चरकसंहिता
कल्पस्थानम् ।
तृतीयोऽध्याय: ।
अथात इक्ष्वाकुकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते ।
लम्बाऽथ कटुकालबूस्तुम्बी पिण्डफला तथा ॥३॥
इक्ष्वाकु: फलिनी चैव प्रोच्यते तस्य कल्पना ।
कासश्वासविषच्छर्दिज्वरार्ते कफकर्षिते ॥४॥
प्रताम्यति नरे चैव वमनार्थं तदिष्यते ।
अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमितम् ॥५॥
क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे ।
पुष्पादिषु च चत्वार: क्षीरे जीमूतके यथा ॥६॥
योगा हरितपाण्डूनां सुरामण्डेन पञ्चम: ।
फलस्वरसभागं च त्रिगुणक्षीरसाधितम् ॥७॥
उर:स्थिते कफे दद्यात् स्वरभेदे च पीनसे ।
जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि ॥८॥
जातं स्यात् सकफे कासे श्वासे वम्यां च तत् पिबेत् ।
अजाक्षीरेण बीजानि भावयेत् पाययेत च ॥९॥
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ।
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दित: ॥१०॥
तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत् ।
तुम्ब्या फलरसै: शुष्कै: सपुष्पैरवचूर्णितम् ॥११॥
छर्दयेन्माल्यमाघ्राय गन्धसंपत्सुखोचित: ।
भक्षयेत् फलमध्यं वा गुडेन पललेन च ॥१२॥
इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम् ।
पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम् ॥१३॥
पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक् ।
यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत् ॥१४॥
कषायै: कोविदाराद्यैर्मात्राश्च फलवत् स्मृता: ।
बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत् ॥१५॥
पूतस्यास्य त्रयो भागाश्चतुर्थ: फाणितस्य तु ।
सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा ॥१६॥
महाजालिनिजीमूतकृतवेधनवत्सकान् ।
तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना ॥१७॥
यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते ।
तं लिहन्मात्रया लेहं प्रमथ्यां च पिबेदनु ॥१८॥
कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते ।
शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितै: ॥१९॥
कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके ।
गुल्मे मेहे प्रसेके च कल्कं मांसरसै: पिबेत् ।
नर: साधु वमत्येवं न च दौर्बल्यमश्नुते ॥२०॥
तत्र श्लोका:–
पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु च त्रय: ।
घ्रेयं सपललं तैलं वर्धमाना: फलेषु षट् ॥२१॥
घृतमेकं कषायेषु नवान्ये मधुकादिषु ।
अष्टौ वर्तिक्रिया लेहा: पञ्च मन्थो रसस्तथा ॥२२॥
योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च ।
उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया ॥२३॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्याय: ॥३॥
Last updated on July 2nd, 2021 at 07:04 am