चरकसंहिता
चिकित्सास्थानम् ।
अष्टमोऽध्याय: ।
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
दिवौकसां कथयतामृषिभिर्वै श्रुता कथा ।
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥३॥
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षत: ।
आजगामाल्पतामिन्दोर्देह: स्नेहपरिक्षयात् ॥४॥
दुहितॄणामसंभोगाच्छेषाणां च प्रजापते: ।
क्रोधो नि:श्वासरूपेण मूर्तिमान् नि:सृतो मुखात् ॥५॥
प्रजापतेर्हि दुहितॄरष्टविंशतिमंशुमान् ।
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत ॥६॥
गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम् ।
रज:परीतमबलं यक्ष्मा शशिनमाविशत् ॥७॥
सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभ: ।
देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥८॥
अथ चन्द्रमस: शुद्धां मतिं बुद्ध्वा प्रजापति: ।
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सित: ॥९॥
स विमुक्तग्रहश्चन्द्रो विरराज विशेषत: ।
ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥१०॥
क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दु:खसंज्ञक: ।
यस्मात् स राज्ञ: प्रागासीद्राजयक्ष्मा ततो मत: ॥११॥
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागत: ।
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान् ॥१२॥
अयथाबलमारम्भं वेगसंधारणं क्षयम् ।
यक्ष्मण: कारणं विद्याच्चतुर्थं विषमाशनम् ॥१३॥
युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभि: ।
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरै: ॥१४॥
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते ।
वायु: प्रकुपितो दोषावुदीर्योभौ प्रधावति ॥१५॥
स शिर:स्थ: शिर:शूलं करोति गलमाश्रित: ।
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम् ॥१६॥
पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थित: ।
जृम्भां ज्वरं च सन्धिस्थ उर:स्थश्चोरसो रुजम् ॥१७॥
क्षणनादुरस: कासात् कफं ष्ठीवेत् सशोणितम् ।
जर्जरेणोरसा कृच्छ्रमुर:शूलातिपीडित: ॥१८॥
इति साहसिको यक्ष्मा रूपैरेतै: प्रपद्यते ।
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम् ॥१९॥
ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम् ।
वातमूत्रपुरीषाणां निगृह्णाति यदा नर: ॥२०॥
तदा वेगप्रतीघातात् कफपित्ते समीरयन् ।
ऊर्ध्व तिर्यगधश्चैव विकारान् कुरुतेऽनिल: ॥२१॥
प्रतिश्यायं च कासं च स्वरभेदमरोचकम् ।
पार्श्वशूलं शिर:शूलं ज्वरमंसावमर्दनम् ॥२२॥
अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम् ।
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान् ॥२३॥
ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात् ।
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते ॥२४॥
तत: स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन् ।
प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम् ॥२५॥
श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम् ।
करोति चांससंतापमेकादशगदानिमान् ॥२६॥
लिङ्गान्यावेदयन्त्येतान्येकादश महागदम् ।
संप्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम् ॥२७॥
विविधान्यन्नपानानि वैषम्येण समश्नत: ।
जनयन्त्यामयान् घोरान्विषमान्मारुतादय: ॥२८॥
स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गता: ।
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातव: ॥२९॥
प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम् ।
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च ॥३०॥
पार्श्वशूलं शिर:शूलं स्वरभेदमथापि च ।
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम् ॥३१॥
इति व्याधिसमूहस्य रोगराजस्य हेतुजम् ।
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विध: ॥३२॥
पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम् ।
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम् ॥३३॥
घृणित्वमश्नतश्चापि बलमांसपरिक्षय: ।
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने ॥३४॥
मक्षिकाघुणकेशानां तृणानां पतनानि च ।
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम् ॥३५॥
पतत्रिभि: पतङ्गैश्च श्वापदैश्चाभिधर्षणम् ।
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ॥३६॥
जलाशयानां शैलानां वनानां ज्योतिषामपि ।
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम् ॥३७॥
प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मण: ।
रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि सभेषजम् ॥३८॥
यथास्वेनोष्मणा पाकं शारीरा यान्ति धातव: ।
स्रोतसा च यथास्वेन धातु: पुष्यति धातुत: ॥३९॥
स्रोतसां संनिरोधाच्च रक्तादीनां च संक्षयात् ।
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते ॥४०॥
तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम् ।
मलीभवति तत् प्राय: कल्पते किंचिदोजसे ॥४१॥
तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिण: ।
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम् ॥४२॥
रस: स्रोत:सु रुद्धेषु स्वस्थानस्थो विदह्यते ।
स ऊर्ध्वं कासवेगेन बहुरूप: प्रवर्तते ॥४३॥
जायन्ते व्याधयश्चात: षडेकादश वा पुन: ।
येषां संघातयोगेन राजयक्ष्मेति कथ्यते ॥४४॥
कासोंऽसतापो वैस्वर्यं ज्वर: पार्श्वशिरोरुजा ।
छर्दनं रक्तकफयो: श्वासवर्चोगदोऽरुचि: ॥४५॥
रूपाण्येकादशैतानि यक्ष्मण: षडिमानि वा ।
कासो ज्वर: पार्श्वशूलं स्वरवर्चोगदोऽरुचि: ॥४६॥
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये ।
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ॥४७॥
घ्राणमूले स्थित: श्लेष्मा रुधिरं पित्तमेव वा ।
मारुताध्मातशिरसो मारुतं श्यायते प्रति ॥४८॥
प्रतिश्यायस्ततो घोरो जायते देहकर्शन: ।
तस्य रूपं शिर:शूलं गौरवं घ्राणविप्लव: ॥४९॥
ज्वर: कास: कफोत्क्लेश: स्वरभेदोऽरुचि: क्लम: ।
इन्द्रियाणामसामर्थ्यं यक्ष्मा चात: प्रजायते ॥५०॥
पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम् ।
कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम् ॥५१॥
अंसपार्श्वाभितापश्च संताप: करपादयो: ।
ज्वर: सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मण: ॥५२॥
वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात् ।
स्वरभेदो भवेद्वाताद्रूक्ष: क्षामश्चल: स्वर: ॥५३॥
तालुकण्ठपरिप्लोष: पित्ताद्वक्तुमसूयते ।
कफाद्भेदो विबद्धश्च स्वर: खुरखुरायते ॥५४॥
सन्नो रक्तविबद्धत्वात् स्वर: कृच्छ्रात् प्रवर्तते ।
कासातिवेगात् कषण: पीनसात्कफवातिक: ॥५५॥
पार्श्वशूलं त्वनियतं संकोचायामलक्षणम् ।
शिर:शूलं ससंतापं यक्ष्मिण: स्यात्सगौरवम् ॥५६॥
अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात् ।
कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसंचित: ॥५७॥
रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते ।
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च ॥५८॥
वातश्लेष्मविबद्धत्वादुरस: श्वासमृच्छति ।
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते ॥५९॥
पृथग्दोषै: समस्तैर्वा जिह्वाहृदयसंश्रितै: ।
जायतेऽरुचिराहारे द्विष्टैरर्थैश्च मानसै: ॥६०॥
कषायतिक्तमधुरैर्विद्यान्मुखरसै: क्रमात् ।
वाताद्यैररुचिं जातां मानसीं दोषदर्शनात् ॥६१॥
अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि ।
छर्दिर्या सा विकाराणामन्येषामप्युपद्रव: ॥६२॥
सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम् ।
परीक्ष्यावस्थिकं वैद्य: शोषिणं समुपाचरेत् ॥६३॥
प्रतिश्याये शिर:शूले कासे श्वासे स्वरक्षये ।
पार्श्वशूले च विविधा: क्रिया: साधारणी: शृणु ॥६४॥
पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च ।
परिषेकावगाहांश्च यावकं वाट्यमेव च ॥६५॥
लवणाम्लकटूष्णाश्चं रसान् स्नेहोपबृंहितान् ।
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत् ॥६६॥
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ।
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् ॥६७॥
तेन षडि्वनिवर्तन्ते विकारा: पीनसादय: ।
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितै: ॥६८॥
यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत् ।
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम् ॥६९॥
धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम् ।
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत् ॥७०॥
कृशरोत्कारिकामाषकुलत्थयवपायसै: ।
संकरस्वेदविधिना कण्ठं पार्श्वमुर: शिर: ॥७१॥
स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत् ।
बलागुडूचीमधुकशृतैर्वा वारिभि: सुखै: ॥७२॥
बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत् ।
कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकै: ॥७३॥
औदकानूपमांसानि सलिलं पाञ्चमूलिकम् ।
सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत् ॥७४॥
जीवन्त्या: शतपुष्पाया बलाया मधुकस्य च ।
वचाया वेशवारस्य विदार्या मूलकस्य च ॥७५॥
औदकानूपमांसानामुपनाहा: सुसंस्कृता: ।
शस्यन्ते सचतु:स्नेहा: शिर:पार्श्वांसशूलिनाम् ॥७६॥
शतपुष्पा समधुकं कुष्ठं तगरचन्दने ।
आलेपनं स्यात् सघृतं शिर:पार्श्वांसशूलनुत् ॥७७॥
बला रास्ना तिला: सर्पिर्मधुकं नीलमुत्पलम् ।
पलङ्कषा देवदारु चन्दनं केशरं घृतम् ॥७८॥
वीरा बला विदारी च कृष्णगन्धा पुनर्नवा ।
शतावरी पयस्या च कत्तृणं मधुकं घृतम् ॥७९॥
चत्वार एते श्लोकार्धै: प्रदेहा: परिकीर्तिता: ।
शस्ता: संसृष्टदोषाणां शिर:पार्श्वांसशूलिनाम् ॥८०॥
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिका: ।
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम् ॥८१॥
शृङ्गालाबुजलौकोभि: प्रदुष्टं व्यधनेन वा ।
शिर:पार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत् ॥८२॥
प्रदेह: सघृतश्चेष्ट: पद्मकोशीरचन्दनै: ।
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतै: ॥८३॥
प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् ।
कशेरुका: पयस्या च ससर्पिष्कं प्रलेपनम् ॥८४॥
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा ।
अभ्यङ्ग:, पयसा सेक: शस्तश्च मधुकाम्बुना ॥८५॥
माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा ।
परिषेक: प्रयोक्तव्य इति संशमनी क्रिया ॥८६॥
दोषाधिकानां वमनं शस्यते सविरेचनम् ।
स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम् ॥८७॥
शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि ।
अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते ॥८८॥
योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये ।
शिर:पार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत् ॥८९॥
बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा ।
सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम् ॥९०॥
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला ।
क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम् ॥९१॥
शिर:पार्श्वांसशूलघ्नं कासश्वासनिबर्हणम् ।
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम् ॥९२॥
दशमूलेन पयसा सिद्धं मांसरसेन च ।
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते ॥९३॥
भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम् ।
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम् ॥९४॥
लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान् ।
शिर:पार्श्वांसशूलघ्नान् स्नेहांश्चात: परं शृणु ॥९५॥
घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् ।
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् ॥९६॥
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम् ।
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम् ॥९७॥
शिर:पार्श्वांसशूलघ्नं कासश्वासज्वरापहम् ।
पञ्चभि: पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम् ॥९८॥
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे ।
सिद्धं सर्पिर्जयत्येतद्यक्ष्मण: सप्तकं बलम् ॥९९॥
खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा ।
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्करा: ॥१००॥
वीरा शटी पुष्कराख्यं सुरस: शर्करा गुड: ।
नागरं चित्रको लाजा: पिप्पल्यामलकं गुड: ॥१०१॥
श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा ।
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा ॥१०२॥
सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम् ।
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा ॥१०३॥
चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् ।
सुप्तजिह्वरोचकिनमल्पाग्निं पार्श्वशूलिनम् ॥१०४॥
हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे ।
वासाघृतं शतावर्या सिद्धं वा परमं हितम् ॥१०५॥
दुरालभां श्वदंष्ट्रां च चतस्र: पर्णिनीर्बलाम् ।
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च ॥१०६॥
पचेद्दशगुणे तोये दशभागावशेषिते ।
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत् ॥१०७॥
शट्या: पुष्करमूलस्य पिप्पलीत्रायमाणयो: ।
तामलक्या: किरातानां तिक्तस्य कुटजस्य च ॥१०८॥
फलानां सारिवायाश्च सुपिष्टान् कर्षसंमितान् ।
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत् ॥१०९॥
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम् ।
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति ॥११०॥
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥१११॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥११२॥
एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम् ।
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥११३॥
बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम् ।
साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम् ॥११४॥
द्राक्षाखर्जूरसर्पिर्भि: पिप्पल्या च शृतं सह ।
सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत् ॥११५॥
आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसा: ।
यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिता: ॥११६॥
ज्वराणां शमनीयो य: पूर्वमुक्त: क्रियाविधि: ।
यक्ष्मिणां ज्वरदाहेषु ससर्पिष्क: प्रशस्यते ॥११७॥
कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नर: ।
पयसा फलयुक्तेन माधुकेन रसेन वा ॥११८॥
सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया ।
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम् ॥११९॥
यवगोधूममाध्वीकसिध्वरिष्टसुरासवान् ।
जाङ्गलानि च शूल्यानि सेवमान: कफं जयेत् ॥१२०॥
श्लेष्मणोऽतिप्रसेकेन वायु: श्लेष्माणमस्यति ।
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत् ॥१२१॥
क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते ।
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च ॥१२२॥
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते ।
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति ॥१२३॥
तस्याग्निदीपनान् योगानतीसारनिबर्हणान् ।
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान् ॥१२४॥
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना ।
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमै: ॥१२५॥
पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम् ।
दुरालभा शृङ्गवेरं पाठा च सुरया सह ॥१२६॥
जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम् ।
पेयामण्डेन पातव्यमतीसारनिवृत्तये ॥१२७॥
एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान् ।
ससूप्यधान्यान्सस्नेहान् साम्लान्संग्रहणान् परम् ॥१२८॥
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयो: ।
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान् ॥१२९॥
मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत् ।
स्नेहाम्ललवणोपेतान् खडान् सांग्राहिकान् परम् ॥१३०॥
चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत् ।
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान् ॥१३१॥
मांसानां लघुपाकानां रसा: सांग्राहिकैर्युता: ।
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालय: ॥१३२॥
स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम् ।
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रस: ॥१३३॥
इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम् ।
परं मुखस्य वैरस्यनाशनं रोचनं शृणु ॥११४॥
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम् ।
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान् ॥१३५॥
पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम् ।
भेषजं पानमन्नं च हितमिष्टोपकल्पितम् ॥१३६॥
त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम् ।
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा ॥१३७॥
यवानी तिन्तिडीकं च पञ्चैते मुखधावना: ।
श्लोकपादेष्वभिहिता रोचना मुखशोधना: ॥१३८॥
गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम् ।
एषामालोडितानां वा धारयेत् कवलग्रहान् ॥१३९॥
सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषो: ।
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च ॥१४०॥
यवानीं तिन्तिडीकं च नागरं साम्लवेतसम् ।
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत् ॥१४१॥
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ।
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ॥१४२॥
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् ।
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ॥१४३॥
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम् ।
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् ॥१४४॥
इति यवानीषाडवम् ।
तालीशपत्रं मरिचं नागरं पिप्पली शुभा ।
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके ॥१४५॥
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा ।
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम् ॥१४६॥
हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम् ।
वम्यतीसारशूलघ्नं मूढवातानुलोमनम् ॥१४७॥
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा: स्मृता: ।
इति तालीशाद्यं चूर्णं गुटिकाश्च ।
शुष्यतां क्षीणमांसानां कल्पितानि विधानवित् ।
दद्यान्मांसादमांसानि बृंहणानि विशेषत: ॥१४९॥
शोषिणे बार्हिणं दद्याद्बर्हिशब्देन चापरान् ।
गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान् ॥१५०॥
काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान् ।
भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि ॥१५१॥
लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान् ।
शृगालशावांश्च भिषक् शशशब्देन दापयेत् ॥१५२॥
सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा ।
मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये ॥१५३॥
गजखङ्गितुरङ्गाणां वेशवारीकृतं भिषक् ।
दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये ॥१५४॥
मांसेनोपचिताङ्गानां मांसं मांसकरं परम् ।
तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम् ॥१५५॥
मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत् ।
तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि ॥१५६॥
जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत् ।
तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत् ॥१५७॥
बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयो: ।
खरगोमहिषाणां च मांसं मांसकरं परम् ॥१५८॥
योनिरष्टविधा चोक्ता मांसानामन्नपानिके ।
तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे ॥१५९॥
प्रसहा भूशयानूपवारिजा वारिचारिण: ।
आहारार्थं प्रदातव्या मात्रया वातशोषिणे ॥१६०॥
प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजा: ।
कफपित्तपरीतानां प्रयोज्या: शोषरोगिणाम् ॥१६१॥
विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च ।
रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत् ॥१६२॥
मांसमेवाश्नन्त: शोषे माध्वीकं पिबताेऽपि च ।
नियतानल्पचित्तस्य चिरं काये न तिष्ठति ॥१६३॥
वारुणीमण्डनित्यस्य बहिर्मार्जनसेविन: ।
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम् ॥१६४॥
प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु ।
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन् ॥१६५॥
मद्यं तैक्ष्णौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम् ।
प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातव: ॥१६६॥
पुष्यन्ति धातुपोषाच्च शीघ्रं शोष: प्रशाम्यति ।
मांसादमांसस्वरसे सिद्धं सर्पि: प्रयोजयेत् ॥१६७॥
सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा ।
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकै: ॥१६८॥
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम् ।
पिप्पलीपिप्पलीमूलंचव्यचित्रकनागरै: ॥१६९॥
सयावशूकै: सक्षीरै: स्रोतसां शोधनं घृतम् ।
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम् ॥१७०॥
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम् ।
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह ॥१७१॥
सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह।
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिक: ॥१७२॥
बहि:स्पर्शनमाश्रित्य वक्ष्यतेऽत: परं विधि: ।
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत् ॥१७३॥
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च ।
उत्तीर्णं मिश्रकै: स्नेहै: पुनराक्तै: सुखै: करै: ॥१७४॥
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम् ।
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ॥१७५॥
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम् ।
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम् ॥१७६॥
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत् ।
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम् ॥१७७॥
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम् ।
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभि: ॥१७८॥
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधै: शृतै: ।
गन्धै: समाल्यैर्वासोभिर्भूषणैश्च विभूषित: ॥१७९॥
स्पृश्यान् संस्पृश्य संपूज्य देवता: सभिषग्द्विजा: ।
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम् ॥१८०॥
इष्टमिष्टैरुपहितं सुखमद्यात् सुखप्रदम् ।
समातीतानि धान्यानि कल्पनीयानि शुष्यताम् ॥१८१॥
लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च ।
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि ॥१८२॥
यच्चोपदेक्ष्यते पथ्यं क्षतक्षीणचिकित्सिते ।
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये ॥१८३॥
अभ्यङ्गोत्सादनैश्चैव वासोभिरहतै: प्रियै : ।
यथर्तुविहितै: स्नानैरवगाहैर्विमार्जनै: ॥१८४॥
बस्तिभि: क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनै: ।
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनै: ॥१८५॥
सुहृदां रमणीयानां प्रमदानां च दर्शनै: ।
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च ॥१८६॥
हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनै: ।
ब्रह्मचर्येण दानेन तपसा देवतार्चनै: ॥१८७॥
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया ।
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते ॥१८८॥
यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जित: ।
तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत् ॥१८९॥
तत्र श्लोकौ–
प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसंग्रह: ।
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मण: ॥१९०॥
नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता।
इत्युक्त: संग्रह: कृत्स्नो राजयक्ष्मचिकित्सिते ॥१९१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने राजयक्ष्मचिकित्सितं नामाष्टमोऽध्याय: ॥८॥
Last updated on June 21st, 2021 at 07:11 am