चरकसंहिता
इन्द्रियस्थानम् ।
द्वादशोऽध्याय: ।
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते ।
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ॥३॥
निकषन्निव य: पादौ च्युतांस: परिधावति ।
विकृत्या न स लोकेऽस्मिश्चिरं वसति मानव: ॥४॥
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् ।
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति ॥५॥
यमुद्दिश्यातुरं वैद्य: संवर्तयितुमौषधम् ।
यतमानो न शकनेति दुर्लभं तस्य जीवितम् ॥६॥
विज्ञातं बहुश: सिद्धं विधिवच्चावचारितम् ।
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् ॥७॥
आहारमुपञ्जानो भिषजा सूपकल्पितम् ।
य: फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥८॥
दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम् ।
यानि दृष्ट्वा भिषक् प्राज्ञ: प्रत्याख्यायादसंयमम् ॥९॥
मुक्तेकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा ।
भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत् ॥१०॥
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति ।
आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत् ॥११॥
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि ।
वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसव: ॥१२॥
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुन: ।
वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम् ॥१३॥
मृतदग्धविनष्टानि भजति व्याहरत्यपि ।
अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम् ॥१४॥
विकारसामान्यगुणे देशे कालेऽथवा भिषक् ।
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् ॥१५॥
दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम् ।
त्रीन् व्याकृतीश्चं षण्डांश्च दूतान् विद्यान्मुमूर्षताम् ॥१६॥
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा ।
संप्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति ॥१७॥
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम् ।
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम् ॥१८॥
पलालवुसमांसास्थिकेशलोमनखद्विजान् ।
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् ॥१९॥
तृणकाष्ठतुषाङ्गारं स्पृश्यन्तो लोष्टमश्म च ।
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् ॥२०॥
यस्मिश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् ।
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक् ॥२१॥
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा ।
भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥२२॥
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान् ।
स्पर्शो वा विपुल: क्रूरो यद्वाऽन्यदशुभं भवेत् ॥२३॥
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुन:।
दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ॥२४॥
इति दूताधिकारोऽयमुक्त: कृत्स्नो मुमूर्षताम् ।
पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुन: ॥२५॥
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा ।
आक्रोश: संप्रहारो वा प्रतिषेधो विगर्हणम् ॥२६॥
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम् ।
व्यसनं दर्शनं चापि मृतव्यसनिनां तथा ॥२७॥
चैत्यध्वजपताकानां पूर्णानां पतनानि च ।
हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभि: ॥२८॥
पथच्छेदो बिडालेन शुना सर्पेण वा पुन: ।
मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति ॥२९॥
शयनासनयानानामुत्तानानां च दर्शनम् ।
इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिण: ॥३०॥
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि ।
शृण्वता च न गन्तव्यं तदागारं विपश्चिता ॥३१॥
इत्यौत्पतिकमाख्यातं पथि वैद्यविगर्हितम् ।
इमामपि च बुध्येत गृहावस्थां मुमूर्षताम् ॥३२॥
प्रवेशे पूर्णकुम्भग्निमृद्बीजफलसर्पिषाम् ।
वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम् ॥३३॥
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च ।
भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥३४॥
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च ।
दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जना: ॥३५॥
शयनं वसनं यानं गमनं भोजनं रुतम् ।
श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम् ॥३६॥
शयनं वसनं यानमन्यं वाऽपि परिच्छदम् ।
प्रेतवद्यस्य कुर्वन्ति सुहृद: प्रेत एव स: ॥३७॥
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति ।
निवाते सेन्धनं यस्य तस्य नास्ति चिकिस्तितम् ॥३८॥
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥३९॥
भवन्ति चात्र–
यद् द्वादशभिरध्यायैर्व्यासत: परिकीर्तितम् ।
मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत् ॥४०॥
तत् समासेन वक्ष्याम: पर्यायान्तरमाश्रितम् ।
पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते ॥४१॥
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते ।
तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम् ॥४२॥
वसतां चरमं कालं शरीरेषु शरीरिणाम् ।
अभ्युग्राणां विनाशाय देहेभ्य: प्रविवत्सताम् ॥४३॥
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम् ।
तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् ॥४४॥
विनाशायेह रूपाणि यान्यवस्थान्तराणि च ।
भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम् ॥४५॥
प्राणा: समुपतप्यन्ते विज्ञानमुपरुध्यते ।
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च ॥४६॥
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना ।
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ॥४७॥
स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पत: ।
उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ॥४८॥
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते ।
विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति ॥४९॥
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिल: ।
क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम् ॥५०॥
ऊष्माण: प्रलयं यान्ति विश्लेषं यान्ति सन्धय: ।
गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा ॥५१॥
वैवर्ण्यं भजते काय: कायच्छिद्रं विशुष्यति ।
धूम: संजायते मूर्ध्नि दारुणाख्यश्च चूर्णक: ॥५२॥
सततस्पन्दना देशा: शरीरे येऽभिलक्षिता: ।
ते स्तम्भानुगता: सर्वे न चलन्ति कथंचन ॥५३॥
गुणा: शरीरदेशानां शीतोष्णमृदुदारुणा: ।
विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधा: ॥५४॥
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते ।
जटा: पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि ॥५५॥
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि ।
यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति ॥५६॥
नानाप्रकृतय: क्रूरा विकारा विविधौषधा: ।
क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी ॥५७॥
शब्द: स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् ।
उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु ॥५८॥
दृश्यन्ते दारुणा: स्वप्ना दौरात्म्यमुपजायते ।
प्रेष्या: प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते ॥५९॥
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते ।
कृत्स्नमौत्पतिकं घोरमरि(नि)ष्टमुपलक्ष्यते ॥६०॥
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।
लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् ॥६१॥
मरणायेह रूपाणि पश्यताऽपि भिषग्विदा ।
अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम् ॥६२॥
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम् ।
आतुरस्य भवेद्दु:खमथवाऽन्यस्य कस्यचित् ॥६३॥
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम् ।
यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक् ॥६४॥
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता ।
लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ॥६५॥
दूतैरौत्पातिकैर्भावै: पथ्यातुरकुलाश्रयै: ।
आतुराचारशीलेष्टद्रव्यसंपत्तिलक्षणै: ॥६६॥
स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम् ।
अमुण्डमजटं दूतं जातिवेशक्रियासमम् ॥६७॥
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च ।
अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च ॥६८॥
विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम् ।
मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम् ॥६९॥
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम् ।
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक् ॥७०॥)
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च ॥७१॥
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च ।
सुरध्वजपताकानां फलानां यावकस्य च ॥७२॥
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था ।
पृथिव्या उद्धृतायाश्च वह्ने: प्रज्वलितस्य च ॥७३॥
मोदकानां सुमनसां शुक्लानां चन्दनस्य च ।
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च ॥७४॥
नृभिर्धेन्वा: सवत्साया वडवाया: स्त्रियास्तथा ।
जीवञ्जीवकसिद्धार्थसारप्रियवादिनाम् ॥७५॥
हंसानां शतपत्राणां चाषाणां शिखिनां तथा ।
मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च ॥७६॥
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम् ।
गन्ध: सुरभिर्वर्णश्च सुशुक्लो मधुरो रस: ॥७७॥
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिर: शुभा: ।
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुति: ॥७८॥
भेरीमृदङ्गशङ्खानां शब्दा: पुण्याहनिस्वना: ।
वेदाध्ययनशब्दाश्च सुखो वायु: प्रदक्षिण: ॥७९॥
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् ।
मङ्गलाचारसंपन्न: सातुरो वैश्मिको जन: ॥८०॥
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रह: ।
धनैश्वर्यसुखावाप्तिरिष्टलाभ: सुखेन च ॥८१॥
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च ।
गृहप्रासादशैलानां नागानामृषभस्य च ॥८२॥
हयानां पुरुषाणां च स्वप्ने समधिरोहणम् ।
सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम् ॥८३॥
अर्णवानां प्रतरणं वृद्धि: संबाधनि:सृति: ।
स्वप्ने देवै: सपितृभि: प्रसन्नैश्चाभिभाषणम् ॥८४॥
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च ।
मांसमत्स्याविषामेध्यच्छत्रादर्शपरिग्रह: ॥८५॥
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम् ।
अश्वगोरथयानं च यानं पूर्वोत्तरेण च ।
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥८६॥
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु ।
साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम् ॥८७॥
आरोग्याद्बलमायुश्च सुखं च लभते महत् ।
इष्टांश्चाप्यपरान् भावान् पुरुष: शुभलक्षण: ॥८८॥
तत्र श्लोकौ–
उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम् ।
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम् ॥८९॥
इतीदमुक्तं प्रकृतं यथातथं
तदन्ववेक्ष्यं सततं भिषग्विदा ।
तथा हि सिद्धिं च यशश्च शाश्वतं
स सिद्धकर्मा लभते धनानि च ॥९०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्याय: ॥१२॥
इन्द्रियस्थानं संपूर्णम् ।
Last updated on June 11th, 2021 at 11:58 am