्वेगनाशिनी या महाबला ।
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृति: ॥९॥
या सुरा सुरगन्धर्वयक्षराक्षसमानुषै: ।
रति: सुरेत्यभिहिता तां सुरां विधिना पिबेत् ॥१०॥
शरीरकृतसंस्कार: शुचिरुत्तमगन्धवान् ।
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभि: ॥११॥
विचित्रविविधस्रग्वी रत्नाभरणभूषित: ।
देवद्विजातीन् संपूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ॥१२॥
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते ।
सरसासंमते मुख्ये धूपसंमोदबोधिते ॥१३॥
सोपधाने सुसंस्तीर्णे विहिते शयनासने ।
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थित: ॥१४।
सौवर्णै राजतैश्चापि तथा मणिमयैरपि ।
भाजनैर्विमलैश्चान्यै: सुकृतैश्च पिबेत् सदा ॥१५॥
रूपयौवनमत्ताभि: शिक्षिताभिर्विशेषत: ।
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकै: ॥१६॥
शौचानुरागयुक्ताभि: प्रमदाभिरितस्तत: ।
संवाह्यमान इष्टाभि: पिबेन्मद्यमनुत्तमम् ॥१७॥
मद्यानुकूलैर्विविधै: फलैर्हरितकै: शुभै: ।
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकै: ॥१८॥
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् ।
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकै: ॥१९॥
पूजयित्वा सुरान् पूर्वमाशिष: प्राक् प्रयुज्य च ।
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ॥२०॥
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनै: ।
स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत् ॥२१॥
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलै: ।
पैत्तिको भावितश्चान्नै: पिबन्मद्यं न सीदति ॥२२॥
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत् ।
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकै: सह ॥२३॥
विधिर्वसुमतामेष भविष्यद्विभवाश्च ये ।
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् ॥२४॥
वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम् ।
कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत् ॥२५॥
बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम् ।
गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते ॥२६॥
विधिना मात्रया काले हितैरन्नैर्यथाबलम् ।
प्रहृष्टो य: पिबेन्मद्यं तस्य स्यादमृतं यथा ॥२७॥
यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते ।
रूक्षव्यायामनित्येन विषवद्याति तस्य तत् ॥२८॥
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् ।
दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम् ॥२९॥
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च ।
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम् ॥३०॥
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम् ।
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् ॥३१॥
गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावत: ।
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ॥३२॥
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि ।
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा ॥३३॥
सौक्ष्म्यान्मद्यं निहन्त्येवमोजस: स्वगुणैर्गुणान् ।
सत्त्वं तदाश्रयं चाशु संक्षोभ्य जनयेन्मदम् ॥३४॥
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम् ।
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ॥३५॥
अतिपीतेन मद्येन विहतेनौजसा च तत् ।
हृदयं याति विकृतिं तत्रस्था ये च धातव: ॥३६॥
ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते ।
मध्यमो विहतेऽल्पे च विहते तूत्तमो मद: ॥३७॥
नैवं विघातं जनयेन्मद्यं पैष्टिकमोजस: ।
विकाशिरूक्षाविशदा गुणास्तत्र हि नोल्बणा: ॥३८॥
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रति: सुखम् ।
विकाराश्च यथासत्त्वं चित्रा राजसतामसा: ॥३९॥
जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात् ।
स मद्यविभ्रमो नाम्ना `मद’ इत्यभिधीयते ॥४०॥
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदा: ।
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे ॥४१॥
प्रहर्षण: प्रीतिकर: पानान्नगुणदर्शक: ।
वाद्यगीतप्रहासानां कथानां च प्रवर्तक: ॥४२॥
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षम: ।
सुखनिद्राप्रबोधश्च प्रथम: सुखदो मद: ॥४३॥
मुहु: स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता सज्जति वाङ्मुहु: ।
युक्तायुक्तप्रलापश्च प्रचलायनमेव च ॥४४॥
स्थानपानान्नसांकथ्ययोजना स्वविपर्यया ।
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ॥४५॥
मध्यमं मदमुत्क्रम्य मदमाप्राप्य चोत्तमम् ।
न किंचिन्नाशुभं कुर्युर्नरा राजसतामसा: ॥४६॥
को मदं तादृशं विद्वानुन्मादमिव दारुणम् ।
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वग: ॥४७॥
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रिय: ।
मदमोहावृतमना जीवन्नपि मृतै: सम: ॥४८॥
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम् ।
यदर्थं पीयते मद्यं रतिं तां च न विन्दति ॥४९॥
कार्याकार्यं सुखं दु:खं लोके यच्च हिताहितम् ।
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुध: ॥५०॥
स दूष्य: सर्वभूतानां निन्द्यश्चाग्राह्य एव च ।
व्यसनित्वादुदर्के च स दु:खं व्याधिमश्नुते ॥५१॥
प्रेत्य चेह च यच्छ्रेय: श्रेयो मोक्षे च यत् परम् ।
मन:समाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ॥५२॥
मद्येन मनसश्चास्य संक्षोभ: क्रियते महान् ।
महामारुतवेगेन तटस्थस्येव शाखिन: ॥५३॥
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम् ।
सुखमित्यधिगच्छन्ति रजोमोहपराजिता: ॥५४॥
मद्योपहतविज्ञाना वियुक्ता: सात्त्विकैर्गुणै: ।
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसा: ॥५५॥
मद्ये मोहो भयं शोक: क्रोधो मृत्युश्च संश्रित: ।
सोन्मादमदमूर्च्छाया: सापस्मारापतानका: ॥५६॥
यत्रैक: स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत् ।
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नत: ॥५७॥
सत्यमेते महादोषा मद्यस्योक्ता न संशय: ।
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम् ॥५८॥
किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ॥५९॥
प्राणा: प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् ।
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ॥६०॥
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् ।
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम् ॥६१॥
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम् ।
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ॥६२॥
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम् ।
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत् ॥६३॥
वधबन्धपरिक्लेशदु:खानां चाप्यबोधनम् ।
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम् ॥६४॥
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम् ।
अपि प्रवयसां मद्यमुत्सवामोदकारकम् ॥६५॥
पञ्चस्वर्थेषु कान्तेषु या रति: प्रथमे मदे ।
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ॥६६॥
बहुदु:खहतस्यास्य शोकेनोपहतस्य च ।
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ॥६७॥
अन्नपानवयोव्याधिबलकालत्रिकाणि षट् ।
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ॥६८॥
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते ।
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते ॥६९॥
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते ।
धर्मार्थयोरपीडायै नर: सत्त्वगुणोच्छ्रित: ॥७०॥
सत्त्वानि तु प्रबुध्यन्ते प्रायश: प्रथमे मदे ।
द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययो: ॥७१॥
सस्यसंबोधकं वर्षं, हेमप्रकृतिदर्शक: ।
हुताश:, सर्वसत्त्वानां मद्यं तूभयकारकम् ॥७२॥
प्रधानावरमध्यानां रूपाणां व्यक्तिदर्शक: ।
यथाऽग्निर्रेवं सत्त्वानां मद्यं प्रकृतिदर्शकम् ॥७३॥
सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम् ।
मिष्टान्नपानविशदं सदा मधुरसंकथम् ॥७४॥
सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम् ।
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम् ॥७५॥
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विका: ।
मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु ॥७६॥
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात् ।
चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम् ॥७७॥
हर्षप्रीतिकथापेतमतुष्टं पानभोजने ।
संमोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ॥७८॥
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान् ।
जह्यात्सहायान् यै: पीत्वा मद्यदोषानुपाश्नुते ॥७९॥
सुखशीला: सुसंभाषा: सुमुखा: संमता: सताम् ।
कलास्वबाह्या विशदा विषयप्रवणाश्च ये ॥८०॥
परस्परविधेया ये येषामैक्यं सुहृत्तया ।
प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये ॥८१॥
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम् ।
ते सहाया: सुखा: पाने तै: पिबन्सह मोदते ॥८२॥
रूपगन्धरसस्पर्शै: शब्दैश्चापि मनोरमै: ।
पिबन्ति सुसहाया ये ते वै सुकृतिभि: समा: ॥८३॥
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनस: प्रियै: ।
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना ॥८४॥
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वया: ।
बहुमद्योचिता ये च माद्यन्ति सहसा न ते ॥८५॥
क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिका: ।
रूक्षाल्पप्रमिताहारा विष्टब्धा: सत्त्वदुर्बला: ॥८६॥
क्रोधिनोऽनुचिता: क्षीणा: परिश्रान्ता मदक्षता: ।
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवा: ॥८७॥
ऊर्ध्वं मदात्ययस्यात: संभवं स्वस्वलक्षणम् ।
अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम् ॥८८॥
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शित: ।
रूक्षाल्पप्रमिताशी च य: पिबत्यतिमात्रया ॥८९॥
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च ।
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ॥९०॥
हिक्काश्वासशिर:कम्पपार्श्वशूलप्रजागरै: ।
विद्याद्बुहुप्रलापस्य वातप्रायं मदात्ययम् ॥९१॥
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते ।
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रिय: ॥९२॥
तस्योपजायते पित्ताद्विशेषेण मदात्यय: ।
स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा ॥९३॥
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमै: ।
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ॥९४॥
तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा ।
मधुरस्निग्धगुर्वाशी य: पिबत्यतिमात्रया ॥९५॥
अव्यायामदिवास्वप्नशय्यासनसुखे रत: ।
मदात्ययं कफप्रायं स शीघ्रमधिगच्छति ॥९६॥
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवै: ।
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ॥९७॥
विषस्य ये गुणा दृष्टा: सन्निपातप्रकोपणा:।
त एव मद्ये दृश्यन्ते विषे तु बलवत्तरा: ॥९८॥
हन्त्याशु हि विषं किंचित् किंचिद्रोगाय कल्पते ।
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मद: ॥९९॥
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये ।
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य लक्ष्यते ॥१००॥
शरीरदु:खं बलवत् समोहो हृदयव्यथा ।
अरुचि: प्रतता तृष्णा ज्वर: शीतोष्णलक्षण: ॥१०१॥
शिर:पार्श्वास्थिसन्धीनां विद्युत्तुल्या च वेदना ।
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रम: ॥१०२॥
उरोविबन्ध: कासश्च हिक्का श्वास: प्रजागर: ।
शरीरकम्प: कर्णाक्षिमुखरोगस्त्रिकग्रह: ॥१०३॥
छर्द्यतीसारहृल्लासा वातपित्तकफात्मका: ।
भ्रम: प्रलापो रूपाणामसतां चैव दर्शनम् ॥१०४॥
तृणभस्मलतापर्णपांशुभिश्चावपूरणम् ।
प्रधर्षणं विहङ्गैश्च भ्रान्तचेता: स मन्यते ॥१०५॥
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च ।
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ॥१०६॥
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् ।
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ॥१०७॥
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये ।
पित्तमारुतपर्यन्त: प्रायेण हि मदात्यय: ॥१०८॥
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते ।
समपीतेन तेनैव स मद्येनोपशाम्यति ॥१०९॥
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् ।
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ॥११०॥
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् ।
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् ॥१११॥
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना ।
मद्येनान्नरसोत्क्लेदो विदग्ध: क्षारतां गत: ॥११२॥
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम् ।
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत् ॥११३॥
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहित: ।
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु ॥११४॥
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसा: स्मृता: ।
मधुरश्च कषायश्च तिक्त: कटुक एव च ॥११५॥
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणै: ।
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति ॥११६॥
मद्योत्क्लिष्टेन दोषेण रुद्ध: स्रोत:सु मारुत: ।
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ॥११७॥
दोषविष्यन्दनार्थं हि तस्मै मद्यं विशेषत: ।
व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि ॥११८॥
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम् ।
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ॥११९॥
रुज: स्रोत:स्वरुद्धेषु मारुते चानुलोमिते ।
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदया: ॥१२०॥
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् ।
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् ॥१२१॥
सस्नेहै: शक्तुभिर्युक्तमवदंशैर्विरोचितम् ।
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ॥१२२॥
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् ।
लावतित्तिरदक्षाणां स्निग्धाम्लै: शिखिनामपि ॥१२३॥
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतै: ।
भूशयप्रसहानां च रसै: शाल्योदनेन च ॥१२४॥
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियै: ।
चित्रैर्गोधूमिकैश्चान्नैर्वारुणीमण्डसंयुतै: ॥१२५॥
पिशितार्द्रकगर्भाभि: स्निग्धाभि: पूपवर्तिभि: ।
माषपूपलिकाभिश्च वातिकं समुपाचरेत् ॥१२६॥
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम् ।
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा ॥१२७॥
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम् ।
रसप्रलेपि संपूपै: सुखोष्णै: संप्रदापयेत् ॥१२८॥
भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे।
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् ॥१२९॥
धान्यनागरतोयं च दधिमण्डमथापि वा ।
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ॥१३०॥
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति ।
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते ॥१३१॥
रागषाडवसंयोगैर्विविधैर्भक्तरोचनै: ।
पिशितै: शाकपिष्टान्नैर्यवगोधूमशालिभि: ॥१३२॥
अभ्यङ्गोत्सादनै: स्नानैरुष्णै: प्रावरणैर्घनै: ।
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनै: ॥१३३॥
नारीणां यौवनोष्णानां निर्दयैरुपगूहनै: ।
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहै: ॥१३४॥
शयनाच्छादनैरुष्णैश्चान्तर्गृहै: सुखै: ।
मारुतप्रबल: शीघ्रं प्रशाम्यति मदात्यय: ॥१३५॥
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् ।
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् ॥१३६॥
सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम् ।
दद्याद्बहूदकं काले पातुं वित्तमदात्यये ॥१३७॥
शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान् ।
मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् ॥१३८॥
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम् ।
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ॥१३९॥
द्राक्षामलकखर्जूरपरूषकरसेन वा ।
कल्पयेत्तर्पणान् यूषान् रसाश्चं विविधात्मकान् ॥१४०॥
आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये ।
विज्ञाय बहुदोषस्य दह्यमानस्य तृष्यत: ॥१४१॥
मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा ।
नि:शेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते ॥१४२॥
काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते ।
तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचक: ॥१४३॥
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च ।
तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि ॥१४४॥
गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक् ।
रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् ॥१४५॥
तृष्यते चातिबलवद्वातपित्ते समुद्धते ।
दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम् ॥१४६॥
जीर्णे समधुराम्लेन छागमांसरसेन तम् ।
भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत् ॥१४७॥
अनुतर्षस्य मात्रा सा यया नो दूष्यते मन: ।
तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम् ॥१४८॥
तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात् ।
परूषकाणां पीलूनां रसं शीतमथापि वा ॥१४९॥
पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम् ।
मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम् ॥१५०॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारस: ।
पञ्चाम्लको मुखालेप: सद्यस्तृष्णां नियच्छति ॥१५१॥
शीतलान्यन्नपानानि शीतशय्यासनानि च ।
शीतवातजलस्पर्शा: शीतान्युपवनानि च ॥१५२॥
क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च ।
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतला: ॥१५३॥
हेमराजतकांस्यानां पात्राणां शीतवारिभि: ।
पूर्णानां हिमपूर्णानां दृतीनां पवनाहता: ॥१५४॥
संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुता: ।
चन्दनानां च मुख्यानां शस्ता: पित्तमदात्यये ॥१५५॥
शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत् ।
कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना ॥१५६॥
हिता: स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते ।
कथाश्च विविधा: शस्ता: शब्दाश्च शिखिनां शिवा: ॥१५७॥
तोयदानां च शब्दा हि शमयन्ति मदात्ययम् ।
जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च ॥१५८॥
कल्पनीयानि भिषजा दाहे धारागृहाणि च ।
फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम् ॥१५९॥
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् ।
बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भव: ॥१६०॥
फेनिलायाश्च य: फेनस्तैर्दाहे लेपनं शुभम् ।
सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु ॥१६१॥
सेके प्रदेहे शस्यन्ते दाहघ्ना: साम्लकाञ्जिका: ।
परिषेकावगाहेषु व्यञ्जनानां च सेवने ॥१६२॥
शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये ।
मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति ॥१६३॥
धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्यय: ।
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् ॥१६४॥
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् ।
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ॥१६५॥
सनागराभि: सर्वाभिर्जलं वा शृतशीतलम् ।
दु:स्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ॥१६६॥
जलं मुस्तै: शृतं वाऽपि दद्याद्दोषविपाचनम् ।
एतदेव च पानीयं सर्वत्रापि मदात्यये ॥१६७॥
निरत्ययं पीयमानं पिपासाज्वरनाशनम् ।
निरामं काङि्क्षतं काले सक्षौद्रं पाययेत्तु तम् ॥१६८॥
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा ।
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् ॥१६९॥
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् ।
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ॥१७०॥
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा ।
पटोलयूषमम्लं वा यूषमामलकस्य वा ॥१७१॥
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् ।
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ॥१७२॥
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् ।
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् ॥१७३॥
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु ।
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ॥१७४॥
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् ।
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ॥१७५॥
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् ।
पिबेच्च निगदं मद्यं कफप्राये मदात्यये ॥१७६॥
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम् ।
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ॥१७७॥
एतल्लवणमष्टाङ्गमग्निसंदीपनं परम् ।
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ॥१७८॥
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् ।
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ॥१७९॥
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् ।
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ॥१८०॥
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकै: ।
स राग: क्षौद्रसंयुक्त: श्रेष्ठो रोचनदीपन: ॥१८१॥
मृद्वीकाया विधानेन कारयेत् कारवीमपि ।
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ॥१८२॥
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् ।
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ॥१८३॥
गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतान् ।
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति ॥१८४॥
रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च ।
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च ॥१८५॥
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च ।
प्राणवर्णकराणां च प्रघर्षाणां च सेवया ॥१८६॥
सेवया वसनानां च गुरूणामगुरोरपि ।
संकोचोष्णसुखाङ्गीनामङ्गनानां च सेवया ॥१८७॥
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च ।
मदात्यय: कफप्राय: शीघ्रमेवोपशाम्यति ॥१८८॥
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति ।
सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा ॥१८९॥
यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित् ।
स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित् ॥१९०॥
वनानि रमणीयानि सपद्मा: सलिलाशया: ।
विशदान्यन्नपानानि सहायाश्च प्रहर्षणा: ॥१९१॥
माल्यानि गन्धयोगाश्च वासांसि विमलानि च ।
गान्धर्वशब्दा: कान्ताश्च गोष्ठ्यश्च हृदयप्रिया: ॥१९२॥
संकथाहास्यगीतानां विशदाश्चैव योजना: ।
प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम् ॥१९३॥
नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च ।
कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया ॥१९४॥
आभि: क्रियाभि: सिद्धाभि: शमं याति मदात्यय: ।
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत् ॥१९५॥
लङ्घनै: पाचनैर्दोषशोधनै: शमनैरपि ।
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे ॥१९६॥
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च ।
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पय: ॥१९७॥
पयसाऽभिहृते रोगे बले जाते निवर्तयेत् ।
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ॥१९८॥
विच्छिन्नमद्य: सहसा योऽतिमद्यं निषेवते ।
ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते ॥१९९॥
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ ।
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते ॥२००॥
श्लेष्मप्रसेक: कण्ठास्यशोष: शब्दासहिष्णुता ।
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम् ॥२०१॥
हृत्कण्ठरोग: संमोहश्छर्दिरङ्गरुजा ज्वर: ।
तृष्णा कास: शिर:शूलमेतद्विक्षयलक्षणम् ॥२०२॥
तयो: कर्म तदेवेष्टं वातिके यन्मदात्यये ।
तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै ॥२०३॥
बस्तय: सर्पिष: पानं प्रयोग: क्षीरसर्पिषो: ।
अभ्यङ्गोद्वर्तस्नानान्यन्नपानं च वातनुत् ॥२०४॥
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति ।
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते ॥२०५॥
निवृत्त: सर्वमद्येभ्यो नरो यश्च जितेन्द्रिय: ।
शारीरमानसैर्धीमान् विकारैर्न स युज्यते ॥२०६॥
तत्र श्लोका:–
यत्प्रभावा भगवती सुरा पेया यथा च सा ।
यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा ॥२०७॥
यथा मदयते यैश्च गुणैर्युक्ता महागुणा ।
यो मदो मदभेदाश्च ये त्रय: स्वस्वलक्षणा: ॥२०८॥
ये च मद्यकृता दोषा गुणा ये च मदात्मका: ।
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् ॥२०९॥
ये सहाया: सुखा: पाने चिरक्षिप्रमदा नरा: ।
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् ॥२१०॥
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रम: ।
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते ॥२११॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने मदात्ययचिकित्सितं
नाम चतुर्विंशोऽध्याय: ॥२४॥
Last updated on June 29th, 2021 at 09:14 am