सुश्रुतसंहिता ।
अथ कल्पस्थानम् ।
पञ्चमोऽध्यायः ।
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सर्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः |
दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गुले ||३||
प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै |
न गच्छति विषं देहमरिष्टाभिर्निवारितम् ||४||
दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते |
आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ||५||
प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत् |
स दष्टव्योऽथवा सर्पो लोष्टो वाऽपि हि तत्क्षणम् ||६||
अथ मण्डलिना दष्टं न कथञ्चन दाहयेत् |
स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते ||७||
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः |
सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता ||८||
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः |
भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ||९||
विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः |
यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः ||१०||
मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना |
मिताहारेण शुचिना कुशास्तरणशायिना ||११||
गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः |
पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः ||१२||
मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः |
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः ||१३||
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक् |
शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे ||१४||
रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम् |
तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया ||१५||
समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत् |
चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ||१६||
पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः |
तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका ||१७||
कोविदारशिरीषार्ककटभीर्वाऽपि भक्षयेत् |
न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च ||१८||
द्रवमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत् |
प्रायो हि वमनेनैव सुखं निर्ह्रियते विषम् ||१९||
फणिनां विषवेगे तु प्रथमे शोणितं हरेत् |
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ||२०||
नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने |
वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत् ||२१||
शीतोपचारं कृत्वाऽऽदौ भिषक् पञ्चमषष्ठयोः |
पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम् ||२२||
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् |
तीक्ष्णमेवाञ्जनं दद्यात्, तीक्ष्णशस्त्रेण मूर्ध्नि च ||२३||
कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत् |
पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् ||२४||
अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च |
वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत् ||२५||
तृतीये शोधितं तीक्ष्णैर्यवागूं पाययेद्धिताम् |
चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत् ||२६||
काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः |
हितोऽवपीडे त्वगदः सप्तमे विषनाशनः ||२७||
पूर्वे राजिमतां वेगेऽलाबुभिः शोणितं हरेत् |
अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च ||२८||
वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम् |
तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः ||२९||
षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे |
गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम् ||३०||
विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु |
रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके ||३१||
त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत् |
चतुर्गुणं तु नागानां, केवलं सर्वपक्षिणाम् ||३२||
परिषेकान् प्रदेहांश्च सुशीतानवचारयेत् |
माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम् |
पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ||३३||
देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम् |
प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् ||३४||
वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम् |
कर्मावस्थाविशेषेण विषयोरुभयोः शृणु ||३५||
विवर्णे कठिने शूने सरुजेऽङ्गे विषान्विते |
तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः ||३६||
क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः |
पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ||३७||
तृड्दाहघर्मसम्मोहे पैत्तं पैत्तविषातुरम् |
शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ||३८||
शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम् |
वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम् ||३९||
कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम् |
विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् ||४०||
शूनाक्षिकूटं निद्रार्तं विवर्णाविललोचनम् |
विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत् ||४१||
शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे |
शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ||४२||
नष्टसञ्ज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः |
चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत् ||४३||
ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः |
तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ||४४||
कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः |
सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि ||४५||
चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक् |
वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः ||४६||
लब्धसञ्ज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत् |
निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ||४७||
अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते |
कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः ||४८||
शोफशोषप्रतिश्यायतिमिरारुचिपीनसान् |
तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ||४९||
विषार्तोपद्रवांश्चापि यथास्वं समुपाचरेत् |
अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया ||५०||
दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते |
एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ||५१||
विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति |
तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत् ||५२||
तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः |
पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः ||५३||
कफमारग्वधाद्येन सक्षौद्रेण गणेन तु |
श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः ||५४||
वृक्षप्रपातविषमपतितं मृतमम्भसि |
उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसञ्ज्ञवत् ||५५||
गाढं बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वाऽवशिष्टैः |
शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ||५६||
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम् |
कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च ||५७||
तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत् |
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः ||५८||
लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः |
तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य ||५९||
हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः |
अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्रव्यैराज्ययुक्तैर्विषघ्नैः ||६०||
भिन्ने त्वस्थ्ना दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च |
त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ||६१||
कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि |
एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः ||६२||
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः |
विडङ्गपाठत्रिफलाजमोदाहिङ्गूनि वक्रं त्रिकटूनि चैव ||६३||
सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः |
शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ||६४||
एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना |
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ||६५||
स्थौणेयकध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च |
कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ||६६||
रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च |
सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ||६७||
एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य |
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ||६८||
विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि |
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ||६९||
पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम् |
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ||७०||
वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च |
यस्यागदोऽयं सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ||७१||
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव |
एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ||७२||
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति |
लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च ||७३||
चूर्णीकृतोऽयं रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः |
शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ||७४||
सञ्जीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान् |
श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च ||७५||
सतण्डुलीयोऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम् |
द्राक्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ||७६||
देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च |
तथाऽर्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ||७७||
एषोऽगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि |
वंशत्वगार्द्राऽऽमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा ||७८||
करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति |
विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः ||७९||
पुरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः |
काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः ||८०||
समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः |
सलावणः क्षौद्रयुतोऽथ पीतो विशेषतः कीटविषं निहन्ति ||८१||
कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम् |
मालती नागपुष्पं च सर्वाणि मधुराणि च ||८२||
कपित्थरसपिष्टोऽयं शर्कराक्षौद्रसंयुतः |
विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ||८३||
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः |
चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ||८४||
पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम् |
श्यामाऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ||८५||
भूमी कुरबकश्चैव गण एकसरः स्मृतः |
एकशो द्वित्रिशो वाऽपि प्रयोक्तव्यो विषापहः ||८६||
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ||५||
Last updated on July 8th, 2021 at 10:53 am