विषय सूची पर जायें

46. मूर्च्छाप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षट्चत्वारिंशत्तमोऽध्यायः ।

अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः |
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ||३||

करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च |
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ||४||

हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञानाशो बलस्य च |
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||५||

सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः |
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||६||

सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् |
मोहो मूर्च्छेति तां प्राहुःषड्विधा सा प्रकीर्तिता ||७||

वातादिभिः शोणितेन मद्येन च विषेण च |
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ||८||

अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः |
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ||९||

तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः |
द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति ||१०||

गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः |
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ||११||

स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः |
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः |
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१२||

वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते |
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१३||

सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च |
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि ||१४||

सिताप्रियालेक्षुरसप्लुतानि द्राक्षामधूकस्वरसान्वितानि |
खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि ||१५||

सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च |
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः ||१६||

भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि |
शीतेन तोयेन बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम् ||१७||

कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् |
मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः ||१८||

हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा |
द्राक्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति ||१९||

पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति |
प्रभूतदोषस्तमसोऽतिरेकात् सम्मूर्च्छितो नैव विबुध्यते यः ||२०||

सन्न्यस्तसञ्ज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः |
यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव ||२१||

तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम् |
तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः ||२२||

वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः |
आभिः क्रियाभिश्च न लब्धसञ्ज्ञः सानाहलालाश्वसनश्च वर्ज्यः ||२३||

प्रबुद्धसञ्ज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम् |
फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः |
सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः ||२४||

यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत् |
सर्वमूर्च्छापरीतानां विषजायां विषापहम् ||२५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम (अष्टमोऽध्यायः, आदितः) षट्चत्वारिंशत्तमोऽध्यायः ||४६||

Last updated on July 8th, 2021 at 12:08 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi