सुश्रुतसंहिता ।
अथ उत्तरन्त्रम् ।
विंशतितमोऽध्यायः ।
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च |
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ||३||
कृमिकर्णप्रतिनाहौ विद्रधिर्द्विविधस्तथा |
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ||४||
कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः |
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ||५||
समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः |
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ||६||
यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति |
शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ||७||
स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति |
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ||८||
श्रमात् क्षयाद्रूक्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः |
विरिक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ||९||
शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः |
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः ||१०||
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसञ्ज्ञिते |
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ||११||
स कर्णविट्को द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते |
तदा स कर्णप्रतिनाहसञ्ज्ञितो भवेद्विकारः शिरसोऽभितापनः ||१२||
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः |
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः ||१३||
क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः |
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ||१४||
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः |
स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसम्प्रतापवान् ||१५||
अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः |
प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम् |
मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः ||१६||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः ||२०||
Last updated on July 8th, 2021 at 11:46 am